इन्द्रियस्येन्द्रियस्यार्थे...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

(फलकम्:IPA audio link)

गीतोपदेशः
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य चतुश्त्रिंशत्तमः (३४) श्लोकः ।

पदच्छेदः

इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ तयोः न वशमागच्छेत् तौ हि अस्य परिपन्थिनौ ॥ ३४ ॥

अन्वयः

इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ । तयोः वशं न आगच्छेत् । तौ हि अस्य परिपन्थिनौ ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
इन्द्रियस्य इन्द्रियस्य चक्षुरादीनां ज्ञानेन्द्रियाणां वागादीनां च कर्मेन्द्रियाणाम्
अर्थे रूपरसादौ वचनस्वीकारादौ च
रागद्वेषौ रागः द्वेषश्च
व्यवस्थितौ तितः
तयोः रागद्वेषयोः
वशम् अधीनताम्
न आगच्छेत् न प्राप्नुयात्
हि यतः
तौ रागद्वेषौ
अस्य एतस्य मुमुक्षोः
परिपन्थिनौ प्रतिबन्धकौ ।

व्याकरणम्

सन्धिः

  1. इन्द्रियास्येन्द्रियस्यार्थे = इन्द्रियस्य + इन्द्रियस्य – गुणसन्धिः
    1. इन्द्रियस्य + अर्थे – सवर्णदीर्घसन्धिः
  2. तयोर्न = तयोः + न – वसर्गन्धिः (रेफः)
  3. ह्यस्य = हि + अस्य – यण्सन्धिः

समासः

  1. रागद्वेषौ = रागश्च द्वेषश्च – द्वन्द्वः

कृदन्तः

  1. व्यवस्थितौ = वि+ अव + स्था + क्त (कर्तरि)

विशेषः

  1. इन्द्रियस्य इन्द्रियस्य = कार्त्स्न्यस्य गम्यमानत्वात् इन्द्रियशब्दस्य द्वित्वम् । सर्वेषामपि इन्द्रियाणाम् इत्यर्थः ।

अर्थः

चक्षुरादीनि ज्ञानेन्द्रियाणि । रूपरसगन्धादयः तेषां विषयाः । वाक्पाण्यादीनि कर्मेन्द्रियाणि । वचनदानादयः तु तेषां विषयाः । तेषु अनुकूलेषु विषयेषु रागः भवति, प्रतिकूलेषु तु द्वेषः । तस्मात् बुद्धिमान् गुरूपदेशादिना तयोः रागद्वेषयोः यथा अधीनः न भवति तथा प्रयतेत । कुतः ? तौ हि मोक्षं प्राप्तुम् इच्छतः पुरुषस्य कार्यविघातकौ स्तः ।

शाङ्करभाष्यम्

यदि सर्वो जन्तुरात्मनः प्रकृतिसदृशमेव चेष्टते नच प्रकृतिशून्यः कश्चिदस्ति ततः पुरुषकारस्य विषयानुपपत्तेः शास्रानर्थक्यप्राप्ताविदमुच्यते-इन्द्रियस्येति।इन्द्रियस्येन्द्रयस्यार्थे सर्वेन्द्रियाणामर्थे शब्दादिविषये इष्टे रागोऽनिष्टे द्वेष इत्येवं प्रतीन्द्रियार्थे रागद्वेषाववश्यंभाविनौ। तत्रायं पुरुषकारस्यशास्रार्थस्य च विषय उच्यते। शास्रार्थे प्रवृत्तः पूर्वमेव रागद्वेषयोर्वशं नागच्छेत्| या हि पुरुषस्य प्रकृतिः सा रागद्वेषपुरःसरैव स्वकार्ये पुरुषं प्रवर्तयतितदा स्वधर्मपरित्यागः परधर्मानुष्ठानं च भवति, यदा पुना रागद्वेषौ तत्प्रतिपक्षेण नियमयति तदा शास्रदृष्टिरेव पुरुषो भवति न प्रकृतिवशः, तस्मात्तयो रागद्वेषयोर्वशं नागच्छेत्। यतस्तौ ह्यस्य पुरुषस्य परिपन्थिनौ श्रेयोमार्गस्य विघ्नकर्तारौ तस्कराविव पतीत्यर्थः ॥ 34।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु