उत्प्रेक्षालङ्कारः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ



संभावना स्यादुत्प्रेक्षा वस्तु हेतुफलात्मना ।
उक्तानुक्तास्पदाद् यत्र सिद्धऽसिद्धास्पदे परे ॥

उदाहरणानि

धूमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम् ।
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ॥
तक्तौ तवाघ्री मृदुलौ भुवि विक्षेपणाद् ध्रुवम् ।
त्वन्मुखाभेच्छया नूनं अद्मैर्वैरायाते शशी ॥
मध्यः किं कुचयोर्धृत्यै बद्धः कनकदामभिः ।
प्रायोऽब्जं त्वत्पदेनैक्यं प्राप्तुं तोयो तपस्यति ॥

विवरणम्

अन्यधर्मसम्बन्धनिमित्तेन अन्यस्य अन्यतादात्म्यसंभावनमुत्प्रेक्षा । सा च वस्तुहेतुफलात्मगोचरत्वेन त्रिविधा । अत्र वस्तुनः कस्यचित् वस्त्वन्तरतादात्म्यसंभावना प्रथमा स्वरूपोत्प्रेक्षा इत्युच्यते । अहेतोर्हेतुभावेन अफलस्य फलत्वेन उत्प्रेक्षा हेतूत्प्रेक्षा फलोत्प्रेक्षा इत्युच्यते । अत्र आद्या स्वरूपोत्प्रेक्षा उक्तविषया अनुक्तविषया चेति द्विविधा । परे हेतुफलोत्प्रेक्षे सिद्धविषया असिद्धवैषया चेति प्रत्येकं द्विविधे । एवं षण्णामुत्प्रेक्षाणां धूमस्तोममित्यादिक्रमेण उदाहरणानि ।

बाह्यसम्पर्कः

उत्प्रेक्षा

उत्प्रेक्षा

काव्यालङ्कारभेदकोश:

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=उत्प्रेक्षालङ्कारः&oldid=10320" इत्यस्माद् प्रतिप्राप्तम्