उपरूपकाणि

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ



नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् ।

प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा ॥
संलापकं श्रीगदितं शिल्पकं च विलासिका ।
दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥
अष्टादश प्राहुरुपरुपकाणि मनीषिणः ।
विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम् ॥
१. नाटिका- दशरुपके प्रकरणनाटकयोर्मिलितं रुपं नाटिकेत्युक्तम् । नायके प्रख्यातिवंशे सत्यपि वृत्तं तस्य कल्पितमुपादीयते । संस्कृते महाराजहर्षस्य रत्नावली प्रियदर्शिका चेति नाटिकाद्वयं प्रसिध्दम् (अनयोः परिचयः प्राक् दत्तः) । मदनपालसरस्वतीकृता पारिजातमञ्जरी- समाख्या नाटिका, यस्याः केवलमङ्कद्रव्यं धारानगर्यां शिलासूट्टङिकतं प्राप्यते । मथुरादासकृता वृषभानुजा नाटिका । अयं मथुरादासः गङ्गातीरस्थसुवर्णशेखराभिधनगरवासी कायशकुलजश्च ।
२. त्रोटकम्- दिव्यमानुषसंश्रयं, पञ्चाङ्कतोऽन्यूनं, प्रत्यङ्कं सविदूषकञ्च भवति । यथा – कालदासस्य विक्रमोर्वशीयम्, अशातकर्तृकं लम्भितरम्बञ्च ।
३. गोष्ठी – पञ्चषड्योषिदन्विता, नवर्दशभिर्वा प्राकृतपात्रैर्युक्ता, एकाङ्कंविनिर्मिता च भवति, यथा रेवतमदनिका ।
४. सट्ट्कम् – प्राकृताशेषपाट्या नाटिका सट्टकं नाम । यथा-राजशेखरस्य कर्पूरमञ्जरी प्रसिध्दा ।
५. नाट्यरासकम् – हास्यरसं बहुगेयञ्च भवति । यथा – नर्मवती ।
६. प्रस्थानकम् – हीनो नायकः, दासी नायिका, सुरापानं विषयः, सर्वमिदं प्रस्थानके भवति । यथा –शृङ्गारतिलकम् ।
७. उल्लाप्यम्- उदात्तनायकम्, एकाङ्कम्, संग्रामरोदनगीतादिबहुलञ्च भवति । यथा देवीमहादेवम् ।
८. काव्यम्- एकाङ्कं, स्त्रीनायकम्, आरभटीहीनञ्च काव्यं नामोरिपकम् । यथा – यादवोदयम् ।
९. प्रेङ्खणम् –हीननायकमसूत्रधारञ्च । यथा वालिवधम् ।
१०. रासकम् – पञ्चपात्रयुतम्, भाषाविभाषाबहुलम्, ख्यातनायिकं मूर्खनायकञ्च । यथा- मेनकाहितम् ।
११. संलापकम् – चतुरङ्कं, पाखण्डनायकं, पुरसंरोधसंग्रामवर्णानपरं भवति । यथा- मायाकापालिकम् ।
१२. श्रीगदितम्- वृत्तनायकौ प्रख्यातौ, नायिकाऽपिप्रसिध्दा, श्रीशब्दयुतं च पद्यं भवत्यत्र । यथा – क्रीडारसातलम् ।
१३. शिल्पकम्- चतुरङ्कं, ब्राह्मणनायकं, श्मशानवर्णनयुतम् । यथाकनकावतीमाधवम् ।
१४. विलासिका – एकाङ्का शृङ्गारबहुला च भवति । उदाहरणग्रन्थो न प्रसिध्दः ।
१५. दुर्मल्लिका- चतुरङ्का, कैशिकीवृत्तिशालिनी । यथा- बिन्दुमती ।
१६. प्रकरणिका – नाटिकेव प्रकरणीसार्थवाहादिनायका, समानवंशजा यत्र नेतुर्नायिका । उदाहरणग्रन्थो नोपलभ्यते ।
१७. हल्लीशः- एक एवाङ्कः, सप्त वा दश वा स्त्रियः । यथा –केलिरैवतकम् ।
१८. भाणिका – भाणसमा । यथा कामदत्ता ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=उपरूपकाणि&oldid=6714" इत्यस्माद् प्रतिप्राप्तम्