कामेट् (शिखरम्)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox mountain

भारतस्य उत्तराखण्डेराज्ये गढ्वालप्रदेशस्य अत्यन्तम् उन्नतम् पर्वतशिखरं कामेट् । ७७७६ मी (२५४४६ पादमितम्) औन्नत्ये स्थितं कामेट् शिखरं चमोलीमण्डले टिबेट्देशस्य सीमया संयुक्तमस्ति । हिमालयस्य मुख्य- श्रेण्याः किञ्चित् उत्तरे भागे स्थितायां झंस्कारपर्वतश्रेण्यां विद्यमानं कामेट् अत्युन्नतम् शिखरम् अस्ति । टिबेट्पीठभूमेः समीपस्थं कामेट् शिखरं दुर्गमप्रदेशः इति परिगणितम् अस्ति । किन्तुं शिखरस्य आरोहणं कष्टकरं न इति पर्वतारोहिणाम् अभिप्रायः अस्ति । कामेट् शिखरं परितः अन्यानि त्रीणि उन्नतशिखराणि सन्ति । ते तु --

  • मुकुट् पर्बत्( मुकुटशिखरम् )(७२४२ मी)
  • अबि गमीन (८३५५ मी)
  • नमत्तुमाणा (७२७२ मी)

कामेट् शिखरं परितः १)पश्चिमकामेट् हिमनदी २)पूर्वकामेट् हिमनदी ३) रैकाना हिमनदी च सन्ति । पश्चिमकामेट् हिमनद्या सरस्वतीनदी उद्भवति । पूर्वकामेट् हिमनदी धौलीगङ्गानद्याः मूलम् । एते नद्यौ ‘अलकनन्दानद्याः मुख्य- उपनद्यौ ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=कामेट्_(शिखरम्)&oldid=424" इत्यस्माद् प्रतिप्राप्तम्