एतद्योनीनि भूतानि...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य षष्ठः(६) श्लोकः ।

पदच्छेदः

एतत् योनीनि भूतानि सर्वाणि इति उपधारय अहं कृत्स्नस्य जगतः प्रभवः प्रलयः तथा ॥ ६ ॥

अन्वयः

सर्वाणि भूतानि एतद्योनीनि इति उपधारय । अहं कृत्स्नस्य जगतः प्रभवः तथा प्रलयः ।

शब्दार्थः

सर्वाणि = सकलानि
भूतानि = भूतजातानि
एतद्योनीनि इति = एतत्प्रकृतिद्वयसम्भवानि इति
उपधारय = जानीहि
अहम् = अहम्
कृत्स्नस्य = समग्रस्य
जगतः = लोकस्य
प्रभवः = उत्पत्तिकारणम्
तथा = तथा
प्रलयः = विनाशकारणम् ।

अर्थः

सर्वाणि भूतानि प्रकृतिसम्भवानि इति जानीहि । इदं समग्रं जगत् मत्त एव निर्गच्छति, मय्येव च लीनं भवति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=एतद्योनीनि_भूतानि...&oldid=10689" इत्यस्माद् प्रतिप्राप्तम्