उत्सन्नकुलधर्माणां...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

फलकम्:Underlinked

गीतोपदेशः
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुश्चत्वारिंशत्तमः (४४) श्लोकः ।

पदच्छेदः

उत्सन्नकुलधर्माणाम्, मनुष्याणाम् जनार्दन । नरके, अनियतम्, वासः, भवति, इति, अनुशुश्रुम ॥

अन्वयः

जनार्दन ! उत्सन्नकुलधर्माणां मनुष्याणां नरके अनियतं वासः भवति’ इति अनुशुश्रुम ।

शब्दार्थः

जनार्दन = हे कृष्ण !
उत्सन्नकुलधर्माणाम् = नष्टवंशाचाराणाम्
मनुष्याणाम् = नराणाम्
अनियतम् = दीर्घकालं यावत्
नरके = निरये
वासः = स्थितिः
भवति इति = सम्पद्यते इति
अनुशुश्रुम = श्रुतवन्तः ।

अर्थः

येषां कुलधर्माः नष्टाः सन्ति तेषां नरके अतिदीर्घकालं यावत् वासः भविष्यति इति अस्माभिः श्रुतम्।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=उत्सन्नकुलधर्माणां...&oldid=9630" इत्यस्माद् प्रतिप्राप्तम्