एवमुक्तो हृषीकेशो...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

फलकम्:Underlinked

गीतोपदेशः
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुर्विशतितमः (२४) श्लोकः ।

पदच्छेदः

एवम्, उक्तः, हृषीकेशः, गुडाकेशेन, भारत । सेनयोः, उभयोः, मध्ये, स्थापयित्वा, रथोत्तमम् ॥

अन्वयः

अस्य श्लोकस्य अन्वयः अग्रिमे श्लोके मिलित्वा दत्तं वर्तते । सुष्टु अवगमनाय ।

शब्दार्थः

एवम् = इत्थम्
उक्तः = कथितः
हृषीकेशः = कृष्णः
गुडाकेशेन = अर्जुनेन
भारत = हे धृतराष्ट्र
सेनयोः = सैन्ययोः
उभयोः = द्वयोः
मध्ये = अन्तरे
स्थापयित्वा = अवस्थाप्य
रथोत्तमम् = रथश्रेम्

अर्थः

अस्य श्लोकस्य तात्पर्यमपि अग्रिमे श्लोके एव वर्तते ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=एवमुक्तो_हृषीकेशो...&oldid=2371" इत्यस्माद् प्रतिप्राप्तम्