एम् जि रामचन्द्रन्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person मारुदुर् गोपालन् रामचन्द्रन् अथवा एम्.जि.आर्. (आङ्ग्लः: Maruthur Gopalan Ramachandran, जन्म १७ जनवरी, १९१७ - मृत्युः २४ डिसेम्बर्, १९८७) तमिळ्-चलच्चित्रस्य प्रसिद्धः नटः, निर्माता, निर्देशकश्च आसीत् । एषः अनन्तरं राजनीतिक्षेत्रे प्रविष्टवान् आसीत् तथा तमिऴनाडुराज्यस्य मुख्यमन्त्री अपि अभूत् । एम्.जि.रामचन्द्रन् १९७७ तमवर्षतः १९८७ वर्षपर्यन्तं(मरणपर्यन्तम्) तमिऴनाडुराज्यस्य मुख्यमन्त्री आसीत् । रामचन्द्रन् महोदयस्य जन्म श्रीलङ्कादेशे अभवत् ।

जीवनपरिचयः

एम्.जि.आर्.महोदयः १९१७ तमवर्षस्य जनवरीमासस्य १७ दिनाङ्के, श्रीलङ्कादेशस्य कणडीप्रदेशे अजायत् [१]। तस्य पितरौ मलयाली-प्रवासी आस्ताम् । रामचन्द्रन्-महोदयस्य पिता एम्. गोपाल मेनन्, माता च 'मरुदुर् सत्यभामा' आसीत् । अत्यल्पवयसि एव परिवारं समर्थयितुं सः तथा तस्य अग्रजः एम्.जि. चक्रपाणि नाटकमण्डल्यां सदस्यतां स्वीकृतवन्तौ । गान्धीवादी आदर्शेन प्रभावितः एम्.जि.आर्. भारतीयराष्ट्रियकाङ्ग्रेस् पक्षे आत्मान् योजितवान् । आदौ नाटकेषु अभिनयं कृत्वा १९३६ तमे वर्षे तस्य चलच्चित्रजीवनस्य आरम्भम् अकरोत् । १९४० तमे वर्षे चलच्चित्रेषु अग्रणी भूमिकानिमित्तं रामचन्द्रन् स्नातकः उपाधिना सम्भूषितासीत् । अग्रिमेषु त्रिषु दशकेषु एम्. जि. रामचन्द्रन् महोदस्योदयः महानायकत्वेन अभूत् । सः सफलतापूर्वकं नायकरूपी जनप्रीयतां राजनैतिकाधारत्वेन उपयुक्तवान् ।

राजनैतिकजीवनम्

  • १९५३ तमे वर्षे एम् जी रामचन्द्रन् (एम् जी आर्)-महोदयः द्राविड मुन्नेत्र कळगम्-पक्षे आगतवान् । वरिष्ठः तथा जनप्रीयोऽयं नेता पक्षस्य पताका एवं प्रतीकं चलच्चित्रमाध्यमेन प्रचारं कृतवान् यथा- "अण्बे वा" । एम् जी रामचन्द्रन्-महोदयःद्राविड मुन्नेत्र कळगम्-पक्षस्य विचारधारायाः प्रचार-प्रसारविषये मुख्यभूमिकां पलितवान् । १९७२ तमे वर्षे एम् करुणानिधिमहोदयः स्वस्य स्थापना यदा "तमिळनाडुराज्यस्य मुजिबुर-रहमान्"(तमिळनाट्टिन्-मुजिबुर)-रूपेण कृतवान् तदा विरोधं कृत्वा एम् जी रामचन्द्रन् पक्षत्यागं कृतवान् ।
  • एम जी रामचन्द्रन्-महोदयः अण्णा द्राविड मुन्नेत्र कळगम् (ए डि एम् के) इति राजनैतिकपक्षस्य प्रतिष्ठाताम् अकरोत् । एम् करुणानिधिपरिचालित "द्राविड मुन्नेत्र कळगम् (डि एम् के)" पक्षात् बहिरागत्य ए डि एम् के-गठनं कृतवान् । "सर्वभारतीय"(ए आइ) इति पक्षकार्यकतृणाम् अनन्तरसंयोजनम् ।
  • १९७३ तमे वर्षे अयं पक्षः प्रथमवारं दिन्दिगुल-लोकसभाकेन्द्रे विजयं प्राप्तवान् । अनन्तरं कोयेम्बत्तुर-विधानसभाकेन्द्रमपि जीतवान् । १९७५-७७ आपात्कालं समर्थित्वा ए आइ ए डि एम् के-पक्षः कांग्रेसपक्षस्य समीपं आगतवान् ।
  • १९७७"डीएमकेबाट निष्कासन गरेपछि, उहाँका स्वयंसेवक अनकापुथुर रामलिंगमले अन्ना द्रविड मुनेत्र कझगम नामक नयाँ पार्टी सुरु गर्नुभयो। त्यो पार्टीको सदस्यको रूपमा सामेल हुनुभयो र यसको नेता र महासचिव बने। अग्रिमदशेषु वर्षेषु सः एव मुख्यमन्त्री आसीत् । तस्य मृत्युः पर्यन्तं (दिसेम्बर्, १९८७) सः मुख्यमन्त्री आसीत् । एम जी रामचन्द्रन् क्रमशः १९७७,१९८०,१९८४ विधानसभानिर्वाचनेषु अपि सः विजयी आसीत् ।
  • १९७९ तमे संवत्सरे ए आइ ए डि एम् के-पक्षस्य द्वौ सदस्यौ (सत्यवनि मुथु, अरविन्दबालापाजानोर्) प्रथमवारं केन्द्रीयमन्त्रीसभायां स्थानं अधिकृतवन्तौ आस्ताम् । जनतादलपरिचालितसर्वकारे (१९७७-७९) तथा स्वल्पस्थायी-चरणसिंह-मन्त्रीसभायां तौ आस्ताम् ।
  • एवञ्च क्रमागतः १९८९ तमवर्षाऽवधिः ए आइ ए डि एम् के-पक्षः एव सर्वकारे आसीत् । एम् जी रामचन्द्रन्-महोदयस्य मरणोत्तरकाले (डिसेम्बर्, १९८७ वर्षे) ए आइ ए डि एम् के-पक्षः द्विखण्डितः जातः ।

विवाहः

एम जी आर् एवं जानकी रामचन्द्रन्

एम.जि.आर्. महोदयः त्रिवारं विवाहम् अकरोत् । तस्य प्रथमा पत्नी तङ्गामणी (Thangamani), द्वितीया सतनन्दवती (Sathanandavathi) एवञ्च तृतीया पत्नी आसीत् जानकी रामचन्द्रन् (Janaki Ramachandran) ।

मुख्यमन्त्री

वर्षम् निर्वाचने विजयः
१९७७-१९८० तमिलनाडु राज्यविधानसभा निर्वाचनम्, १९७७
१९८०-१९८४ तमिलनाडु राज्यविधानसभा निर्वाचनम्, १९८०
१९८४-१९८७ तमिलनाडु राज्यविधानसभा निर्वाचनम्, १९८४

प्रशस्तयः

  • फ़िल्मफ़ेयर् सर्वश्रेष्ठः अभिनेता (तमिळ्) पुरस्कारः - 'इङ्गा वेत्तु पिल्लई' (Enga Veettu Pillai) एषः प्राप्तवान्।
  • फ़िल्मफ़ेयर् सर्वश्रेष्ठः चलच्चित्र-पुरस्कारः - 'अदिमै पेण्' (Adimai Penn) प्राप्तवान्।
  • १९७२ तमे वर्षे राष्ट्रिय-चलच्चित्र-पुरस्कारः 'सर्वश्रेष्ठः अभिनेता' - रिक्शाकरन (Rickshawkaran) इति चलच्चित्रे अभिनयार्थं प्राप्तवान्।
  • 'मद्रास-विश्वविद्यालयतः' 'डाक्टरेट्' उपाधिं प्राप्तवान् ।
  • मरणोत्तरं १९८८ तमे वर्षे कला तथा राजनीतिक्षेत्रे विशिष्टयोगदानार्थं भारतरत्न-उपाधिना भूषितः ।

मरणम्

एम्. जि. रामचन्द्रन् महोदयः तस्य मांसप्रत्यारोपणमिति दीर्घकालीन-रोगवशात् १९८७ तमवर्षस्य डिसेम्बर् मासस्य २४ दिनाङ्के दिवङ्गतः । मरणकाले तस्य वयः सप्ततिः (७०) आसन् ।

फलकम्:भारतरत्नपुरस्कारभाजः

टिप्पणी

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=एम्_जि_रामचन्द्रन्&oldid=866" इत्यस्माद् प्रतिप्राप्तम्