भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

ए कारः
उच्चारणम्

एषः दीर्घः स्वरः। स्वरवर्णेषु दशमः वर्णः अस्ति ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य ।अस्य उच्चारणस्थानं कण्ठतालु अस्ति ।

नानार्थाः

“एकारस्तेजसि जले रात्रौ हर्म्योदरे हरौ। व्योम्न्येकादशसंख्यायां दिनादौ मणिकुट्टिमे॥“ – नानार्थरत्नमाला

  1. तेजः
  2. जलम्
  3. रात्रिः
  4. हर्म्योदरम्
  5. विष्णुः
  6. आकाशः
  7. एकादश(एकादश संख्यायां)
  8. प्राथःकालः
  9. मणिकुट्टिमः( रत्नवेदिका )

“ए स्मृतावप्यसूयानुकम्पामन्त्रणहूतिषु” - मेदिनीकोशः

  1. स्मृतिः
  2. असूया
  3. दया
  4. संबोधनम्
  5. आह्वानम्
"https://sa.bharatpedia.org/index.php?title=ए&oldid=6004" इत्यस्माद् प्रतिप्राप्तम्