एम् पि एल् शास्त्री

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

माननीयः शास्त्रि-महोदयः बेङ्गलूरुनगरे सुप्रसिद्धयोः गान्धिनगरप्रौढशाला - एम्. इ. एस् महाविद्यालययोः संस्थापकः । बेङ्गलूरु-विश्वविद्यालयस्य संस्थापकसदस्येषु अपि अन्यतमः सः १५ वर्षाणि यावत् तस्य विश्वविद्यालयस्य सेनेट्-सिण्डिकेट्-अकाडेमिक् कौन्सिल् - इत्येतेषां सदस्यः अपि आसीत् । मैसूरुविश्वविद्यालयतः संस्कृते उन्नताध्ययनं प्राप्तम् आसीत् तेन । संस्कृतशिक्षणपरीक्षामण्डलस्य सदस्यत्वेन २५ वर्षाणि तेन सेवा कृता । भारतीय-विद्याभवनस्य बेङ्गलूरुकेन्द्रस्य गौरव-कार्यदर्शिरूपेण गौरवाध्यक्षरूपेण च १५ वर्षाणि सेवा कृता तेन ।विद्यासागर-विद्याभूषण-इत्यादिभिः बहुभिः बिरुदैः सम्मानितः शास्त्रिवर्यः अनेकेषां ग्रन्थानां प्रणेता अपि ।

विख्यातः 91वर्षीयः संस्कृतविद्वान्, शिक्षणवेत्ता, कर्णाटकविधानपरिषदः भूतपूर्वः सदस्यश्च प्रो एम्. पि. एल्. शास्त्रिमहाभागः जून्मासस्य षष्ठे दिनाङ्के हृदयाघातेन दिवङ्गतः । सम्माननीयस्य शास्त्रिवर्यस्य दिवङ्गतिम् अभिलक्ष्य नितान्तं सन्तापं सूचयति सन्देशः ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=एम्_पि_एल्_शास्त्री&oldid=9693" इत्यस्माद् प्रतिप्राप्तम्