उष्ट्रासनम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


उष्ट्रासनम्योगासनस्य एकम् आसनमस्ति ।

आसनकरणविधिः

  • वज्रासने उपविशतु ।
  • जानुद्वये दण्डायमानः भवतु ।
  • पादद्वयं जानुतः शरीरस्य पृष्ठदेशं प्रति ऋजुतया स्थापयतु
  • हस्तद्वयं कटिमुभयतः स्थापयित्वा, हस्तद्वयेन कटिदेशमवलम्बयतु ।
  • पूरकेण मस्तकं ग्रीवां च पृष्ठदेशं प्रति अवनमय्य उदरं पुरतः प्रसारयतु ।
  • शनैः शनैः हस्तद्वयं कटिप्रदेशात् आनीय गुल्फद्वयं गृह्णातु ।
  • सहजश्वासक्रियया पञ्च निमेषान् यावत् तिष्ठतु ।
  • ततः शनैः शनैः पूर्वावस्थामागत्य वज्रासने उपविशतु ।

लाभः

  • वक्षस्स्थले श्वासकोषस्य पेशयः सम्प्रसारिताः सन्तः श्वासकार्यं सुगमीकरोति ।
  • मुखमण्डलस्य स्नायवः, नासिकारन्ध्रः श्वासनलं, श्वासकोषश्च समग्रश्वासप्रणालीं त्वरयति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=उष्ट्रासनम्&oldid=8792" इत्यस्माद् प्रतिप्राप्तम्