कर्णावती बी आर् टि एस्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox Public transit कर्णावती बी आर् टि एस् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-gu, फलकम्:Lang-en) इत्येषा गुजरातनिर्माणविकासदलेन (Gujarat Infrastructure Board) कर्णावतीनगरस्य विकासाय घोषिता काचित् परिवहनसुविधा । तस्याः सुविधायाः परिकल्पनादायित्वं गुजरातनिर्माणविकासदलं सेप्ट-विश्वविद्यालयाय अयच्छत् । २००९ तमस्य वर्षस्य अक्तूबर-मासस्य चतुर्दशे दिनाङ्के चतुर्दशमार्गयुक्तः बी आर् टि एस्-जनमार्गः सामान्यनागरिकेभ्यः तत्कालीनेन मुख्यमन्त्रिणा नरेन्द्रमोदिना उद्घोषितः । तेन प्रथमे याने स्थित्वा यात्रापि कृता ।

विहङ्गावलोकनम्

कर्णावतीनगरे अद्यत्वेन ७२ लक्षं जनाः निवसन्ति [१] । २०३५ पर्यन्तं नगरस्यास्य जनसङ्ख्या एककोट्याधिकदशलक्षं भविष्यति । तस्यां परिस्थित्यां नरोडा इत्यादीनां ग्रामाणां जनसङ्ख्यायाम् अपि वृद्धिः भविष्यति । एवं २०३५ तमे वर्षे कर्णावती-महानगरस्य विस्तारः १,००० चतुरस्रकिलोमीटरपरिमितात् अधिकः भविष्यति । नगरस्य एकचतुर्थांशविद्यार्थिभ्यः अभ्यासस्थलं गन्तुं परिवहनस्य आवश्यता भवष्यति । अतः नगरस्य परिवहनव्यवस्थायां क्रान्तेः आवश्यकता आसीत् । नगरीकरणस्य समयेऽस्मिन् एषा बस्-यानसुविधा भविष्यत्कालीनानाम् आवश्यकतानां पूर्तिं करिष्यति । स्थानिकसर्वकारेण राज्यसर्वकारेण सह मिलित्वा एतस्याः परियोजनायाः परिकल्पना चिन्तिता । भविष्यत्काले एतस्याः सुविधायाः विस्तारः पूर्वस्याः पश्चिमां यावत्, उत्तरस्याः दक्षिणां यावत् भविष्यति । कर्णावती मेट्रो-सेवया सह अपि तादात्म्यं भविष्यति ।

कर्णावतीपरिवहनयोजना

गुजरातनिर्माणविकासदलं यस्य सेप्ट-विश्वविद्यालयस्य परिकल्पनानुसारं कर्णावती-नगरे बी आर् टि एस्-विशेषमार्गाणां निर्माणाय सज्जः आसीत्, तस्य विश्वविद्यायस्य प्राध्यापकः एच् एम् शिवानन्दस्वामी मार्गजालस्य विशेषाध्ययनं कृत्वा कार्यान्वयस्य आध्यक्ष्यम् अकरोत् । बी आर् टि एस्-यानस्य कृते यस्य विशेषयानस्य निर्माणं जातम् अस्ति, सः मार्गः अन्यवाहनेभ्यः बाधारूपः न भवेत् तथा निर्मापितः अस्ति [२][३]

'२००५ अनुमानप्रलेखः' इति कर्णावती बी आर् टि एस्-योजनायाः प्रप्रथमः विशेषानुमानप्रलेखः राज्यविकाससंस्थया, गुजरातविकासदलेन च उपस्थापितः । तस्मिन् प्रलेखः ५८ कि.मी. यावत् बी आर् टि एस्-मार्गनिर्माणस्य प्रस्तावः आसीत् । सेप्ट-विश्वविद्यालयेनापि स्वप्रलेखः उपस्थापितः आसीत् । तस्मिन् प्रलेखः एषा योजना JNNURM-प्रकल्पस्य अन्तर्गततया स्वीकृता आसीत् । ततः सा योजना भारतसर्वकारस्य नगरविकासमन्त्रालयेन अङ्गीकृता । देहली, पुणे इत्यादिषु नगरेषु बी आर् टि एस्-यानस्य असफलतायाः, न्यूनतायाः च कारणानि अन्विश्य सेप्ट-विश्वविद्यालयस्य दलेन शताधिकानि परिवर्तनानि कृतानि सन्ति [२][४]

सेवामार्गाणां चयनम्

प्रवासाधिक्यस्य, आर्थिकविकासस्य, मार्गलक्षणस्य, कर्णावतीनगरपरिवहनसेवायाः च लाभं विचिन्त्य बी आर् टि एस्-सेवायाः अनुमानेन ११५ कि.मी यावत् मार्गः चितः । यात्रिकाणां यात्रायाः अनुसारं स्थानकस्य निर्माणव्यवस्था अपि परिलक्षिता अस्ति । [२]

पारितोषिकानि

  • स्थितपरिवहनपारितोषिकम् २०१०[५]
  • भारतस्य द्रुतपरिवहनसुविधा २००९[६]

चित्रवीथिका

उद्धरणानि

फलकम्:Reflist

बाह्यसम्पर्कतन्तुः

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=कर्णावती_बी_आर्_टि_एस्&oldid=4221" इत्यस्माद् प्रतिप्राप्तम्