एड्वर्ड् क्याल्विन् केण्डल्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

(कालः – ०८. ०३. १८८६ तः १९७२)

फलकम्:Infobox scientist

अयम् एड्वर्ड् क्याल्विन् केण्डल् (Edward Calvin Kendall) अन्तस्स्रावकग्रन्थीनां संशोधकः । एषः एड्वर्ड् क्याल्विन् केण्डल् १८८६ तमे वर्षे मार्च्-मासस्य ८ दिनाङ्के कनेक्टिकट् प्रान्तस्य दक्षिणनावार्क्-प्रदेशे जन्म प्राप्नोत् । सः कोलम्बिय-विश्वविद्यालये एव "डाक्टरेट्” सहितं सर्वाः पदवीः प्राप्नोत् । ततः न्यूयार्क्-प्रदेशस्य सैण्ट्-लूक-वैद्यालये कार्यकरणावसरे "थैराय्ड्”ग्रन्थिविषये आसक्तिः वर्धिता । एषः "थैराय्ड्”ग्रन्थिः श्वासनालस्य उपरितनभागे भवति । एषः एड्वर्ड् क्याल्विन् केण्डल् १९१४ तः १९५१ पर्यन्तं राचेस्टर् इति प्रदेशे विद्यमानायाः मेयो इति वैद्यसंस्थायाः जीव–रसायन–विज्ञान–विभागस्य प्रमुखः आसीत् । १९५२ तमे वर्षे प्रिन्स्ट्न्-विश्वविद्यालये रसायनविज्ञान–विभागस्य गौरवप्राध्यापरूपेण नियुक्तः ।


'थैराय्ड्’ग्रन्थिः किमपि एकं रासायनिकं वेगवर्धकं (हार्मोन्) स्रावयति । तत् रासायनिकं वेगवर्धकं शरीरस्य कार्याणां वेगस्य निर्णयं करोति इति विषयः १९ शतकस्य उत्तरार्धे एव ज्ञातः आसीत् । १८९० वर्षाभ्यन्तरे तस्मिन् रासायनिके वेगवर्धके अत्यधिकेन प्रमाणेन 'अयोडिन्’ अंशः भवति इत्यपि ज्ञातम् । एषः एड्वर्ड् क्याल्विन् केण्डल् 'थैराय्ड्’ग्रन्थितः "थैरोग्लाब्युलिन्’ इत्येकम् अयोडिन्-युक्तं प्रोटीन् उत्पादितवान् । अननतरं "थैराक्सिन्’ नामकस्य रासायनिकवेगवर्धकस्य सङ्ग्रहणम् आरब्धवान् । १९१६ वर्षाभ्यन्तरे तत् कार्यं साधितवान् अपि । अग्रिमे दशके तस्य 'थैराक्सिन्’ नामकस्य वेगवर्धकस्य रचना अत्यन्तं क्लिष्टा, सः एकेन एव अमैनो– आम्लेन निर्मितः अस्ति इत्यपि संशोधितवान् । सः "थैराक्सिन्” नामकः वेगवर्धकः सामान्यस्य अमैनो–आम्लस्य "टैरोसिन्”स्य सामीप्यं भजते स्म । तस्य अणौ ४ अयोडोन् परमाणवः आसन् । एषः एड्वर्ड् क्याल्विन् केण्डल् तं "थैराक्सिन्” नामकं वेगवर्धकं स्फटिकरूपेण प्राप्नोत् । 'थैराय्ड्’ग्रन्थेः आन्तरिकी रचना ज्ञाता इति कारणतः रासायनिकानां वेगवर्धकानां (हार्मोन्स्) महत्त्वम् अपि ज्ञातम् ।

तदनन्तरम् एषः एड्वर्ड् क्याल्विन् केण्डल् मूत्रजनकाङ्गानाम् उपरि विद्यमानस्य "अड्रिनल्”ग्रन्थेः विषये संशोधनम् आरब्धवान् । तस्मिन् 'अड्रिनल्’ग्रन्थौ भागद्वयं भवति । आन्तरिकः भागः "मेडुल्ल्” इति उच्यते । सः भागः 'एपिनेफ्रिन्’ इति रासायनिकं वेगवर्धकम् (हार्मोन्) उत्पादयति । बाह्यः भागः "कारेक्ट्” इति उच्यते । सः भागः अनेकानि रासायनिकानि वस्तूनि उत्पादयति । १९३० वर्षाभ्यन्तरे अयम् एड्वर्ड् क्याल्विन् केण्डल् "कारेक्ट्”भागेन उत्पाद्यमानानि २८ वस्तूनि प्रयोगाणां द्वारा पृथक् अकरोत् । तेषु प्रमुखानि ४ वस्तूनि 'ए', 'बि’, 'इ' तथा 'एफ्’ इति उक्तवान् । आर्डिनल्-ग्रन्थेः रासायनिकेषु वेगवर्धकेषु (हार्मोन्स्) अन्यतमस्य "इ" इत्यस्य महत्त्वं वैद्यकीये क्षेत्रे बहु अस्ति । "कार्टिसोन्” इत्येतेषां द्वारा अलर्जिसम्बद्धान् रोगान् तात्कालिकरूपेण दूरीकर्तुं शक्यते । आर्डिनल्-ग्रन्थेः रचनायाः तथा जीवविज्ञाने तस्य महत्त्वस्य संशोधनार्थम् अयम् एड्वर्ड् क्याल्विन् केण्डल् तथा तस्य सहोद्योगी फिलिप् हेञ्च्, स्विट्झर्लेण्ड्-देशस्य विज्ञानी टाडस् रिस्टीन् च १९५० तमे वर्षे "नोबेल्” पुरस्कारेण सम्मानिताः । एषः एड्वर्ड् क्याल्विन् केण्डल् १९७२ तमे वर्षे दिवं गतः ।

बाह्यसम्पर्कतन्तुः