कच्छलघुरणः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Underlinked

कच्छप्रदेशस्य लघुरणः, रणश्च

कच्छलघुरणः (फलकम्:Lang-gu, फलकम्:Lang-en), रणः च गुजरातराज्यस्य पश्चिमभागे स्थिते कच्छमण्डले वर्तते । रणे वन्यगर्दभधाम अस्ति । लघुरणः, तं परितः विद्यमानः परिसरश्च अस्मिन् अन्तर्भवति । इदं धाम ४९५० चतुरस्रकिलोमीटर्परिमितं विस्तृतम् अस्ति । समग्रे विश्वे वन्यगर्दभः केवलम् अत्रैव दृश्यते । अस्य गर्दभस्य वर्णः, आकारश्च सामान्यगर्दभेभ्यः भिन्नः वर्तते । 'नीलगाय'/'ब्लू बुल् एण्टिलोप्', 'ब्लेक्-बक्'/'इण्डियन् एण्टिलोप्', 'चिङ्कारा'/'इण्डियन् गेजेल्', वृकः, शृगालः इत्यादिवन्यमृगाः अस्मिन् परिसरे दृश्यन्ते । अत्र केचन विदेशीयपक्षिणः अपि दृश्यन्ते, यथा 'लार्क्', 'वीट्-इयर्' । 'मेक्क्वीन्स् बस्टर्ड्' नामकः विदेशीयपक्षी अत्र शैत्यकाले दृश्यते । मरुभूमेः अन्ते/सीमायां केचन लघुतडागाः, जलाढ्यप्रदेशाश्च सन्ति यत्र जलचरपक्षिणः दृश्यन्ते । तत्रैव शैत्यकाले 'फ्लेमिङ्गो', 'पेलिकन्', बकः, 'स्टोर्क्', चक्रवाकः इत्यादिपक्षिणः दृश्यन्ते । लघुरणः 'लेसर्-फ्लेमिङ्गो' इत्याख्यपक्षिणां सन्तानोत्पत्तिकेन्द्रमप्यस्ति ।

भारतीयवन्यगर्दभधाम्नि वन्यगर्दभौ
"https://sa.bharatpedia.org/index.php?title=कच्छलघुरणः&oldid=7892" इत्यस्माद् प्रतिप्राप्तम्