ओसामा बिन् लाडेन्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox officeholder

ओसामा बिन् लाडेन्

ओसामा बिन् महोम्मद बिन् अवद् बिन् लाडेन् ( मार्च १०, १९५७ तः मे २, २०११ ) एषः सौदि अरेबियायाः धनिकस्य बिन् लाडेन् कुटुम्बस्य सदस्यः । जिहादिभयोत्पादकसङ्गटनस्य अल्खैदस्य संस्थापकः । अमेरिकसंयुक्तसंस्थाने सप्टंबर ११, २०११ तमे दिनाङ्के प्रचलितस्य आक्रमणस्य उत्तरदायी एषः एव । अनेकेषां सैन्यानामुपरि नागरिकाणामुपरि च आक्रमणं बिन् लाडेन् कृतवान् ।

जननम्, विद्याभ्यासः, अग्रिमं जीवनञ्च

पिता महम्मद् लाडेन्, माता ह्मीदा अल् अत्तान् । एतयोः एकः एव पुत्रः ओसामा बिन् लाडेन् । महम्मद् बिन् लाडेनस्य दशमी पत्नी ह्मीदा । एषा १०-०३-१९५७ तमे वर्षे ओसामा बिन् लाडेनस्य जन्म दत्तवती । एषा सिरिया देशस्य डमास्कस् नगरस्य अलावि जनाङ्गस्य महिला । ओसामः १९६८ तः १९७६ पर्यन्तं जेड्डाग्रामस्य ’ अल् नगेर् मादरि आदशां शालायां विद्यार्जनं कृतवान् । ७० दशके अन्तिमभागे ’ किङ्ग अब्दुल् अझीज् विश्वविद्यालये अर्थशास्त्रे प्रशासननिर्वहणे च पदवीं प्राप्तुं महाविद्यालयं प्रविष्टवान् । महाविद्यालयस्य शिक्षणानन्तरं स्वकुटुम्बस्य उद्योगे निरतः भवेयम्- इति चिन्तनम् आसीत् ।

हमिद् मिर् इति पत्रकर्त्रासह ओसामा बिन् लाडेन्

बिन् लाडेनस्य स्वभावः

एषः मितभाषी, कविमनस्कः, भावजीवी, अन्तर्मुखी । एतस्य इस्लां धार्मिकग्रन्थेषु तीव्रासक्तिः आसीत् । महाविद्यालये इस्लां धर्मस्य पाठकः महमद् कुतुबः आसीत् । कुतुबस्य प्रभावः एतस्योपरि महान् जातः । एषः कुतुबः उग्रवादिनां निकटवर्ती आसीत् । " मुस्लिं ब्रदरहुड " एकं मूलभूतवादि सङ्घटनम् । तस्य कार्यकतारौ सय्यद् कुतुबः, अब्दुल् अजमश्च । एतयोः निकटवर्ती महमद् कुतुबः स्वशिष्यस्य ओसामस्य विषयम् अब्दुल् अजामम् उक्तवान् । एवम् अजामस्य परिचयं प्रप्य ओसाममः बहुकालं धर्मादिविषये चर्चाम् अजामेन सह करोति स्म । चर्चायां बहूनि दिनानि व्यतीतानि । परीक्षा समीपे आगता परन्तु सज्जता न जाता । अकृतपरिश्रमः ओसाम विद्यालयं त्यक्त्वा बहिर्गतवान् ।

लाडेनस्य मरणोत्तरस्य इच्छापत्रम्

लाडेनः महान् उग्रवादी चेदपि स्वस्य पुत्रान्, एतस्मिन् कार्ये भागिनः न स्युः इति स्पष्टम् उल्लिखितवान् । तत्सः स्वजीवने पालितवानपि । स्वकीये निरन्तरकार्ये कार्यक्रमं समये च स्वबालानां विषये परिवारविषये लक्ष्यं दातुम् असमर्थः इति क्षमां याचितवान् । स्वपत्नीः स्पष्टं सूचितवान् यत् स्वस्य मरणानन्तरं बालानां योगक्षेमः प्रधानरीत्या गणनीयः इति । तदर्थं ताभिः अन्यः विवाहः नैव करणीयः इत्यपि । स्वस्य २४ पुत्रान् सम्यक् पोषयेयुः । तेन सङ्गृहीतां १८ मिलियन् डालर् सम्पदं किं कुर्यात् इति उल्लेखः नास्ति । पुत्राः राजकीयकार्येषु मग्नाः न स्युः । धार्मिकचर्चाणां विषयेऽपि लक्ष्यं न दध्युः ।

ओसामा बिन् लाडेनस्य व्यङ्ग्यचित्रम्

कालेज् त्यक्त्वा ओसामः डिसेम्बरमासे १९७९ तमे वर्षे गुरोः अजामस्य सूचनानुगुणं पाकिस्तानं गत्वा प्रथमवारं जमातेइस्लाम् सङ्घटनस्य प्रमुखं चिन्तकं बुहीनुद्दीन् रबानिं दृष्टवान् । अपघानिस्ताने रष्यादेशविरुध्दं धर्मयुध्दं ( जिहाद् ) उद्घोषितम् आसीत् । तदा ७ सेनानायकाः कार्यं कृतवन्तः उग्रवादिनां परतः । तेषु अन्यतमः ओसामः । एतस्य सङ्घटनस्य स्वरूपं दत्तवान् अजामः । एषः इस्लामाबादस्य अन्ताराष्ट्रिय इस्लां विश्वविद्यालयस्य प्राध्यापकवृत्तिं स्विकृतवान् । तदा पाकिस्ताने प्रशिक्षणं प्राप्ताः केचन मुजाहिद्दीन् उग्रवादिनः अपघानिस्तानं गच्छन्ति स्म । तत्र गेरिल्ला आक्रमणं रष्यासैन्यविरुध्दं कृत्वा प्रत्यागच्छन्ति स्म ।

सि.ऐ.ए कार्याचरणे सक्रियः

पाकिस्तानस्य आय्.एस्.आय् संस्थायाः प्रमुखः हमीदगुल्लं दृष्टवान् । तेषु दिनेषु अमेरिकागुप्तचरसंस्था परोक्षरीत्या अपघानिस्ताने आपरेशन् सैक्लोन् कार्यावरणमकरोत् । तदा सि.ऐ.ए सङ्घटन मुजाहिद्दीन् सङ्घटनयोः मध्ये आय्.एस्.आय् मध्यवर्ती भूत्वा कार्यमकरोत् । सि.ऐ.ए जनाः परोक्षरीत्या मुजाहिद्दीन् जनेभ्यः पाकिस्ताने सैनिकं प्रशिक्षणं दत्तवन्तः । आधुनिकशस्त्राणि च दत्त्वा अपघानिस्तानं गत्वा युध्दं कर्तुं प्रेरयन्ति स्म ।

मरणम्

ओसाम बिन् लाडेनस्य मरणं मे मासे प्रथमदिनाङके २००१ तमे वर्षे रात्रौ १०.३० वादने प्रकाशितवन्तः । अमेरिकायाः सैन्यं पाकिस्तानस्य अब्बोत्ताबादे ओसाम बिन् लाडेनस्य अन्वेषणमकरोत् । ४० निमेषपर्यन्तं कार्याचरणमकरोत् । किञ्चित्कालं भुशुण्डीप्रयोगः परस्परं सञ्जातः । अन्ते गोलकास्त्रप्रयोगेण ओसमः हतः । तस्य शवं अमेरिकासैनिकाः वशीकृतवन्तः । अमेरिकायाः अध्यक्षः बराक् ओबामः मे १, २००१ तमे वर्षे अधिकृतरीत्या बिन् लाडेनः सैन्यस्य लघुना घटकेन मारितः इति प्रकटितवान् । एतत्कार्याचरणं पाकिस्ताने स्थिताः अमेरिकायाः जायिष्ट स्पेशल आपरेशन्स् कमाण्डर्स जनाः तथैव अमेरिकायाः केन्द्रीयगुप्तचरसंस्थायाः सेण्ट्रल् इण्टलिजेन्स् एजन्सीस् ( सि.आय्.ए ) कृतवन्तः ॥

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=ओसामा_बिन्_लाडेन्&oldid=5379" इत्यस्माद् प्रतिप्राप्तम्