ऐ एन् एस् सिन्धुरक्षकः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


ऐ एन् एस् सिन्धुरक्षकः(INS Sindhurakshak) भारतीयनौसेनावाहिन्याः किञ्चन बृहदाकारजलनिमग्न-नौकायानम् । १९९७ वर्षस्य जून्-मासस्य २६ तमे दिनाङ्के
सिन्धुरक्षकस्य यात्रायाः शुभारम्भः जातः ।

फलकम्:Infobox settlement

निर्माणम्

सिन्धुरक्षकःइत्येतस्य बृहदाकारनौयानस्य भारतीयनौसेनायाम् अन्तर्भुक्तिकरणं १९९७ वर्षस्य डिसेम्बर्-मासस्य २४ तमे दिनाङ्के अभवत् । एडमिरालिटी शिपयार्ड् इत्येषा सिन्धुरक्षकस्य निर्मातृसंस्था । वस्तुतः १९९५ तमे वर्षे अस्य नौयानस्य निर्माणकार्यं प्रारब्धमासीत् । १९९७ तमस्य वर्षस्य जून्मासे सिन्धुरक्षकस्य प्रथमवारं स्वरूपोन्मोचनम् अभवत् ।

कार्येतिहासः

प्रथमदुर्घटना (२०१०)

  • २०१० तमस्य वर्षस्य फेब्रवरी मासे सिन्धुरक्षकः इति नौयाने प्रथमा दुर्घटना विशाखपट्टणम् इति नौकास्थानके संघटिता । भारतीयनौसेनया प्रदत्ताऽलेखानुसारं विद्युत्कोषे विस्फोटात् इयं दुर्घटना जाता । 'हाइड्रोजेन' वायोः बहिःसंक्रमणेन विद्युत्कोषे अग्निसंयोगः जातः इति अनुमीयते ।

शक्तिवर्धनम्

  • २०१० तमे वर्षे दुर्घटनानन्तरवर्तिकाले भारतीयनौसेनया सिन्धुरक्षकः ईत्येतत् नौयानं रशियादेशं प्रति प्रेषितमासीत् । नौयानस्य क्षतिग्रस्तांशानां पुनर्निमाणं तथा शक्तिवर्धनार्थं सेनया अयं सिद्धातगृहीतासीत् । 'प्रोजेक्ट् ०८७७३' इति परिकल्पनायां सिन्धुरक्षकनौयानस्य शक्तिवर्धनप्रक्रिया प्रचलिता आसीत् ।
प्रक्रियायाः समाप्तिः २०१२ वर्षस्य अक्टोबर् मासे जाता । २०१३ तमस्य वर्षस्य जानवरी मासस्य २७ तमे दिनाङ्के रशियादेशः भारतीयानौसेनावाहिनीं सिन्धुरक्षकनौयानं प्रत्यर्पितवान् ।

सिन्धुरक्षकस्य द्वितीयसङ्कटम्

  • २०१३ तमस्य वर्षस्य मार्चमासे सिन्धुरक्षकनौयानं भूमध्यसागरे विचरणसमये भीषणसामुद्रिकचक्रवाते आपतितमासीत् । भारतसर्वकारस्य विदेशमन्त्रालयेन ग्रीकनौसेनायाः साहाय्यं प्रार्थितम् आसीत् । तदा अलेक्जेन्द्रिया पोताश्रयतः प्रेषितविशेषनौयानेन सिन्धुरक्षकस्य उद्धारकार्यम् अभवत् ।

विस्फोटः एवं सिन्धुरक्षकस्य सलिलसमाधिः

  • सम्प्रति २०१३ तमस्य वर्षस्य अगस्ट्मासस्य १४ दिनाङ्के सिन्धुरक्षकनौयानस्य सलिलसमाधिः अभवत् । नौयाने अग्निसंयोगात् विशालविस्फोटः संजातः । अग्नेः सम्प्रसारेण एकाधिकाः विस्फोटाः संङ्घटिताः । केवलघण्टाद्वये समग्र नौयाने अग्निप्रसारितासीत् । यद्यपि अग्निसंयोगस्य कारणं सुनिश्चितं नास्ति तथापि प्राथमिकतया अनुमीयते विद्युत्कोषात् एव अग्नेः संप्रसारणं जातेति ।
"https://sa.bharatpedia.org/index.php?title=ऐ_एन्_एस्_सिन्धुरक्षकः&oldid=200" इत्यस्माद् प्रतिप्राप्तम्