उच्चैःश्रवसमश्वानां...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य सप्तविंशतितमः (२७)श्लोकः ।

पदच्छेदः

उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥

अन्वयः

अश्वानाम् अमृतोद्भवम् उच्चैःश्रवसं गजेन्द्राणाम् ऐरावतं नराणां नराधिपं च मां विद्धि ।

शब्दार्थः

अश्वानाम् = हयानाम्
अमृतोद्भवम् = अमृतमथनकालसम्भवम्
उच्चैःश्रवसम् = तन्नामकम् अश्वम्
गजेन्द्राणाम् = गजाधिपतीनाम्
ऐरावतम् = इन्द्रवाहनम्
नराणाम् = मनुष्याणाम्
नराधिपं च = राजानम् अपि
मां विद्धि = मां जानीहि ।

अर्थः

अमृतस्य हेतोः देवासुरैः यदा समुद्रमथनं कृतं तदा उच्चैःश्रवाः नाम सर्वोत्कृष्टः अश्वः उत्पन्नः । अश्वेषु मां तं जानीहि । गजश्रेेषु इन्द्रवाहनभूतम् ऐरावतं मनुष्येषु राजानं च मां जानीहि ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=उच्चैःश्रवसमश्वानां...&oldid=4938" इत्यस्माद् प्रतिप्राप्तम्