करौलीमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

Mian temple11.jpg
Mahavirji Temple.JPG

करौलीमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति करौलीनमकं नगरम् ।

भौगोलिकम्

करौलीमण्डलस्य विस्तारः ५५३० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे धौलपुरमण्डलं, पश्चिमे सवाई माधोपुरमण्डलम्, उत्तरे दौसामण्डलं, दक्षिणे मध्यप्रदेशराज्यम् अस्ति । अस्मिन् मण्डले ६२.४५ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चम्बल इत्येषा नदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं करौलीमण्डलस्य जनसङ्ख्या १२०५६३१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २१८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २१८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.५७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८५८ अस्ति । अत्र साक्षरता ६२.७४ % अस्ति ।

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • कैलादेवीमन्दिरम्
  • मदन-मोहनमन्दिरम्
  • श्री महावीरजी मन्दिरम्
  • श्री अञनीमातामन्दिरम्
  • मेहन्दीपुर बालाजीमन्दिरम्
  • तिमनगृह किला
  • मण्डरायल किला
  • रावल महल्

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=करौलीमण्डलम्&oldid=2667" इत्यस्माद् प्रतिप्राप्तम्