कामाख्या (गुवाहटी)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Mandir कामाख्या (गुवहाटी)- एतत् शक्तिपीठं भारतस्य असमराज्यस्य गुवाहाटीनगरे अस्ति कामाख्याक्षेत्रम् । एतत् शक्तिपीठं विश्वासाचारयोः मेलनस्य प्रतीकम् इति वक्तुं शक्नुमः । यतः शक्तिपथस्य मूलम् अस्ति योनिपूजा । सा पूजा अत्र अक्षरशः आचरणे अस्ति । अत्र वामाचारस्य बलिपूजा तथा कौलपूजा प्रचलति ।

सम्पर्कः

गुवहाटी नगरं प्रति देशस्य नानाभागेभ्यः सम्पर्कः अस्ति । गुवाहटीतः ७ की.मी.दूरे नीलाचलपर्वते अस्ति । समीपस्थं विमानस्थानकं गुवाहटी । समीपरेलस्थानकं नीलाचलम्।

वैशिष्ट्यम्

ऐतिह्यानुसारम् अत्र सतीदेव्याः योनिभागः पतितः इति विश्वासः । अत्रत्या देवी त्रिपुरसुन्दरी, त्रिपुरभैरवी, ललिताम्बा इत्यादिभिः नामभिः, अत्रत्यशिवः उमानन्दनाम्ना च पूज्यते । अस्य मन्दिरस्य अपरं वैशिष्ट्यं नाम भक्ताः अत्र स्वयं पूजां कर्तुं शक्नुवन्ति । अत्र प्राणिबलिः प्रचलति । किन्तु पुम्मृगान् एव बलिरूपेण अर्पयन्ति । अस्य क्षेत्रस्य विषये काचित् कथा प्रचलिता अस्ति ।

कथा

बहुपूर्वं कौचित् राजकुमारौ मृगयार्थम् आगतवन्तौ आस्ताम् । पिपासितौ तौ अत्रत्यां काञ्चित् वृद्धां जलं दातुं प्रार्थितवन्तौ । सा वृद्धा समीपस्थं निर्झरं प्रदर्श्य "अस्मिन् प्रदेशे देव्याः योनिभागः पतितः आसीत् । अत्र देवालयस्य निर्माणं कुरुताम्” इति संसूच्य अदृश्या अभवत् । राजकुमारौ तस्य स्थलस्य परिशीलनं क्रुतवन्तौ । योनिरूपस्य शिला तस्मिन् निर्झरे दृष्टा । शिलां परितः जलं प्रवहति स्म । चकितौ तौ तत्र मन्दिरस्य निर्माणं कृतवन्तौ ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=कामाख्या_(गुवाहटी)&oldid=5689" इत्यस्माद् प्रतिप्राप्तम्