गङ्गदेवी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

गङ्गदेवी(Gangadevi)

एषा विजयनगरस्थापकस्य बुक्करायस्य स्नुषा । कम्पणरायस्य पत्नी । ‘वीरकम्पणरायचरितम्’ इति काव्यं रचितवती अस्ति एषा । ‘मधुराविजयम्’ इति तस्यैव काव्यस्य अपरं नाम । एतत् अपि ऐतिहासिकं काव्यम् । गङ्गदेवी चतुर्दशे (१४) शतके आसीत् । एतस्याः काव्यस्य भाषा सरला । एतस्याः कल्पनाः नूतनाः सन्दर्भोचिताः च भवन्ति । वर्णनानि न अतिदीर्घाणि, न नीरसानि वा । अतः एव प्रसिद्धेषु काव्येषु अन्यतमत्वेन परिगण्यते एतस्याः काव्यम् अपि ।


फलकम्:Infobox settlement

"https://sa.bharatpedia.org/index.php?title=गङ्गदेवी&oldid=8194" इत्यस्माद् प्रतिप्राप्तम्