करे-ओक्कलजनाङ्गः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement करे-ओक्कलजनाङ्गः कर्णाटकस्य आदिवासिजनाङ्गेषु अन्यतमः।

करे-ओक्कलशब्दस्य व्युत्पत्तिः

एतान् करेओक्कल अथवा करिओक्कलु इति अपि आह्वयन्ति । एतेषु जलपूरितकलशस्य पूजापद्धतिः अस्ति । जलपूर्णकलशं ‘करग’ इति वदन्ति । तदर्तं करग ओक्कल>करोक्कल>कारोक्कल इति भूत्वा कालक्रमेण करेओक्कल इति जातं स्यात् । तन्नाम जलसम्बन्धिनः इत्यर्थे करोक्कलु इति रूपितम् अस्ति । उत्तरकन्नडमण्डलस्य घट्टस्य उपरि उपमण्डलेषु एतेषां वासः । मृत्तिकायाः भित्तिः, पूगपर्णस्य वा तृणस्य वा छदिः, एवं एतेषां कुटीरं भवति ।

करे-ओक्कलजनाङ्गस्य विश्वासः

कुटीरस्य पुरतः वितर्द्यां जलपात्रे विद्यमानं जलं यथा समाप्तं न भवेत् तथा जागरूकता भवेत् इति नियमः अस्ति एतेषाम् । जलपात्रस्य मुखस्य पिधानमपि न कुर्वन्ति, उद्घाट्य एव स्थापयन्ति । यतः एतेषां विश्वासः अस्ति यद् ’ज्येष्ठाः जलपानार्थं यदा गृहमागच्छन्ति, तदा पात्रं पिहितमस्ति चेत् जलपानेन विना ते प्रतिगच्छेयुः’ इति ।

भाषा

करे-ओक्कलाः कन्नडभाषामेव वदन्ति । किन्तु वेगेन उच्चैः च वदन्ति।

"https://sa.bharatpedia.org/index.php?title=करे-ओक्कलजनाङ्गः&oldid=10185" इत्यस्माद् प्रतिप्राप्तम्