खरहरप्रिय (रागः)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:कर्णाटकसङ्गीतरागः खरहरप्रियरागः कर्णाटकशास्त्रीयसङ्गीतस्य कश्चन रागःमेलकर्तृरागव्यवस्थायाः अनुगुणम् अयं रागः २२ तमः मेलकर्तृरागः अस्ति। पूर्वस्मिन् काले एतस्य रागस्य नाम "हरप्रय" इत्येव स्यत्। यदा "कटपयादि" व्यवस्था आगता, तदा "खर" इति उपसर्ग: आगत: इति केचन जनानां अभिप्राय: । एष: राग: २२ मेलकर्तृराग: अस्ति । खरहरस्य रामस्य प्रिय: राग: एष: इत्युक्तम् अस्ति । हिन्दुस्तानीशास्त्रीयसङ्गीतस्य काफिराग: अस्य रागस्य सम: अस्ति ।।

लक्षणानि

खरहरप्रियारागस्य आरोहणम् । षड्जं 'C' इति स्वरस्य स्थाने अस्ति।

खरहरप्रियराग: मेलकर्तृरागव्यवस्थायाम् २२ राग: अस्ति। एष: राग: वेदचक्रे चतुर्थ: राग: । अस्मिन् रागे चतुशृतिऋषभम्, साधारणगान्धारम्, शुद्धमध्यमम्, चतुशृतिदैवतम्, कैषिकिनिशादम् च सन्ति । मध्यमम् विहाय एष: राग: धर्मवतीरागस्य समान: एव। करुणाभक्तिरसयुक्त: एष: राग: मन्दम् अथवा मध्यमकालेन गातव्यम् । वयं खरहरप्रियरागं सर्वदा गातुं शक्नुम: । अस्मिन् रागे ऋषभे हनुमत्तोडि, गान्धारे कल्याणी , मध्यमे हरिकामभोजि, , पञ्चमे नटभैरवि , निशादे शङ्कराभरणम् च प्रति ग्रहभेद: अस्माभि: कर्तुम् शक्यते ।

जन्यरागा:

खरहरप्रियरागस्य बहव: जन्यरागा: सन्ति । तेषु आभेरिराग:, आभोगिराग:, देवक्रियाराग:, हुसेनिराग:, शुद्धधन्यासिराग:, कापिराग:, मुखारिराग:, नायकीराग: च सुप्रसिद्धा: ।

प्रसिद्धानि कीर्तनानि

खरहरप्रियरागे बहूनि कीर्तनानि सन्ति । किन्तु मुत्तुस्वामी दीक्षित: अस्मिन् रागे किमपि न कृतवान् । प्रधानतया त्यागराज: एवास्मिन् रागे अनेका: रचना: अकरोत् ।

अधः मायामालवगौलरागे प्रसिद्धानाम् कीर्तनानाम् आवलिः दत्ता अस्ति -

  1. "चक्कनिराज", "पक्कलनिलबडि", "नडचि नडचि", "रामानि समान" - त्यागराज:, तेलुगुभाषा
  2. "अप्पन्नवदरित", "सेन्तिल् आण्डवन्", "श्रीनिवास तव चरणम्" - पापनासम् शिवन्, तामिल् भाषा
  3. "नवसिद्धि पेट्रालुम्" - नीलकण्ठशिवन्, तमिल् भाषा

फलकम्:मेळकर्तारागाः

"https://sa.bharatpedia.org/index.php?title=खरहरप्रिय_(रागः)&oldid=5436" इत्यस्माद् प्रतिप्राप्तम्