उत्तराभाद्रा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते उत्तराभाद्रानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् उत्तराभाद्रानक्षत्रं भवति षड्विंशतितमं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

उत्तराभाद्रानक्षत्रम्

आकृतिः

पूर्वाभाद्र-उत्तराभाद्र द्वे द्वे खट्वम् - तुहिनाकृतौ विद्यमाने द्वे नक्षत्रे ।

सम्बद्धानि अक्षराणि

दू शं झा धा - उत्तराभाद्रानक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्

अहिर्बुध्नियः रथमान एति श्रेष्ठो देवानामुत मानुषाणाम् ।
तं ब्राह्मणाः सोमपाः सोभ्यासः प्रोष्ठपदासो अभिरक्षन्ति सर्वे ।
चत्वार एकमभिकर्म देवाः ।
प्रोष्ठपदास इतियान् वदन्ति ते बुध्नियं परिषद्यं स्तुवन्तः ।
अहिं रक्षन्ति नमसोपसद्य ।।

उत्तराभाद्रपदानक्षत्रस्य स्वामी अहिर्बुध्न्यः अस्ति । वेदे इदं नाम सूर्य-रुद्रयोः कृते प्रयुक्तं वर्तते । तैत्तिरीयब्राह्मणे उक्तमस्ति यत् देवेषु मनुष्येषु ज्येष्ठः अहिर्बुध्न्यः आगच्छन् अस्ति । यः प्रतिष्ठितः देवः अस्ति । यणाचार्यस्य अनुसारम् एषः कदापि क्षुद्रः न भवति । एषः बुध्ने (मूले) तन्नाम सृष्टेः आरम्भतः अस्ति इत्यतः बुध्न्यः इति कथ्यते । अयं रुद्रः अपि । सोमपायी सोमब्राह्मणः तस्य चतुर्णां प्रोष्ठपदानाञ्च स्तुतिं करोति । प्रोष्ठपदाः चत्वारः देवः एकः अस्ति । नक्षत्ररूपिणः चत्वारः सभापतयः बुध्न्यस्य स्तुतिं नमस्कारपूर्वकं कुर्वन्तः सन्ति ।

आश्रिताः पदार्थाः

आहिर्बुध्न्ये विप्राः क्रतुदानतपोयुता महाविभवाः ।
आश्रमिणः पाखण्डा नरेश्वराह् सारधान्यं च ॥

विप्रा द्विजाः । ऋतुर्यज्ञः । दानं सत्पात्रेष्वर्थप्रतिपादनम् । तपो व्रतानुसेवनम् । एतैर्ये युताः समन्विताः । महाविभवा अत्यैश्वर्ययुक्ताः । आश्रमिणश्चतुर्थाश्रमिणः । पाखण्डा वेदबाह्याः । नरेश्वरा राजानः । सारधान्यं श्रेष्ठाः शालयः । एतत्सर्वमेवाहिर्बुध्न्ये उत्तरभद्रपदायाम् ।

स्वरूपम्

परिणयनं व्रतबन्धनसुरनरसदनप्रतिष्ठां च ।
आहिर्बुध्न्ये भूषणमम्बरवास्तुप्रवेशमभिषेकम् ॥

उत्तराभाद्रानक्षत्रे विवाहः, व्रतबन्धः, देवताप्रतिष्ठा, गृहप्रतिष्ठा, आभूषणम्, वस्त्रम्, राज्याभिषेकः, वास्तु इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

ध्रुवसंज्ञकनक्षत्राणि

त्रीण्युत्तराणि तेभ्यो रोहिण्यश्च ध्रुवाणि तैः कुर्यात् ।
अभिषेकशान्तितरुनगरधर्मबीजध्रुवारम्भात् ॥

अधुना ध्रुवाणि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह –
तेभ्यो नक्षत्रेभ्यस्त्रीण्युत्तराणि उत्तरफल्गुनी उत्तराषाढोत्तरभाद्रपदा तथा रोहिण्यः । एतानि नक्षत्राणि चत्वारि ध्रुवाणि स्थिराणीत्यर्थः । तैश्च ध्रुवैः किं तत् ? अभिषेको नृपादेः । शान्तिः शान्तिकमुत्पातप्रतीकारः । तरुवृक्षस्तस्य रोपणम् । नगरं पत्तनं तत्प्रतिष्ठादि । धर्मो धर्मक्रिया । बीजं बीजवपनम् । अन्येषां ध्रुवाणां स्थिराणां कर्मणामारम्भान् कुर्यादिति ।

पश्य

"https://sa.bharatpedia.org/index.php?title=उत्तराभाद्रा&oldid=3821" इत्यस्माद् प्रतिप्राप्तम्