कार्पण्यदोषोपहतस्वभावः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement कार्पण्यदोषोपहतस्वभावः (फलकम्:IPA audio link) इत्यनेन श्लोकेन अर्जुनः कर्तव्याकर्तव्ययोः निर्णये स्वम् असमर्थं ज्ञात्वा व्याकुलमनसा भगवन्तं प्रार्थयते । पूर्वस्मिन् श्लोके युद्धोपरामनिर्णयं प्रति सन्देहं प्रदर्श्य अत्र भगवन्तं मार्गदर्शनाय अर्जुनः निवेदयति । सः प्रार्थयति यत्, कापुरुषतारूपिदोषयुक्तः, धर्मविषये मोहितान्तःकरणयुक्तः चाहं भवन्तं पृच्छामि यत्, यत्किमपि कल्याणकरम् अस्ति, तत् कथयतु । अहं भवतः शिष्यः अस्मि । भवतः शरणम् आगताय मह्यम् उपदेशं ददातु इति ।

श्लोकः

गीतोपदेशः
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥

पदच्छेदः

कार्पण्यदोषोपहतस्वभावः, पृच्छामि, त्वाम्, धर्मसम्मूढचेताः । यत्, श्रेयः, स्यात्, निश्चितम्, ब्रूहि, तत्, मे, शिष्यः, ते, अहम्, शाधि, माम्, त्वाम्, प्रपन्नम्॥

अन्वयः

कार्पण्यदोषोपहतस्वभावः धर्मसम्मूढचेताः त्वां पृच्छामि यत् निश्चितं श्रेयः स्यात् तत् मे ब्रूहि । अहं ते शिष्यः । त्वां प्रपन्नं मां शाधि ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
कार्पण्यदोषोपहतस्वभावः अ.पुं.प्र.एक. लुब्धत्वदोषेण नष्टस्वभावः
पृच्छामि √प्रच्छ ज्ञीप्सायाम्-पर.कर्तरि, लट्.उपु.एक. प्रश्नं करोमि
त्वाम् युष्मद्-द.सर्व.द्वि.एक. भवन्तम्
धर्मसम्मूढचेताः धर्मसम्मूढचेतस्-स.पुं.प्र.एक. धर्मे मूढमनस्कः
मे अस्मद्-द.सर्व.ष.एक. मम
यत् युद्-द.सर्व.नपुं.प्र.एक. यत्
निश्चितं अ.नपुं.प्र.एक. असन्दिग्धं
श्रेयः श्रेयस्-स.नपुं.प्र.एक. हितम्
स्यात् √अस् भुवि-पर.कर्तरि, वि.लिङ्.प्रपु.एक. भवेत्
तत् तद्-द.सर्व.नपुं.द्वि.एक. तद्
ब्रूहि √ ब्रूञ् व्यक्तायां वाचि-पर.कर्तरि, लोट्.मपु.एक. वद
अहं अस्मद्-द.सर्व.प्र.एक. अहं
ते युष्मद्-द.सर्व.ष.एक. तव
शिष्यः अ.पुं.प्र.एक. शासनीयाः
त्वां युष्मद्-द.सर्व.द्वि.एक. त्वाम्
प्रपन्नम् अ.पुं.द्वि.एक. उपगतम्
मां अस्मद्-द.सर्व.द्वि.एक. माम्
शाधि √शासु अनुशिष्टौ-पर.कर्तरि, लोट्.मपु.एक. उपदिश ।

व्याकरणम्

सन्धिः

  1. यच्छ्रेयः = यत् + श्रेयः – श्चुत्वम्, छत्वसन्धिः
  2. स्यान्निश्चितम् = स्यात् + निश्चितम् - अनुनासिकसन्धिः
  3. तन्मे = तत् + मे – अनुनासिकसन्धिः
  4. शिष्यस्ते = शिष्यः + ते – विसर्गसन्धिः (सकारः)
  5. तेऽहम् = ते + अहम् - पूर्वरूपसन्धिः

समासः

  1. कार्पण्यदोषोपहतस्वभावः = कार्पण्यं दोषः कार्पण्यदोषः – कर्मधारयः ।

# कार्पण्यदोषेण उपहतः कार्पण्यदोषोपहतः – तृतीयातत्पुरुषः । # कार्पण्यदोषोपहतः स्वभावः यस्य सः – बहुव्रीहिः ।

  1. धर्मसम्मूढचेताः = धर्मे सम्मूढम् धर्मसम्मूढम् – सप्तमीतत्पुरुषः ।

# धर्मसम्मूढं चेतः यस्य सः – बहुव्रीहिः ।

कृदन्तः

  1. निश्चितम् = निस् + चि + क्त (कर्मणि)
  2. शिष्यः = शास् + क्यप् (कर्मणि) । शासनीयः इत्यर्थः ।
  3. प्रपन्नम् = प्र + पद् + क्त (कर्तरि)

अर्थः

एते सर्वे मदीयाः । तस्मात् एतेषां न किञ्चिदपि हानिः भवेत् इति लुब्धत्वेन दोषेण इदानीं मम विचारशक्तिः नष्टा अस्ति । धर्मविषये मम चेतः सम्मूढम् अस्ति । अतः पृच्छामि - इदानीं मम यत् असन्दिग्धं श्रेयः तत् त्वं वद । अहं त्वामेव शरणं गतः अस्मि । माम् उपदिश ।

भावार्थः [१]

'कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः' – अत्र 'चेतस्'-शब्दः बुद्धिवाचकः अस्ति । यद्यपि युद्धोपरामस्य निर्णयः पूर्णतया योग्यः इति अर्जुनस्य मतं नासीत्, तथापि सः पापाद् रक्षणाय एतादृशम् उपायं चिन्तयन् आसीत् । अतः अत्र युद्धोपरामस्य निर्णयः तस्य कृते गुणः आसीत्, न तु कापुरुषतारूपः दोषः । परन्तु यदा भगवान् तस्य वचनानि हृदयदौबल्यस्य फलम् इति अवदत्, तदा अर्जुनः अपि स्वनिर्णयं प्रति सन्दिग्धः अभवत् । तस्य मनसि "युद्धोपरामस्य निर्णयः अयोग्यः" अस्ति इति विचारः समुद्भूतः । तस्य विचारे कापुरुषता एव अस्ति, या मे स्वभावानुगुणा न; किञ्च मम क्षात्रधर्मे दीनता, पलायनं च निषिद्धे स्तः [२] । कापुरुषतारूपं दोषं स्वस्मिन् स्वीकृत्य अर्जुनः श्रीकृष्णं कथयति यत्, एकत्र कापुरुषतारूपदोषेण क्षात्रस्वभावः माम् आवृतः, अपरत्र स्वबुद्ध्या धर्माधर्मयोः निर्णयं कर्तुम् अपि अहम् असमर्थः अस्मि इति ।

तृतीये श्लोके श्रीकृष्णः अर्जुनाय कापुरुषतां त्यक्त्वा युद्धं कर्तुम् आज्ञाम् अयच्छत् । ततः एतादृशस्य संशयस्य स्थानमेव न भवेत् । परन्तु अर्जुनस्य सम्मुखं परिवारस्य नाशः, पूज्यानां संहारः च पापकर्म आसीत् । अपरत्र युद्धं क्षात्रधर्म । उभयतः आपतितेन सङ्कटेन अर्जुनः धर्मसङ्कटम् अन्वभवत् । अतः सः स्वस्य कर्तव्यस्य, धर्मस्य च निर्णयं कथं करोमि ? इति भगवन्तं पृच्छति ।

'यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे' – अध्यायस्यास्य द्वितीये श्लोके भगवान् अर्जुनं कापुरुषम् अवदत् । तव आचरणम् 'अनार्यजुष्टम्' अस्ति इत्यपि अवदत् । आर्याः श्रेष्ठाः वा यस्मिन् स्वकल्याणं भवति, तदेव कार्यं कुर्वन्ति । एवं श्रुत्वा अर्जुनस्य मनसि श्रेष्ठपुरुषानुकरणस्य भावः उद्भूतः । स्वकल्याणेच्छायां जागृतायां सत्यां सः भगवन्तं स्वकल्याणस्य निश्चितं मार्गं पृच्छति । अर्जुनस्य हृदये विषादे सति अत्र सः स्वकल्याणस्य मार्गं पृच्छति इत्यनेन सिद्ध्यति यत्, मनुष्यः यस्यां स्थित्याम् अस्ति, तस्यां स्थित्यां सन्तोषेण तिष्ठति चेत्, सः स्ववास्तविकोद्देशं प्रति कदापि जागृतः न भवति इति । वास्तविकोद्देशस्य पूर्तिः तदैव भवति, यदा मनुष्यः स्वस्य वर्तमानस्थित्या असन्तुष्टः तस्यां स्थित्यां स्थातुं न काङ्क्षेत् ।

'शिष्यस्तेऽहम्' – स्वकल्याणस्य चर्चया अर्जुनस्य मनसि विचारः उद्भूतः यत्, कल्याणस्य चर्चा तु गुरोः सकाशम् एव भवति । सारथिना सह एतादृशेषु विषयेषु चर्चा न भवति । एवं श्रीकृष्णं प्रति रथित्वस्य भावः तस्य मनसि नस्यति । "हे अच्युत ! रथं मे उभयोः सेनयोः मध्ये स्थापय" इति पुरा दत्ताज्ञः अर्जुनः अधुना स्वकल्याणस्य उपदेशाय शिष्यो भूत्वा भगवन्तं निवेदयति ।

'शाधि मां त्वां प्रपन्नम्' – गुरुः तु ज्ञानं दास्यति, मार्गञ्च प्रदर्शयिष्यति, परन्तु मार्गदर्शनानुगुणं स्वकल्याणं तु शिष्येण साधनीयं भवति । अर्जुनः स्वयं स्वकल्याणस्य दायित्वं स्वीकर्तुं नेच्छति । यतः तावता तस्य कार्यसिद्धिः न भवेत् । अतः सः स्वकल्याणसिद्धेः दायित्वम् अपि गुरवे अयच्छत् । यदि अहं स्वकल्याणस्य दायित्वं गुरवे ददामि, तर्हि गुरुः स्वयं मे कल्याणं साधयिष्यति । अतः अर्जुनः 'अहं भवतः शरणम् आगतः, मह्यम् उपदेशं ददातु' इति कथयति ।

अत्र अर्जुनः 'त्वां प्रपन्नम्' इत्यस्य पदस्य उपयोगं करोति । अनेन पदेन अर्जुनः पूर्णतया श्रीकृष्णस्य शरणम् अङ्गीकर्तुं वदति, परन्तु इतोऽपि सः पूर्णतया श्रीकृष्णस्य शरणं न गतः । किञ्च सः 'शाधि माम्' इत्यस्य पदस्य उपयोगम् अपि करोति । अर्थात् शरणस्वीकारोत्तरं "मह्यम् उपदेशं ददातु" इत्यस्य कृते अवसरः एव नावशिष्यते । यतः शरणे स्वीकृते शिष्यस्य व्यक्तिगतं किमपि कर्तव्यं नावशिष्यते । अस्याध्यायस्य नवमे श्लोकेऽपि अर्जुनः 'न योत्स्ये' इत्यस्य पदस्य उपयोगं कृत्वा पूर्णतया शरणागतः न इति प्रकटयति । अत्र शरणदातृशरणार्थिनोः मध्ये शरणदाता यत् कारयेत्, तत् शरणार्थिना करणीयम् इति निश्चितं भवति । परन्तु अर्जुनः एतत् न ज्ञातवान् । अतः अग्रे श्रीकृष्णः 'मामेकं शरणं व्रज' इति वदति [३] । ततः अर्जुनः 'करिष्ये वचनं तव' इत्युक्त्वा पूर्णतया शरणागतिं स्वीकरोति [४]

श्लोकेऽस्मिन् अर्जुनः यद् अवद्त्, तस्य चतुर्धा विभागः भवति ।

  1. कार्पण्यदोषो... धर्मसम्मूढचेताः
  2. यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
  3. शिष्यस्तेऽहम्
  4. शाधि मां त्वां प्रपन्नम्

प्रप्रथमम् अर्जुनः धर्म पृच्छति, द्वितीयवारं कल्याणस्य प्रार्थनां करोति, तृतीये शिष्यत्वं स्वीकरोति, अन्ते च शरणागतो भवति । एतेषु विचारे सति ज्ञायते यत्, मनुष्यः यं प्रश्नं करोति, सः उत्तरदाने स्वतन्त्रः भवति । मनुष्यः यस्मै प्रार्थनां करोति, तस्य (यं प्रार्थथ्यते, तस्य कृते) कृते उत्तरदानं दायित्वं भवति । शिष्ये जाते सति गुरौ शिष्यस्य कल्याणस्य विशेषदायित्वं भवति । शरणागतस्य उद्धाराय तु शरणदात्रा सम्मूर्णोद्योगः करणीयः भवति इति ।


फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. अर्जुनस्य प्रतिज्ञे द्वे न दैन्यं न पलायनम्
  3. गीता, अ. १८, श्लो. ६६
  4. गीता, अ. १८, श्लो. ७३