काफीसस्यम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Taxobox

काफीसस्यम्
पुष्पितं काफीसस्यम्
काफीसस्ये पक्वानि अपक्वानि च काफीफलानि
काफीसस्यस्य शाखा, पुष्पं चापि

एतत् काफीसस्यं भारते अपि वर्धमानः कश्चन सस्यविशेषः । इदं काफीसस्यम् आङ्ग्लभाषायां Coffee Plant इति उच्यते । एतत् काफीसस्यं द्विविधं भवति । अराबिकं तथा रोबस्टं चेति । अराबिकवंशस्य काफीसस्यस्य वर्धनं प्रथमम् इतियोपिया मध्ये कृतम् । तथैव रोबस्टवंशस्य वर्धनम् अद्यतन-उगाण्डदेशे कृतम् । रोबस्टवंशस्य काफीबीजानि अत्यधिकप्रमाणेन "केफीन्"-अंशयुक्तानि भवन्ति । एतेषां रोबस्टवंशस्य काफीबीजानां भर्जनावसरे कश्चन विभिन्नः गन्धः अपि उत्पद्यते । अराबिकवंशस्य काफीबीजानि एव प्रसिद्धानि जनप्रियाणि च ।

एतत् काफीसस्यं गुल्मरूपेण वर्धते । अस्य काफीसस्यस्य फलनाम् अन्तः विद्यमानैः बीजैः एव काफीचूर्णं निर्मीयते । ततः तेन काफीचूर्णेन काफीपेयं निर्मीयते । तत् पेयं सर्वदा उष्णं कदाचित् शीतलं चापि पीयते । अनेन काफीचूर्णेन निर्मीयमाणं काफीपेयं जगति एव अत्यन्तं जनप्रियं पेयम् अस्ति । अनेन काफीचूर्णेन २००३ तमे वर्षे निर्यातवस्तुषू विश्वे एव षष्ठं स्थानं प्राप्तम् अस्ति । आरम्भस्य पञ्चस्थानानि क्रमशः गोधूमेन, रागीधान्येन, सोयाधान्येन (निष्पावप्रभेदः), तालतैलेन, शर्करया च प्राप्तम् अस्ति ।

बह्वीषु संस्कृतिषु अनेन काफीपेयेन प्रमुखं स्थानं प्राप्तम् अस्ति । दक्षिणभारते तु गृहम् आगतेभ्यः अतिथिभ्यः काफीदानम् अतिथिसंस्कारस्य अङ्गभूतम् । कुत्रचित् काफीपेयं निषिद्धम् अपि आसीत् । १६ शतके मेक्का सदृशेषु देशेषु एतत् काफीपेयम् उत्तेजनकारकम् इति निषिद्धम् आसीत् । १७ शतके इङ्ग्लेण्ड्देशे काफीपेयं राजकीयविद्रोहिभिः केवलम् उपयुज्यते इति निषिद्धम् आसीत् ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=काफीसस्यम्&oldid=1559" इत्यस्माद् प्रतिप्राप्तम्