एतन्मे संशयं कृष्ण...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ ३९ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य नवत्रिंशत्तमः(३९) श्लोकः ।

पदच्छेदः

एतत् मे संशयं कृष्ण छेत्तुम् अर्हस्य अशेषतः त्वदन्यः संशयस्य अस्य छेत्ता न हि उपपद्यते ॥

अन्वयः

कृष्ण ! एतत् मे संशयम् अशेषतः छेत्तुम् अर्हसि । त्वदन्यः हि अस्य संशयस्य छेत्ता न उपपद्यते ।

शब्दार्थः

कृष्ण = हे कृष्ण !
मे = मम
एतत् = पूर्वोक्ताकारकम्
संशयम् = सन्देहम्
अशेषतः = समग्रम्
छेत्तुम् = परिहर्तुम्
अर्हसि = योग्यः असि
हि = यस्मात्
अस्य = एतस्य
संशयस्य = सन्देहस्य
त्वदन्यः = भवतोऽन्यः
छेत्ता = नाशयिता
न उपपद्यते = न विद्यते ।

अर्थः

मम एतं संशयं निरवशेषम् अपनेतुं भवान् एव अर्हति । ऋते भवतः अस्य संशयस्य अपनेता अन्यः कोऽपि नैव विद्यते ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=एतन्मे_संशयं_कृष्ण...&oldid=6297" इत्यस्माद् प्रतिप्राप्तम्