गाण्डीवं स्रंसते हस्तात्...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
गाण्डीवं स्रंसते हस्तात् त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ३० ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य त्रिंशत्तमः (३०) श्लोकः ।


पदच्छेदः

वेपथुः, च, शरीरे, मे, रोमहर्षः, च, जायते ॥ गाण्डीवम्, स्रंसते, हस्तात्, त्वक्, च, एव, परिदह्यते । न, च, शक्नोमि, अवस्थातुम्, भ्रमति, इव, च, मे, मनः ॥

अन्वयः

रोमहर्षः वेपथुश्च मे शरीरे जायते । हस्तात् गाण्डीवं स्रंसते । त्वक् च एव परिदह्यते । अवस्थातुं न शक्नोमि । मे मनः भ्रमति इव । ।

शब्दार्थः

रोमहर्षः = रोमाञ्चः
मे = मम
शरीरे = देहे
वेपथुः = कम्पनम्
जायते = उवति
हस्तात् = करात्
गाण्डीवम् = गाण्डीवनामकं धनुः
स्रंसते = भ्रश्यति
त्वक् च एव = चर्म च
परिदह्यते = सन्तप्यते
अवस्थातुम् = स्थातुम्
न शक्नोमि = नहि प्रभवामि
मनः = चित्तम्
भ्रमति इव = भ्राम्यति इति मन्ये ।

अर्थः

मम शरीरे कम्पः जायते । अहं रोमाञ्चम् अनुभवन् अस्मि । गाण्डीवं धनुः मम हस्तात् स्रंसते । मम त्वक् दग्धा इव भवति । अहं सम्यक् स्थातुं न शक्नोमि । मम मनः भ्रमति इव ।।

श्लोकवैशिष्ट्यम्

विषयस्य सुबोधाय मिलित्वा दत्तम् ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः