गुणवती

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:Underlinked

यः सद्धर्मस्य नियमानुसारं क्रमबद्धम् अनुष्ठानं कुर्वन् भवति सः तस्य फलं प्राप्नोति एव । धर्माचरणं कदापि व्यर्थं न भवति । अस्माभिः पूर्वजन्मनि कृतं धर्मकार्यं वा अधर्मकार्यं वा भवतु, तदनुसारं तस्य फलम् अनुभोक्तव्यमेव भवति । कस्यचित् व्यक्तेः प्रसक्तसुख –दुःखानि दृष्ट्वा तस्य वर्तमानजन्मनः कर्माणां विषये चिन्तनं व्यर्थम् भवति । सा व्यक्तिः पूर्वकृतकर्मानुसारम् अस्मिन् जन्मनि फलानि प्राप्नोति एव । एतस्य रहस्यं ज्ञात्वा अस्मिन् जन्मनि अपकारान् परित्यज्य उपकारान् कृत्वा जीवन्मुक्तेः प्राप्तिः उत्तमा । अन्यथा अस्मिन् जन्मनि कृतानि पापफलानि अनुभोक्तुं पुनः अग्रिमं जन्म प्राप्य तत् ऋणं परिहरणीयं भवति । अतः पूर्वजन्मनः पापस्य फलानि अनुभवन्तः, पुण्यकार्याणि कुर्वन्तः भवन्ति चेत् उत्तमफलं प्राप्तुं शक्यते । एतस्य उत्तमम् उदाहरणम् इत्युक्ते गुणवत्याः जीवनम् ।

गुणवत्याः कथा

सत्ययुगम् इतोऽपि प्रचलत् आसीत् । तस्मिन् समये मायापुरे (हरिद्वारे) देवशर्मा नामकः अत्रिगोत्रोत्पन्नः ब्राह्मणः आसीत् । सः कश्चन परमधार्मिकः, धर्मज्ञः, भगवद्भक्तः च आसीत् । देवशर्मणः पुत्रसन्तानं नासीत् । एका एव सुन्दरी पुत्री आसीत् । तस्यां विद्यमानान् सद्गुणान् दृष्ट्वा देवशर्मा तस्यै 'गुणवती’ इति नामकरणं कृतवान् । शैशवे एव एतस्याः माता दिवङ्गता आसीत् । अतः पिता एव मातृवत् तां पालितवान् । तन्नाम तस्य अङ्के एव गुणवत्याः वर्धनम् अभवत्। पितुः धार्मिकस्वभावः, भगवतः ध्यानम् इत्यादयः संस्काराः तस्याः उपरि प्रभावं जनयन्ति स्म । गुणवती ज्येष्ठा जाता । धर्माधर्मस्य विवेचना वर्धिता । पितुः धर्मकार्याणि स्वस्य जीवनेऽपि अनुसृतवती । देवशर्मा नियमपूर्वकं एकादशीदिने व्रताचरणं कुर्वन् आसीत् । तस्मिन् दिने रात्रौ जागरणं कृत्वा पुनः पूजां कृत्वा भजनं कीर्तनं च गायति स्म । प्रतिवर्षं सः कार्तिकमासपूर्णं पूजां करोति स्म । ब्राह्मीमुहूर्ते स्नानं कृत्वा देवं पुजयित्वा एकवारमेव फलाहारं स्वीकृत्य नियमेन भवति स्म । तस्मिन् मासे पूर्णं भगवताराधनं, तुलसी – आमलकसस्ययोः च पूजां करोति स्म ।

धर्माचरणशीला गुणवती

आबाल्याद् एतद् सर्वं पशन्ती गुणवती अपि पित्रा कृतानाम् एकादशी, कार्तिकमासस्य च व्रतानां पालनं विधिपूर्वकं करोति स्म । आजीवनम् एतानि व्रतानि सा आचरितवती । देवशर्मा गुणवत्याः विवाहं स्वशिष्येषु सुयोग्येन विदुषा, धार्मिकेन चन्द्रनामकेन युवकेन सह कारितवान् । चन्द्रस्य अपि मातापितरौ न आस्ताम् । अतः सः देवशर्माणं एव स्वस्य पिता इव मत्वा सेवां करोति स्म । पितुः अनुरूपा पुत्री पूर्णमनसा, हृदयेन च पत्युः सेवायां तत्परा आसीत् । अनिरीक्षिततया तस्याः प्रशान्ते जीवने कश्चित चण्डमारुतः प्रविष्टः । विधिः स्वस्य प्रभावं दर्शयति । कदाचित् देवशर्मा, चन्द्रः च यज्ञार्थं समिधान् सङ्गृहीतुम् अरण्यं गतवन्तौ आस्ताम् । तदा भयङ्करः राक्षसः कश्चन आगत्य तौ खादितवान् एव । एतं विषयं ज्ञत्वा गुणवत्याः अशनिपातः जातः इव । पितुः तथा पत्युः स्मरणे तयोः शरीरार्थं आवनम् अन्विष्टवती । किन्तु प्रयोजनं नाभवत् । राक्षसः तयोः समग्रं शरीरं खादितवान् आसीत् ।

गुणवत्याः तपः

अनन्यगतिकया सा प्रत्यागतवती । पितुः सम्पुर्णं सम्पदं दीनेभ्यः दरिद्रेभ्यः वितीर्णवती । ब्राह्मणेभ्य धेन्वोः दानं कृतवती । स्वस्य विशालं गृहं कस्मैचित् दीनब्राह्मणाय दत्तवती । पतिविहीनायाः स्त्रियाः विधवायाः भोगभाग्यस्य आवश्यकता वा कुतः ? सा वल्कलवस्त्रं धृत्वा पर्णकुटीरं निर्मीय तस्मिन् निवसन्ती आसीत् । अरण्यस्थकन्दमूलफलानि जीवग्रहणार्थं खादति स्म । रात्रौ यज्ञवेदिकायाः उपरि तृणशय्यायां शयनं करोति स्म । त्रिवारं स्नानं कृत्वा पत्युः ध्यानं कुर्वती आसीत् । एवं तपसा, ध्यानेन च निरता सा देहत्यागं कृत्वा दीर्घकालपर्यन्तं स्वर्गे आसीत् । द्वापरयुगे सः एव ब्राह्मणः देवशर्मा यदुकुले महाभागः सत्राजित् भूत्वा जन्म प्राप्तवान् । गुणवती तस्य पुत्री सत्यभामा भूत्वा जन्म प्राप्तवती । एषा पूर्वपुण्यप्रभावेण साक्षात् श्रीकृष्णं पत्युः रूपेण प्राप्तवती । ""

फलकम्:भारतस्य पतिव्रताः

"https://sa.bharatpedia.org/index.php?title=गुणवती&oldid=7374" इत्यस्माद् प्रतिप्राप्तम्