इमं विवस्वते योगं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
श्रीभगवान् उवाच
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ 1 ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य प्रथमः (१) श्लोकः ।

पदच्छेदः

इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् विवस्वान् मनवे प्राह मनुः इक्ष्वाकवे अब्रवीत् ॥ 1 ॥

अन्वयः

अहं विवस्वते इमम् अव्ययं योगं प्रोक्तवान् । विवस्वान् मनवे प्राह । मनुः इक्ष्वाकवे अब्रवीत् ।

शब्दार्थः

इमम् = एनम्
अव्ययम् = अविनाशिनम्
योगम् = योगमार्गम्
अहम् = अहम्
विवस्वते = सूर्याय
प्रोक्तवान् = अवोचम्
विवस्वान् = सूर्यः
मनवे = मनुसंज्ञकाय राज्ञे
प्राह = अवदत्
मनुः = मनुः
इक्ष्वाकवे = इक्ष्वाकुनाम्ने राज्ञे
अब्रवीत् = अकथयत् ।

अर्थः

इमम् अविनाशिनं योगमार्गम् अहं कल्पादौ सूर्याय अवोचम् । सूर्यः स्वपुत्राय मनवे अवोचत् । मनुः स्वपुत्राय इक्ष्वाकवे अवोचत् ।

शाङ्करभाष्यम्

योऽयं योगोऽध्यायद्वयेनोक्तो ज्ञाननिष्ठालक्षणः ससंन्यासः कर्मयोगोपायो यस्मिन् वेदार्थः परिसमाप्तः प्रवृत्तिलक्षणो निव-त्तिलक्षणश्च, गीतासु च सर्वास्वयमेवयोगो विवक्षितो भगवताऽतः परिसमाप्तं वेदार्थं मन्वानस्तं वंशकथनेन स्तौति श्रीभगवान्-- इयमिति । इममध्यायद्वयेनोक्तं योगं विवस्वत आदित्याय सर्गादौ प्रोक्तवानहं जगत्परिपालयितृणां क्षत्रियाणां बलाधानाय तेन योगबलेन युक्ताः समर्था भवन्ति ब्रह्म परिरक्षितुम् । ब्रह्मक्षत्रे परिपालिते जगत् परिपालयितुमलम् । अव्ययम् अव्ययफलत्वात् । न ह्यस्य योगस्य सम्यग्दर्शननिष्ठालक्षणस्य मोक्षाख्यं फलं व्येति । स च विवस्वान् मनवे प्राह । मनुः इक्ष्वाकवे स्वपुत्राय आदिराजाय अब्रवीत् ॥१॥

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=इमं_विवस्वते_योगं...&oldid=7654" इत्यस्माद् प्रतिप्राप्तम्