ए आर् रहमान्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox musical artist

अल्लाह् रखा रहमान् (اللہ رکھا رحمان - उर्दूभाषा) इत्यस्य भारतीयचलच्चित्रसङ्गीतकोविदस्य जन्म क्रि.श.१९६६तमे वर्षे जनवरिमासस्य षष्ठे दिने अभवत् । अस्य जन्म नाम ए.एस्. दिलीप-कुमारः । सङ्गीतसंयोजकः, ध्वनिमुद्रिकानिर्मापकः, गायकः इति लोके विख्यातः । क्रि.श.१९९०तमे वर्षे स्वरसंयोजनवृत्तिम् आरब्धवान् ।

एतावति काले अनेन १४वारं फिल्मफेर्-प्रशस्तिः, ११वारं दक्षिणफिल्मफेर्-प्रशस्तिः, ४वारं राष्ट्रियचलच्चित्रप्रशस्तयः, द्विवारम् आस्कर्-प्रशस्तिः, एका गोल्डन्-ग्लोब्-प्रशस्तिः, च प्राप्ताः । [१][२] लण्डन् नगरस्य ट्रिनिटि कालेज् आफ् म्यूज़िक् इति महाविद्यालये पाश्चात्यशास्त्रीयसङ्गीतस्य अध्ययनं कृत्वा पदवीं प्राप्तवान् । ततः स्वस्थानं चेन्नैनगरम् आगत्य स्वस्य पञ्चतन् रेकार्ड इन् इति सुव्यवस्थितां ध्वनिशालाम् आरब्धवान् । [३] भारतस्य चलच्चित्रोद्यमः, अन्ताराष्ट्रियचलच्चित्राणि, नाटकरङ्गमन्दिराणि इत्यादिषु सङ्गीतसंयोजनं कृत्वा स्वकौशलं प्रदर्शितवान् । तेन स्वरसंयोजितानि चलच्चित्रगीतानि १५०दशलक्षाधिकानि विक्रीतानि सन्ति ।[४][५] अपि च २००दशलक्षाधिकाः ध्वनिमुद्रिकाः विक्रीताः सन्ति । [६] अतः अयं विश्वप्रसिद्धः स्वरसम्राट् अभवत् । अस्य सङ्गीतस्य वैशिष्ट्यं नाम विद्युन्मानविन्यासस्य सङ्गीतस्वरैः पौर्वात्यशास्त्रीयसङ्गीतस्य मिश्रणम्, विश्वस्तरस्य सङ्गीतप्रकारः, नूतनतन्त्रज्ञानस्य वाद्यपरिकराणि अपि च साम्प्रदायिकवाद्यानां समानसमागमः च । भारतस्य प्रसिद्धा दिनपत्रिका टैम्स् म्यागज़िन् मोझार्ट् आफ् मद्रास् इति प्राशंसत् । तमिळुविमर्शकाः इसै पुयाल् (तमिळु - இசைப் புயல்) इति वर्णितवन्तः । [७]

बाल्यं शिक्षा च

भारतदेशस्य तमिळुनाडुराज्यस्य राजधानी चेन्नैनगरम् । तत्र सङ्गीतपरम्परायुक्ते धनवति मोदलियार् कुटुम्बे ए.एन्.दिलीपकुमारः अजायत । अस्य पिता आर्.के.शेखरः मलयाळंभाषायाः चलच्चित्राणां सङ्गीतसंयोजकः निर्वाहकः सन् कार्यं करोति स्म । दिलीपस्य नवमे वयसि तस्य पिता दिवङ्गतः । दिलीपकुमारस्य पितुः सङ्गीतवाद्यानां भाटकेन तस्य कुटुम्बनिर्वहणं भवति स्म । अस्य मातुः नाम कस्तूरि इति मतान्तरस्य अनन्तरं करीमा अभवत् । दिलीपः स्वयं अल्लाह रखा रहमान् अभवत् । पौढशिक्षां स्वनगरे एव समाप्य सङ्गीतासक्तः कीबोर्डवादनमपि अभ्यस्य वृत्तिनिरतः अभवत् । तालवाद्यकारः शिवमणि, जान् एण्टोनी, सुरेश पीटर्स, जोजो, राजा, एतैः बाल्यमित्रैः सह मिलित्वा "रूट्स् " इति वाद्यगणम् आरब्धवान् । अपि च अन्येषां वाद्यगोष्ठीषु अपि सङ्गीतविन्यासकाररूपेण कार्यम् अकरोत् । [८] कालक्रमेण रेहमानः नेमेसिस् अवेन्यू इति चेन्नैमूलस्य राक् शैल्याः सङ्गीतवाद्यगणं निर्मितवान् । [९] कीबोर्ड् पियानो, सिन्थसैज़र्, गिटार्, इत्यादिवाद्यानि रहमनः वादयति । सिन्थेसैज़र् इति सङ्गितसंयोजकवाद्यं तु अतिविशिष्टं यन्त्रम् अस्ति । अस्मिन् सङ्गीततन्त्रज्ञानयोः विशिष्टं संयोजनं दृश्यते । अतः अस्मिन् वाद्ययन्त्रे विशेषा रुचिः उत्पन्ना इति रहमानः वदति । [१०] मास्टर् धनराज् इत्यस्य गुरोः मार्गदर्शनेन रहमानः स्वस्य जीवने बहुपूर्वमेव प्रशिक्षां प्राप्तवान् । स्वस्य एकादशे वयसि तमिळुनाडुसङ्गीतदिग्गजः इळयराजः[१०] इत्यस्य वाद्यगणे कीबोर्ड् वादकत्वेन दशवर्षाणि कार्यम् अकरोत् । [११] रहमानः पितुः वाद्यपरिकरान् भाटकर्थम् इळयराजाय अपि ददाति स्म । दशवर्षेषु एम्.एस्.विश्वनाथन्, रमेश नायिडू, राज-कोटि इत्यादीनां वाद्यगोष्ठीषु कीबोर्डवादनम् अकरोत् । ज़ाकिर् हुसेन्, कन्नकुडि वैद्यनाथन्, एल्.शङ्करः इत्यादिभिः ख्यातसङ्गीतसंयोजकैः सह कार्यम् अकरोत् । एतवति काले एव सङ्गीतव्याजेन विश्वप्रवासम् अपि अकरोत् । ट्रिनिटि सङ्गीतमहाविद्यालयं प्रवेष्टुम् अपि विद्याप्रोत्साहधनं प्राप्तवान् । [१२]

व्यक्तिजीवनम्

रहमानस्य पत्नी सायिरा बानु । एतयोः दम्पत्योः खतीजा, रहीमा, इति पुत्र्यौ, अमीन् इति पुत्रः च सन्ति । पुत्रः अमीनः कपल्स् रिट्रीट् इति चलच्चित्रे नाना इति गानं गीतवान् । पुत्री खतीजा एन्थिरन् चलच्चित्रे पुदिया मनिधा इति गीतं गीतवती । [१३][१४] रहमानस्य अग्रजा ए.आर्. रेहानायाः पुत्रः जि.वि.प्रकाशः अपि सङ्गीतसंयोजकः अस्ति । रहमानस्य स्वरसंयोजनस्य "कण्णत्तिल् मुत्तम् इट्टाळ्" इति चलच्चित्रे "विदायि कोडु एङ्गळ् नाडे" इति गीतं गीत्वा गायकवृत्तिम् आरब्धवान् । मळयाळं चलच्चित्रस्य अभिनेता रहमानः अस्य रहमानस्य श्यालः अस्ति । बाल्ये पितुः मरणानन्तरं सङ्कटकालः आगतः इति व्याजेन नास्तिकः अभवत् । तदनन्तरं मातुः इस्लां मतम् अवलम्ब्य मतान्तरम् अपि कृतवान् । टैम्स् इति पत्रिकासन्दर्शने सूफिसम् द्वारा इस्लां मतं स्वीकृतवान् इति अवदत् । [१५] तस्य मातरि अतीव भक्तिः । ८१तमे वर्षे अक्याडेमी-प्रशस्तिस्वीकरणावसरे एवम् अवदत् - 'दिवार् इति चलच्चित्रे मेरे पास् माँ है इति वाक्यम् अस्ति । अस्य अर्थः मम हस्ते अन्यत् किमपि नास्ति चेदपि माता अस्ति' इति । [१६] पूर्वं नास्तिकः चेदपि क्रमेण रहमानः तमिळुभाषायां स्वस्य पदपुञ्जम् अभ्यासे आनीतवान् । एल्ला पुगळुम् इरैवनिके (अर्थः सर्वप्रशंसाः परमात्मसमर्पिता इति) अनेन वचनेन तस्य प्रसिद्धिः इतोऽपि संवृद्धा ।[१७] रहमानस्य बाल्ये यदा तस्य पिता मरणशय्यायाम् आसीत् स्वसुः तीव्रम् अनारोग्यम् आसीत् तदा खादिरि इस्लां मतम् आश्रितवान् । इयं मतान्तरप्रक्रिया पञ्चवर्षाणां दीर्घकालिका आसीत् । स्वस्य २३तमे वयसि क्रि.श.१९९८तमे वर्षे दिलीपः रहमानः इति परिवर्तितः। [८]

वृत्तिजीवनम्

रहमानस्य चलच्चित्रसङ्गीतसंयोजनवृत्तिः क्रि.श. १९९२तमे वर्षे आरब्धः चेदपि क्रि.श.१९७५तमे वर्षे एव कस्यचित् चलच्चित्रस्य ध्वनिमुद्रणे यदा पिता आसीत् तदा ९वर्षीयः रहमानः अकस्मात् पियानो वादितवान् । [१८]

चलच्चित्रसङ्गीतसंयोजनम्

अल्लाह रखा रहमानस्य सङ्गीतवृत्तिः गण्यरूपेण क्रि.श.१९९२तमे वर्षे आरब्धा । तस्मिन् एव समये पञतन् रेकार्ड् इन् इति सङ्गीतध्वनिमुद्रणस्य मिश्रणस्य कार्यशालाम् अस्थापयत् । [१९] आरम्भे एषः त्रीणि साक्ष्यचित्राणि, विज्ञापिकाः, भारतीयदूरदर्शनार्थं च लघुसङ्गीतं योजितवान् । क्रि.श.१९९२तमे वर्षे तत्कालीनः प्रसिद्धः चलच्चित्रदिग्दर्शकः मणिरत्नम् रहमानं सन्दृश्य स्वस्य निर्माणस्य "रोजा" इति तमिळुभाषायाः चलच्चित्रस्य सङ्गीतं संयोजयितुं प्रार्थनाम् अकरोत् । [१९] स्वस्य प्रथमप्रयत्ने एव यशस्वी अभवत् इत्यतः राष्ट्रस्तरे रहमानेन रजतकमलप्रशस्तिः प्राप्ता । प्रथमचलच्चित्रसङ्गीते एव एतादृशी उपलब्धिः तस्य जीवने महत्तमं परिवर्तनम् आनयत् । उत्तमसङ्गीतसंयोजनेन पुनः त्रिवारम् अनेन रजतकमलप्रशस्तिः प्राप्ता । क्रि.श.१९९७तमे वर्षे "मिन्सार कणवु "(तमिळुभाषायाः) इति चलच्चित्रस्य, क्रि.श.२००२तमे वर्षे "लगन् "(हिन्दीभाषायाः) इति चित्रस्य, क्रि.श.२००३तमे वर्षे कण्णतिल् मुत्तम् इट्टाळ्(तमिळुभाषायाः) चित्रस्य सङ्गीतसंयोजनार्थं रजतकमलप्रशस्तिः प्राप्ता ।[२०] तस्मिन् काले रोजा चलच्चित्रस्य सङ्गीतस्य विक्रयणम् सर्वाधिकम् अभवत् । अस्य चित्रस्य मूलम् अनूदितावमतयः अपि प्रसिद्धाः अभवन् । अस्य नूतन शैल्याः रागाः चित्रसङ्गीतक्षेत्रे महत् परिवर्तनम् आनयत् । एतदनन्तरं चेन्नै चित्रोद्यमे अनेकानि तमिळुभाषाचित्रसङ्गीतानि संयोज्य यशस्वी अभवत् । [२१][२२][२३] चलच्चित्रं विहाय अस्य ध्वनिपथाः वैविध्ययुक्ताः प्रसिद्धाः अभवन् । भारतीयशास्त्रीयशैलीं, पाश्चात्त्यशैलीं, कर्णाटकतमिळुनाडुराज्ययोः जानपदशैलीं च मेलयित्वा जाझ् सङ्गीतम्, रेग्गेसङ्गीतम्, राक् शैलीसङ्गीतयुक्तं विषिष्टानि मनोरञ्जकगीतानि दत्तवान् । अनेन न केवलं तमिळुनादुराज्ये देशे विश्वे च अस्य प्रसिद्धिः प्रसृता अभवत् । [२४][२५][२६] रामगोपालवर्मा इति नामकः दक्षिणस्य ख्यातः दिग्दर्शकः हिन्दीभाषायाः " रङ्गीला " इति चलच्चित्रं निर्मितवान् । अस्य चित्रस्य गीतानां स्वरसंयोजनं रहमानेन कारितवान् । तानि सर्वाणि गीतानि अतिप्रसिद्धानि अभवन् । एवम् ए.आर्. राहमानः बालिवुड्रङ्गं (हिन्दीचलच्चित्रलोकः) प्रविष्टवान् । तदन्तरं तस्य क्षेत्रे परावर्त्य न दृष्टवान् । सुभाष घै निदेशनस्य " ताल" इति हिन्दीभाषाचलच्चित्रस्य गीतानां स्वरसंयोजनं कृतवान् । एतानि गीतानि अपि जनप्रियाणि अभवन् । [२७][२८]जावेद् अक्तर् गुल्जार् वैरमुत्तु, वालिः इत्यादीनां प्रसिद्धभारतीयकवीनां रचनैः सह स्वरसंयोजनं कृत्वा तेषां प्रशंसामपि प्राप्तवान् । यस्य निदेशकस्य चलच्चित्रस्य सङ्गीतं सयोज्य ख्यातिम् अवाप्नोत् तस्य अग्रिमचित्रेषु अवश्यं सहयोगं दत्तवान् । अनेन अस्य यशसि नैरन्तर्यं रक्षितम् । क्रि.श.२००५तमे वर्षे चेन्नैप्रदेशस्य कोण्डभकम् इति स्थाने एम्.एम्.स्टूदियोस् संस्थापनेन स्वस्य पञ्चतन् रेकार्ड् इन् इति कार्यशलायाः विस्तारं कृतवान् । एतत् एषियाखण्डे एव अत्याधुनिकसौकर्ययुक्तम् अतिबृहत् इति प्रसिद्धम् अभवत् । [२९][३०] एवमेव क्रि.श.२००६तमे स्वस्य के.एम्.म्यूसिक् इति नाम्ना सङ्गीतस्य ध्वनिमुद्रणस्य उद्यमम् आरब्धवान् ।[३१] क्रि.श. २००८ रहमानः प्रथमतया हलिवुड् (अमेरिकादेशस्य चलच्चित्रलोकः) कपल्स् रिट्रीट् इति चलच्चित्रार्थं सङ्गीतं संयोजितवान् । क्रि.श. २००८तमे वर्षे हिन्दीभाषया "स्लम् डाग् मिलेनियर्" चलच्चित्रस्य सङ्गीतसंयोजनार्थं गोल्डन् ग्लोब् प्रशस्तिं, द्वे अकाडेमीप्रशस्ती च प्राप्तवान् । एतादृशवैभवपूर्णां महाप्रशस्तिं प्राप्तवान् प्रथमः भारतीयः ए.आर्.रहमानः । [३२] अस्य चित्रस्य जै हो इति गीतं देशविदेशेषु अतीव जनप्रियम् अभवत् ।

अन्यकृतयः

रहमानः न केवलं चलच्चित्रसङ्गीतं न कृतवान् किन्तु अन्यकार्यक्रमार्थम् अपि स्वरसंयोगं कृतवान् । क्रि.श.१९९७तमे वर्षे भारतस्य स्वतन्त्र्यस्य स्वर्णमहोत्सवाङ्गतया रहमानः वन्दे माररम् गीतस्य स्वरसंयोगं कृतवान् । एतत् गीतगुच्छं प्रसिद्धिमपि अवाप्नोत् ।[३३][३४] एतस्य अनन्तरं भारतस्य अनेकान् विख्यातकलाकारान् मेलयित्वा स्वरसंयोजितं दृश्यसहितं भारतस्य राष्ट्रगीतं जनगणमन प्रसिद्धम् अभवत् । मध्ये अनेकाः वाणिज्यप्रचारस्य विज्ञपिकाः अपि सङ्गीतेन निबद्धाः तेन । जनजागरणस्य लघुगीतानां, क्रीडाप्रतियोगितानं शीर्षगीतानां, दूरदर्शनवाहिनीनाम् अन्तर्जालमाध्यमानाम् आवश्यकतानुगुणं गीतानाम्,साक्ष्यचित्राणां गीतानां, लघुचलच्चित्राणां गीतानां, सङ्गीतं संयोजितवान् । क्रि.श.१९९९तमे वर्षे रहमानमहोदयः नृत्यनिदेशिकया शोभनया, तमिळुनृत्यपटुना प्रभुदेव सुन्दरेण सह च जर्मनीनगरं गत्वा मैकल जाक्सन् इति ख्यातपाश्चात्त्यनाट्यपटुना सह नृत्यप्रदर्शनम् अकरोत् । क्रि.श.२००२तमे वर्षे रहमानः प्रथमवारं "बाम्बे ड्रीम्स्" इति कस्यचित् नाटकस्य सङ्गीतं योजितवान् । फिनल्याण्ड मूलस्य जानपदसङ्गीतगणः "दि लार्ड् आफ् दि रिङ्ग्स्" इति नाटाकार्थं सङ्गीतं संयोजयितुं रहमानस्य सहयोगम् स्वीकृतवान् । क्रि.श. २००४तमे वर्षे व्यानेसा मे अल्बम् कोरियग्राफि निमित्तं रागास् ड्यान्स् इति गीतस्य स्वरसंयोगं कृतवान् ।[२०] क्रि.श.२००४तमवर्षात् आरभ्य सिङ्गापुरम्, आस्ट्रेलिया, मलेशिया, दुबै, युनैटेड् किङ्ग्डम्, केनडा, अमेरिकासंयुक्तसंस्थानम् इत्यदिषु देशेषु कलारसिकानाम् अनुरोधेन स्वस्य सङ्गीतकलाप्रदर्शनं कृतवान् । [२०][३५] करेन् डेविड् इति विदेशीयस्य गीतगुच्छार्थं रहमानः साहाय्यं कुर्वन् अस्ति । क्रि.श. २००६तमे वर्षे मे मासे इण्ट्रोड्यूसिङ्ग् ए.आर्. रहमान् इति नाम्ना सान्द्रमुद्रिकाद्वयस्य लोकार्पणम् अभवत् । अनयोः तमिळुभाषायाः चलच्चित्रगीतानां २५ गीतानि सन्ति । " कनेक्षन्स् " इति नाम्नः अस्य चलच्चित्रेतरं गीतगुच्छं क्रि.श.२००८तमे वर्षे डिसेम्बर् मासे लोकार्पितम् । क्रि.श. २००९तमे वर्षे भारतदेशस्य प्रधानमन्त्री मनमोहन सिंहः अमेरिकासंयुक्तसंस्थानम् सन्दृष्टवान् । तदा तत्रस्थः राष्ट्राध्यक्षः बराक् ओबामः प्रसिद्धे श्वेतभवने औपचारिकं भोजनं व्यवस्थितवान् । तस्मिन् समारोहे रहमानः सङ्गीतकार्यक्रमं प्रदर्शितवान् ।[३६] [३७], एर्टेल् दूरवाणी सेवासंस्थायाः कृते सङ्गीतसंयोजितं गीतं क्रि.श.२०१०तमे वर्षे नवेम्बरमासस्य १८दिनाङ्के लोकार्पितं प्रसिद्धिं चावप्नोत् ।[३८][३९] दिनद्वयाभ्यन्तरेण रेडियो (आकाशवाणी) देसीबीट्स् इति आकाशवाणीसंस्थायाः कृते शीर्षिकगीतं दत्तवान् । अपि च अस्य वाहिन्याः प्रधानरूपदर्शी अपि रहमानः एव । [४०] क्रि.श. २०१०तमे वर्षे टोयोटा संस्थया भारतीयसञ्चारमार्गानुगुणं निर्मितस्य इतियोस् कार्यानस्य प्रचारार्थं रहमानः किञ्चित् लघुगीतं सङ्गीतेन निबद्धवान् ।[४१][४२] बह्वसु वाणिज्यविज्ञापिकासु न केवलं सङ्गीतं योजितवान् किन्तु रूपदर्शी भूत्वा तत्र अभिनीतवान् अपि ।[४३]

सङ्गीतस्य शैली प्रभावः च

कर्णाटकशास्त्रीयसङ्गीते, पाश्चात्त्यशास्त्रीयसङ्गीते, हिन्दुस्तानिशास्त्रीयसङ्गीते, नुस्रत् फतह अलि खानस्य कव्वालिशैल्यां च रहमानः परिणतः अस्ति । एताभिः सङ्गीतशैलीभिः अन्यसङ्गीतशैलीनां सम्मिश्रणं कृत्वा विभिन्नवाद्यनादान् मेलयित्वा आशुरचनरूपेण रहमानः सङ्गीतं संयोजयितुं समर्थः अस्ति । [८][४४] स्वरमेलविषयाः अस्य सङ्गीतस्य अविभाज्यानि अङ्गानि सन्ति । कदाचित् आवर्तकस्वरगुच्छानि अन्वेति । क्रि.श.१०९८०तमे काले विद्यमानाः अस्य पूर्ववर्तिनः के.वि.महादेवन्, विश्वनाथन् - राममूर्तिः युगलम्, इव रहमनोऽपि एकध्वनिमार्गे वाद्यानि वादयति स्म । क्रमेण एषः स्वस्य शैलीपरिवर्तनं कृतवान् । साम्प्रदायिकवाद्यानि,विद्युन्मानतान्त्रिकवाद्यानि च सम्मेल्य नूतनाविष्कारं कृतवान् । [८] रहमानस्य सङ्गीतशैली अस्य प्रयोगशीलतां सूचयति । प्राचीनायाः समकालीनायाः शैल्याः मिश्रणस्य संवादिरागः वाद्यवृन्दसंयोजनं मानवरवस्य विशिष्टोपयोगः च सङ्गीते प्रभावं जनयन्ति । गुणाः विशालश्रेण्याः गीतानि, रहमानस्य समन्वयस्य शैली इत्यादीनां कारणेन भारतीयश्रोतृवर्गः बहुधा आकृष्टः । [४५] रहमानस्य वृत्तेः आरम्भे जागतिकप्रभावस्य प्रसर्णार्थं अनिवासिनः दक्षिणैषियाजना कारणीभूताः सन्ति । चलच्चित्रक्षेत्रे अत्यन्तं नावीन्ययुतस्य सङ्गीतज्ञस्य रहमानस्य अपूर्वा शैली अपारं यशः च चलच्चित्रसङ्गीतस्य पुनर्जन्मकारणम् अभवताम् । [४६] विश्वस्य महासङ्गीतज्ञेषु रहमानः अन्यतमः इति सङ्गीतनिर्मापकः रान् फेर् इतिकश्चित् उक्तवान् ।[४७] हालिवुड् (अमेरिकायाः चलच्चित्रलोकः) चलच्चित्रनिदेशकः आस्ट्रेलियामूलस्य बझ् लुह्रमन् एवम् अवदत् ............. फलकम्:Cquote

प्रशस्तिपुरस्काराः

फलकम्:मुख्यलेखः भारतस्य चलच्चित्रसङ्गीतस्य क्षेत्रे अनुपमां प्रतिभां प्रदर्श्य योगदानं कृतवता रहमानेन नैके पुरस्काराः प्राप्ताः । तेषु क्रि.श.१९९५ क्रि.श.१९९५तमे वर्षे मारिषस् राष्ट्रियप्रशस्तिः, मलेषियन् प्रशस्तिः च प्रधाने । प्रथमवारं वेस्ट् एण्ड् निर्माणस्य चलच्चित्रस्य सङ्गीतं संयोजितवान् इति लारेन्स् ओलिवियर् प्रशस्तेः नामनिदेशनम् अभवत् । स्वस्य सङ्गीते स्वरप्रस्तारेषु नावीन्यं प्रदर्शितवान् इति भारतसर्वकारेण पद्मश्रीप्रशस्तिः, चतुर्वारं राष्ट्रियचलच्चित्रप्रशस्तिः च प्रदत्ताः। ६ तमिळुनाडुचलच्चित्रप्रशस्तयः, १४ फिलं फेर् प्रशस्तयः. १२दक्षिणफिल्म फेर् प्रशस्तयः, तस्य यशांसि द्योतयन्ति । जागतिकसङ्गीक्षेत्राय दत्तं योगदानं परिगणय्य क्रि.श.२००६तमे वर्षे स्ट्यण्डर्ड् विश्वविद्यालयस्य गौरवप्रशस्तिः अनेन प्राप्तः । [४८] "स्लं डाग् मिलियनेर् " चलच्चित्रस्य सङ्गीतनिदेशनार्थं रहमानाय क्रि.श.२००९तमे वर्षे विमर्शकानां परिग्रहप्रशस्तिः, अत्युत्तमसङ्गीतप्रशस्तिः च प्रदत्ते ।[४९] अत्युत्तमस्वरप्रस्तारार्थं गोल्डन् ग्लोब् प्रशतिः, अत्युत्तममाधुर्यार्थं बाफ्टा (BAFTA)चलच्चित्रसङ्गीतप्रशस्तिः, अत्युत्तममूलगीतार्थं अक्यादेमीप्रशस्तिः च आस्कर् प्रशस्तिप्राप्तेः अवसरे लब्धाः अन्यपुरस्काराः । मिड्ळ्सेक्स् विश्वविद्यालयतः अलिगड् मुस्लिम् विश्वविद्यालयः च अनेन डक्टरेट् उपाधिः प्राप्ता ।[५०][५१] तस्य वर्षस्य अन्तिमभागे चेन्नै अण्णाविश्वविद्यालयः अपि अस्मै डाकट्र् उपाधिम् अयच्छत् ।[५२] अत्युत्तमसङ्गहस्य ध्वनिपथसम्पुटार्थं अपि च कस्यचित् दृश्यमाध्यमस्य कृते लिखितस्य अत्युत्तमगीतार्थं च ग्र्याम्मी प्रशस्तिद्वयम् आगतम् ।[१] क्रि.श. २०१०तमे वर्षे रहमानः भारतसर्वकारस्य अत्युन्नता प्रशस्तिः पद्मभुषणेन पुरस्कृतः । [५३] रहमानः लण्डन् नगरस्य ट्रिनिटि कालेज् आफ् म्यूज़िक् मध्ये गौरवसदस्यत्वं प्राप्तवान् । [५४]

समाजसेवा

लोकसेवार्थम् अपि रहमानः बहून् कार्यक्रमान् कृतवान् । विश्वारोग्यसङ्घटनस्य (WHO) स्टाप् टीबी पार्ट्नशिप् इति अभियानस्य जागतिकराजदूतत्वेन रहमानस्य नियोजनम् अभवत् । [२०] भारते बालान् रक्षतु इति अन्दोलनेन सह अनेकेषु सर्वकारीयकार्यक्रमेषु प्रतिनिधिरूपेण भागं स्वीकृतवान् । क्रि.श.२००४तमे डिसेम्बर् मासे हिन्दूमहासागरस्य सुनामी महापूरे सन्त्रस्थानां सहायधनसङ्गणार्थं बहून् कार्यक्रमान् कृतवान् । मुख्टर् सहोटा इत्यनेन सह डान् एष्यन् गीतस्य "वी क्यान् मेक् इट् बेटर् " इति गानस्य सङ्गीतसंयोजनं रहमानः कृतवान् ।[५५] रहमानः क्रि.श.२००८तमे वर्षे के.एम्. म्मूज़िक् कन्सर्वेटरी (सङ्गीतशिक्षापोषकसंस्था) संस्थाम् आरब्धवान् । यत्र सङ्गीतविद्याम् अध्येतुम् आसक्ताः गानं, वादनम्, इत्यादीनि श्रव्यमाध्यमेन विषिष्टतन्त्रज्ञानद्वारा प्राप्तुं शक्नुवन्ति । अत्र ध्वनिविन्यासक्षेत्रे बोधनं प्रशिक्षा च दीयते । अस्याः सङ्गीतशालायाः बोधकगणे सुप्रसिद्धयशस्वीसङ्गीतकाराः सन्ति । प्राथमिकस्तरस्य डिप्लोमोपदव्याः च प्रणालि अत्र स्तः ।[५६] अस्याः कलाशालयाः विद्यां पदवीं प्राप्य बहवः चलच्चित्रे सङ्गीतसंयोजकत्वेन उद्योगिनः अभवन् ।[५७] चेन्नैनगरे विद्यमानानां निर्गतिकमहिलानां सहायार्थं स्थापितायाः दि ब्यानियन् इति संस्थायाः लघुचित्रस्य सङ्गीतसंयोजनं क्रि.श.२००६तमे वर्षे कृतवान् । तदा क्रि.श. २००८तमे वर्षे दुन्दुभिवाद्यकारेण शिवमणिना सह "जिया से जिया " इति गीतं स्वयं रहमानः रचयित्वा सङ्गीतेन निबद्धवान् । एतत् गीतचित्रं भारतस्य अनेकेषु नगरेषु चित्रीकृतम् अभवत् ।

चलच्चित्रकार्यावली

विशेषावलोकनम्

टीकाः

फलकम्:Reflist

उल्लेखाः

  1. १.० १.१ फलकम्:Cite web
  2. फलकम्:Cite news
  3. ए.आर्. रहमानस्य सन्दर्शनम्, Bio apple.com/Logic Studio
  4. फलकम्:Cite news
  5. फलकम्:Cite news
  6. फलकम्:Cite web
  7. specials.msn.co.in/sp08/oscar/rahman.asp All About Rahman – Oscars 2009 Special.
  8. ८.० ८.१ ८.२ ८.३ फलकम्:Cite web
  9. फलकम्:Cite journal
  10. १०.० १०.१ फलकम्:Cite web
  11. [१]
  12. फलकम्:Cite news
  13. फलकम्:Cite web
  14. फलकम्:Cite web
  15. http://www.youtube.com/watch?v=TqUbiOgEb0w&feature=fvw
  16. [२]
  17. फलकम्:Cite news
  18. फलकम्:Cite web
  19. १९.० १९.१ फलकम्:Cite journal
  20. २०.० २०.१ २०.२ २०.३ फलकम्:Cite web
  21. फलकम्:Cite book
  22. फलकम्:Cite book
  23. फलकम्:Cite web
  24. फलकम्:Cite journal
  25. फलकम्:Cite book
  26. www.indiainfo.com
  27. फलकम्:Cite book
  28. फलकम्:Cite book
  29. फलकम्:Cite web
  30. फलकम्:Cite news
  31. फलकम्:Cite news
  32. [३]
  33. फलकम्:Cite journal
  34. फलकम्:Cite web
  35. फलकम्:Cite news
  36. [४]
  37. [५]
  38. फलकम्:Cite web
  39. फलकम्:Cite web
  40. फलकम्:Cite web
  41. फलकम्:Cite news
  42. फलकम्:Cite web
  43. फलकम्:Cite web
  44. फलकम्:Cite journal
  45. फलकम्:Cite book
  46. फलकम्:Cite journal
  47. फलकम्:Cite journal
  48. फलकम्:Cite web
  49. फलकम्:Cite web
  50. फलकम्:Cite news
  51. फलकम्:Cite news
  52. [६]
  53. फलकम्:Cite press release
  54. फलकम्:Cite video
  55. फलकम्:Cite web
  56. फलकम्:Cite web
  57. फलकम्:Cite news

बाह्यानुबन्धाः

फलकम्:भारतस्य नेपथ्यगायकाः

"https://sa.bharatpedia.org/index.php?title=ए_आर्_रहमान्&oldid=38" इत्यस्माद् प्रतिप्राप्तम्