कम्मारगट्टे

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

कर्णाटकस्य दावणगेरेमण्डले अस्ति एतत् स्थानम्। अस्मिन् क्षेत्रे श्रीपरशुरामः स्वदिग्विजयानन्तरं खड्गं प्रक्षालितवान् इति कारणात् एतत् क्षेत्रम् कर्महरक्षेत्रमिति प्रख्यातम् अस्ति । मलेबेन्नुरुक्षेत्रे हेळवनकट्टे गिरियम्मा इति भक्ता कीर्तनकत्री चासीत् । एषा अनेकचमत्कारकर्त्री च । हेळवनकट्टे गिरियम्मा वैराग्यनिधिः सर्वत्र अटित्वा स्वामिनः आदेशात् अत्र आगत्य श्रीप्राणदेवस्य दर्शनं प्राप्तवती । अन्ते च श्रीप्राणदेवं प्रणम्य नदीप्रवाहे आत्मार्पणं कृतवती इति त्रिशतवर्षपूर्वतनः इतिहासः । श्रावणशुद्धपञ्चमीदिने अत्र यात्रामहोत्सवः प्रचलति ।

  • मार्गः
  1. चन्नगिरितः १६ कि.मी ।
  2. मलेबेन्नूरुतः समीपे ।
"https://sa.bharatpedia.org/index.php?title=कम्मारगट्टे&oldid=7184" इत्यस्माद् प्रतिप्राप्तम्