इन्द्रियाणि पराण्याहुः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

(फलकम्:IPA audio link)

गीतोपदेशः
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य द्विचत्वारिंशत्तमः (४२) श्लोकः ।

पदच्छेदः

इन्द्रियाणि पराणि आहुः इन्द्रियेभ्यः परं मनः मनसः तु परा बुद्धिः यः बुद्धेः परतः तु सः ॥ ४२ ॥

अन्वयः

इन्द्रियाणि पराणि आहुः । इन्द्रियेभ्यः परं मनः, मनसः परा बुद्धिः, यः बुद्धेः परतः सः (आत्मा) अस्ति ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
इन्द्रियाणि नेत्रादीनि
पराणि उत्कृष्टानि
आहुः कथयन्ति
इन्द्रियेभ्यः नेत्रादिभ्यः
परम् उत्कृष्टम्
मनः तु चित्तं पुनः
मनसः चित्तात्
परा उत्कृष्टा
बुद्धिः धीः
यः बुद्धेः तु यः धियः तु
परतः उत्कृष्टः वर्तते
सः सः आत्मा ।

व्याकरणम्

सन्धिः

  1. पराण्याहुः = पराणि + आहुः – यण्सन्धिः
  2. आहुरिन्द्रियेभ्यः = आहुः + इन्द्रियेभ्यः – विसर्गसन्धिः (रेफः)
  3. बुद्धिर्यो बुद्धेः = बुद्धिः + यः – विसर्गसन्धिः (रेफः)
    1. यः + बुद्धेः = विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  4. मनसस्तु = मनसः + तु – विसर्गसन्धिः (सकारः)
  5. पसतस्तु = परतः + तु – विसर्गसन्धिः (सकारः)

तद्धितान्तः

  1. परतः ¬= पर + तसिः (प्रथमाविभक्त्यन्तात् स्वार्थे तसिः)

अर्थः

इन्द्रियाणि उत्कृष्टानि वदन्ति । इन्द्रियेभ्यः मनः उत्कृष्टम्, मनसः बुद्धिः उत्कृष्टा, बुद्धेः अपेक्षया आत्मा उत्कृष्टः वर्तते ।

शाङ्करभाष्यम्

इन्द्रियाण्यादौ नियम्य कामं शत्रुं जहिहीत्युक्तं तत्र किमाश्रयः कामं जह्यादित्युच्यते-इन्द्रियाणीति। इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्यं परिच्छिन्नं च अपेक्ष्य सौक्ष्म्यान्तरत्वव्यापित्वाद्यपेक्षया पराणि प्रकृष्टानि आहुः पण्डिताः । तथा इन्द्रियेभ्यः परं मनः सङ्कल्पविकल्पात्मकम् । तथा मनसः तु परा बुद्धिः निश्चयात्मिका । तथा यः सर्वदृश्येभ्यः बुद्ध्यन्तेभ्यः आभ्यन्तरः, यं देहिनम् इन्द्रियादिभिः आश्रयैः युक्तः कामः ज्ञानावरणद्वारेण मोहयति इत्युक्तम् । बुद्धेः परतस्तु सः, सः बुद्धेः द्रष्टा पर आत्मा ॥

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु