कर्मजं बुद्धियुक्ता हि...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement कर्मजं बुद्धियुक्ता हि (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः समत्वबुद्धियुक्तस्य निर्विकारपदप्राप्तिरूपं फलं वदति । पूर्वस्मिन् श्लोके समत्वबुद्धियुक्तस्य साधकस्य प्रशंसां कृत्वा अर्जुनाय कर्मयोगस्य अनुष्ठानाय प्रैरयत् । अत्र समभावस्य फलं वर्णयति ।

कर्मयोगी ज्ञानं प्राप्य पुण्यं, पापं, कर्मफलम् इत्यादीनां त्यागं करोति । तस्य त्यागस्य फलस्वरूपं कर्मयोगिनः पार्श्वे किमपि न भवति इत्यर्थः ? यदि तादृशः पुरुषः अधिकाधिकं पुण्यम् अकरिष्यत्, तर्हि तस्य ख्यातिः अभविष्यत् । त्यागानन्तरं कर्मयोगी 'शून्यं' भवति इत्यर्थः एव भवति ? एतस्मिन् श्लोके एतादृशीनां धारणानां खण्डनं भवति ।

श्लोकः

गीतोपदेशः
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥

पदच्छेदः

कर्मजम्, बुद्धियुक्ताः, हि, फलम्, त्यक्त्वा, मनीषिणः । जन्मबन्धविनिर्मुक्ताः, पदम्, गच्छन्ति, अनामयम् ॥

अन्वयः

बुद्धियुक्ताः हि मनीषिणः कर्मजं फलं त्यक्त्वा जन्मबन्धविनिर्मुक्ताः अनामयं पदं गच्छन्ति ।

शब्दार्थः

अन्वयः

विवरणम्

सरलसंस्कृतम्

हि

अव्ययम्

यस्मात्

बुद्धियुक्ताः

अ.पुं.प्र.बहु.

ज्ञानिनः

मनीषिणः

मनीषिन्,न.पुं,प्र.बहु.

पण्डिताः

कर्मजम्

अ.नपुं.द्वि.एक.

कर्मसम्भवम्

फलम्

अ.नपुं.द्वि.एक.

प्रयोजनम्

त्यक्त्वा

क्त्वान्तम् अव्ययम्

विसृज्य

जन्मबन्धविनिर्मुक्ताः

अ.पुं.प्र.बहु.

जननरूपबन्धनरहिताः

अनामयम्

अ.नुपुं.द्वि.एक.

व्याधिशून्यम्

पदम्

अ.नपुं.द्वि.एक.

स्थानम्

गच्छन्ति

√ गम्लृ गतौ – पर.कर्तरि,लट्,प्रपुं.बहु.

प्राप्नुवन्ति।

व्याकरणम्

सन्धिः

बुद्धियुक्ता हि = बुद्धियुक्ता + हि विसर्गसन्धिः (लोपः)

गच्छन्त्यनामयम् = गच्छन्ति + अनामयम् यण्सन्धिः

समासः

जन्मबन्धविनिर्मुक्ताः = जन्म एव बन्धः जन्मबन्धः - कर्मधारयः । जन्मबन्धेन विनिर्मुक्ताः - तृतीयातत्पुरुषः

अनामयम् = न विद्यते आमयः यस्मिन् तत् - बहुव्रीहिः

कृदन्तः

त्यक्त्वा = त्यज् + क्त्वा

तद्धितान्तः

मनीषिणः = मनीषा + इनि (मतुबर्थे) । मनीषा एषाम् एषु वा अस्ति ।

अर्थः

समबुद्धियुक्ताः ज्ञानिनः कर्मणः जायमानं फलं परित्यजन्ति । तेन जननरूपबन्धनात् विमुक्ताः सन्तः अन्ते अमृतमयं परमपदं प्राप्नुवन्ति ।

भावार्थः [१]

'कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः' – ये समतया युक्ताः सन्ति, ते एव वास्तव्येन मनीषिणः, बुद्धिमन्तः वा उच्यन्ते । यः मनुष्यः अकुशलैः कर्मभिः द्वेषं न करोति, कुशलैश्च कर्मभिः रागं न करोति, सः मेधावी (बुद्धिमान्) अस्ति [२] । कर्म तु फलत्वेन परिणति एव । तस्य फलस्य त्यागं कर्तुं कोऽपि न प्रभवति । यथा कृषिक्षेत्रे वपितानि बीजानि निश्चयेन अङ्कुरितानि भविष्यन्ति, तथैव कोऽपि निष्कामभावेन कर्म करोति चेदपि फलमुत्पद्यते एव । अतः अत्र कर्मजन्यस्य फलस्य त्यागः इत्यर्थः स्वीकरणीयः । कर्मजन्यफलस्य इच्छा, कामना, ममता, वासना इत्यादीनां त्यागः करणीयः । तस्य कृते सर्वेऽपि समर्थाः भवन्ति ।

'जन्मबन्धविनिर्मुक्ताः' – समतायुक्तः मनीषिसाधकाः जन्मरूपिबन्धनात् मुक्ताः भवन्ति । यतो हि समतायां स्थिताः सन्तः ते रागः, द्वेषः, कमाना, वासना, ममता इत्यादिभ्यः दोषेभ्यः किञ्चिदपि दुषिताः न भवन्ति । एवं तेषां पुनर्जन्मनः कारणे नष्टे सति ते जन्ममृत्य्वोः बन्धनात् विमुक्ताः भवन्ति ।

'पदं गच्छन्त्यनामयम्' – 'आमय' इत्यस्य शब्दस्यार्थः भवति रोगः, व्याधिः वा । रोगः विकारः उच्यते । यस्मिन् किञ्चिन्मात्रम् अपि विकारः न स्यात्, तद् 'अनामयम्' अर्थात् निर्विकारि उच्यते । समतायुक्ताः मनीषिणः तादृशं निर्विकारं पदं प्राप्नुवन्ति । एतत् निर्विकारपदमेव 'अव्ययपदम्' [३], शाश्वताव्ययपदं [४] च उच्यते । सत्त्वगुणः अपि अनामयः उच्यते [५] । परन्तु वास्त्व्येन अनामयत्वं तु स्वयं परमात्मतत्त्वम् एवास्ति । यतो हि गुणातीततत्त्वं प्राप्य एव साधकः जन्ममृत्य्वोः बन्धनात् मुक्तः भवति । परमात्मतत्त्वस्य प्राप्त्यै सत्त्वगुणः हेतुः भवति, अतः भगवान् सत्त्वगुणम् अपि अनामयत्वेन अघोयत् ।

मर्मः

अनामयपदप्राप्तिः इत्युक्ते किम् ? चेत्, स्वानुभवः इति । प्रकृतिः विकारशीला अस्ति । अतः तस्याः कार्यं शरीरं, संसारः चापि विकारशीलौ । स्वयं निर्विकारे सत्यपि आत्मा विकारिणा शरीरेण सह तादात्म्यं स्थापयति । एवं सः स्वं विकारित्वेन अङ्गीकरोति । परन्तु यदा सः एतस्मात् शरीरात् स्वसम्बन्धं त्यजति, तदा सः स्वस्य वास्तविकं निर्विकारिणं स्वरूपम् अनुभवति । तस्य स्वाभाविकस्य निर्विकारस्वरूपस्य अनुभवः एव अनामयपदम् उच्यते ।

एतस्मिन् श्लोके 'बुद्धियुक्ताः', 'मनीषिणः' इत्येते पदे बहुवचनान्ते स्तः । तयोः तात्पर्यम् अस्ति यत्, यः कोऽपि समतायां स्थिरः भवति, सः अनामयपदं प्राप्य मुक्तः भवति । तेषु कश्चन एकोऽपि नावशिष्यते । एवं 'अनामयपदं' मुक्तेः सहजोपायः अस्ति । अर्थात् यदा उत्पत्तिविनाशशीलैः पदार्थैः सह सम्बन्धः न भवति, तदा स्वतःसिद्धायाः निर्विकारितायाः अनुभवः जायते । तस्य अनुभवस्य कृते परिश्रमः न करणीयः भवति, यतः तस्याः निर्विकारिता स्वाभाविकी एव ।

अत्र 'पद' इत्यस्य शब्दस्य अर्थः "यः साधनीयः, इच्छनीयः च अस्ति" इति । ध्वनिरेव 'शब्दः' इति न । 'पद' इत्यस्य शब्दस्य 'शब्द' इत्यर्थः अपि भवति, येन किमपि ज्ञातुं शक्यते । अमुकैः शब्दैः अमुकविषयस्य ज्ञानम् अवश्यमेव भवेत् । कश्चन जनः यत्किमपि बोधयितुम् इच्छति, तत् अपरेण निश्चयेन अवबोधनीयं स्यात् । तदा एव सः 'शब्दः' उच्यते । सर्वेषां शब्दानाम् अर्थः भवति । सर्वासु भाषासु कोऽपि शब्दः 'पदम्' अस्ति ।

परन्तु अत्र ज्ञानेन प्राप्यं 'पदम्' उक्तम् अस्ति । संस्कृतसाहित्ये 'पद' इति शब्दः प्रसिद्धः अस्ति । यथा - 'विष्णोः परमं पदम्' इति । वेवेष्टि इति विष्णुः – विष्णुः सर्वव्यापी अस्ति । तस्य सर्वव्यापिनः विष्णोः पदम् एव मोक्षः अस्ति [६] । एतस्मिन् श्लोके 'पद' इत्यस्य शब्दस्य स्थाने 'अनामयम्' इत्यस्य शब्दस्य प्रयोगः कृतः । उपद्रवः, समस्या वा आमयः उच्यते । आदिशङ्कराचार्यः अनामयशब्दस्य व्याख्यां कुर्वन् अलिखत्, अनामयं सर्वोपद्रवरहितम् इत्यर्थः । किमपि दुःखम् उपद्रवः उच्यते । अनामयं तु सर्वप्रकारकैः दुःखैः मुक्तिः । "अहं दुःखी" इति सर्वसामान्या भ्रान्तिः । सर्वाः व्यक्तयः स्वस्य भूतकालात् समुत्पन्नाः । अतः ते स्वान् दुःखित्वेन पश्यन्ति । आत्मज्ञानं सर्वाः व्यक्तीः एतस्याः भ्रान्त्याः मोचयति [७]

शाङ्करभाष्यम् [८]

यस्मात् कर्मजमिति ।

कर्मजं  फलं त्यक्त्वा इति व्यवहितेन संबन्धः। इष्टानिष्टदेहप्राप्तिः कर्मजं फलं कर्मभ्यो जातं  बुद्धियुक्ताः  समत्वबुद्धियुक्ताः सन्तः  हि  यस्मात् फलं त्यक्त्वा  परित्यज्य  मनीषिणः  ज्ञानिनो भूत्वा  जन्मबन्धविनिर्मुक्ताः  जन्मैव बन्धः जन्मबन्धः तेन विनिर्मुक्ताः जीवन्त एव जन्मबन्धात् विनिर्मुक्ताः सन्तः  पदं  परमं विष्णोः मोक्षाख्यं  गच्छन्ति   अनामयं  सर्वोपद्रवरहितमित्यर्थः। अथवा बुद्धियोगाद्धनञ्जय इत्यारभ्य परमार्थदर्शनलक्षणैव सर्वतःसंप्लुतोदकस्थानीया कर्मयोगजसत्त्वशुद्धिजनिता बुद्धिर्दर्शिता क्षात्सुकृतदुष्कृतप्रहाणादिहेतुत्वश्रवणात्।।

भाष्यार्थः

'कर्मजम्' इत्यस्य पदस्य 'फलं त्यक्त्वा' इत्यनेन पदेन सह सम्बन्धः अस्ति ।

इष्टानिष्टदेहप्राप्तिः कर्मभिः उत्पन्नशीला अस्ति । सैव इष्टानिष्टदेहप्राप्तिः कर्मजं फलम् उच्यते । समत्वबुद्धियुक्तपुरुषः तत् फलं त्यक्त्वा मनीषी अर्थात् ज्ञानी भूत्वा जीवत्काले एव जन्मबन्धनात् निर्मुक्तः भवति । निर्मुक्तो भूत्वा विष्णोः मोक्षाख्यम् अनामयपदं प्राप्नोति, यत् पदं सर्वोपद्रवरहितम् अस्ति ।

अथवा एवं चिन्तयतु यत्, 'बुद्धियोगाद्धनञ्जय' इत्यस्मात् श्लोकात् एनं श्लोकं यावद् 'बुद्धिः' इत्यनेन शब्देन भगवता श्रीकृष्णेन कर्मयोगजनितया सत्त्वशुद्ध्या उत्पन्ना या सर्वतः सम्प्लुतोदकस्थानीया परमार्थज्ञानरूपा बुद्धिः अस्ति, सा एव प्रतिपादिता इति । यतो हि अत्र एषा बुद्धिः पुण्यपापयोः नाशाय साक्षात् हेतुत्वेन वर्णिता ।। ५१ ।।

रामानुजभाष्यम् [९]

बुद्धियोगयुक्ताः  कर्मजं फलं त्यक्त्वा  कर्म कुर्वन्तः तस्माद्  जन्मबन्धविनिर्मुक्ताः अनामयं पदं गच्छन्ति।  हि प्रसिद्धम् एतत् सर्वासु उपनिषत्सु इत्यर्थः।

भाष्यार्थः

बुद्धियोगयुक्तः पुरुषः कर्मजनितस्य फलस्य त्यागं कृत्वा कर्म करोति । अत एव सः जन्मरूपिणः बन्धनाद् मुक्तः सन् अनामयपदं (मोक्षम्) प्राप्नोति । अत्र ''हि'' इत्यस्य पदस्य अभिप्रायः अस्ति यद्, एषः सिद्धान्तः सर्वासु उपनिषत्सु प्रसिद्धः इति । फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. १८, श्लो. १०, न द्व्ष्यकुशलं कर्म
  3. गीता, अ. १५, श्लो. ५
  4. गीता, अ. १८, श्लो. ५६
  5. गीता, अ. १४, श्लो. ६
  6. विष्णोः मोक्षाख्यं पदं गच्छति ।
  7. परमार्थलक्षणा एव बुद्धिः
  8. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  9. रामानुजभाष्यम्