ओम प्रकाश कोहली

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Indian politician ओम प्रकाश कोहली भारतीयलोकतन्त्रस्य प्रतिनिधिः । सः राज्यसभायाः पूर्वसदस्यः आसीत् । गुजरातराज्यस्य राज्यपालत्वेन १५/७/२०१४ तमे वर्षे सः नियुक्तः । सः भारतीयजनतापक्षस्य सदस्यः अपि आसीत् । सः १९९४ तः २००० पर्यन्तं राज्यसभायाः सदस्यः आसीत् । तेन देहलीविश्वविद्यालयस्य शिक्षकसङ्घस्य (डूटा), अखिलभारतीयविद्यार्थीपरिषदः अपि अध्यक्षपदं विभूषितम् । तथा च देहल्याः हंसराज-महाविद्यालये, देशबन्धु-महाविद्यालये च सः व्याख्यातृत्वेन ३७ वर्षाणि सेवाम् अयच्छत् ।

१९९९-२००० मध्ये सः भाजपा-दलस्य देहली-विभागस्य अध्यक्षत्वेन कार्यम् अकरोत् । आपातकालस्य काले सः कारागारे प्रेषितः सर्वकारेण [१][२]

देहलीविश्वविद्यालयात् हिन्दीविषयं स्वीकृत्य सः स्नातकोत्तरपदवीं प्राप्तत् । कोहली शिक्षाविद्, राजनेता, लेखकश्च अस्ति । सः 'राष्ट्रीय सुरक्षा के मोर्चे पर', 'शिक्षा नीति', 'भक्तिकाल के संतो की सामाजिक चेतना' इत्यादीनि पुस्तकानि अलिखत् [३]

सन्दर्भ

फलकम्:Reflist फलकम्:भारतीयराज्यानां राज्यपालाः

"https://sa.bharatpedia.org/index.php?title=ओम_प्रकाश_कोहली&oldid=2445" इत्यस्माद् प्रतिप्राप्तम्