ओजः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement फलकम्:Underlinked

समासभरितोज्ज्वलबन्धत्वमोजः इत्युच्यते । विद्यानाथो दण्डीसमासभूयस्त्वमोजः इत्यकथयताम् । वर्गाक्षरेषु प्रथमानां द्वितीयैः, तृतीयाणां चतुर्थैः, रेफेण सजातीयेन वा वर्णेन, टवर्गाक्षरैः शषवर्णैर्दीर्घसमासैर्वा संयोगाद्गाढबन्धत्वरुपमा ओजः प्रादुर्भवतीति मम्मटोऽभिप्रैति । यथा –

उद्दामदिवरदौघदानलहरीसौरभ्यलोभभ्रम-
द्भृङ्गश्रेणि निबध्दझङ्कृतिकलावाचालितप्राङ्गणाः ।
निस्सीमप्रथमानभूमविभवारम्भप्रियंभावुकाः
मोदन्ते भुविवीररुद्रनृपतेर्विद्वद्गृहश्रेणयः ॥

"https://sa.bharatpedia.org/index.php?title=ओजः&oldid=6817" इत्यस्माद् प्रतिप्राप्तम्