आशा भोंसले

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox musical artist आशा भोंसले इति अनुपमां भारतीयगायिकां प्रन्तीयभेदेन आषा, आशा भोसले, आशा भोस्ले, इत्यादिभिः नामभिः अभिजानाति ।[१] (फलकम्:Lang-hi) अस्याः जन्म क्रि.श.१९३३ तमवर्षस्य सेप्टम्बर् मासस्य अष्टमे दिने अजयत । एषा भारतीयबहुभाषाणां ख्याता गायिका अस्ति । मूलभूतरूपेण एषा हिन्दीभाषायाः चलच्चित्रस्य निपथ्यगायिका इति सुप्रसिद्धा अस्ति ।[२][३][४] अस्य वृत्तिजीवनं क्रि.श.१९४२तमे वर्षे आरब्धम्। तस्याः वृत्तेः एव षष्ट्यब्दम् अभवत् । सामान्यतः १००० हिन्दीचलच्चित्रस्य नेपथ्यगानानि गीतवती । अपि च अनेकानि गीतगुच्छार्थं गीतवती । भरते अन्यदेशेषु च अस्याः अगणिताः गानगोष्ट्यः अभवन् ।[५][६] आशा भोंस्ले अन्यायाः भारतीयनेपथ्यगयिकायाः लता मङ्गेश्कर इत्यस्याः सहोदरी अस्तु । इयम् अस्याः सुमधुरकण्ठस्य कारणेन प्रसिद्धा अभवत् ।[२][७][८] लतायाः गानेषु चलच्चित्रसङीतम्, गाज़ल्, भजनानि, साम्प्रदायिकभारतीयशास्त्रीयसङ्गीतम्, जानपादगीतानि, कव्वाली, रवीन्द्रगीतानि, नझ्रल्गीतानि, पाप्गीतानि, च गानं भवति । एषा अस्सामीभाषा, हिन्दीभाषा उर्दूभाषा, तेलुगुभाषा, मराठीभाषा, बङ्गालीभाषा, गुजरातीभाषा, पञ्जाबीभाषा, तमिळुभाषा, आङ्ग्लभाषा, रष्यन्भाषा, छेक्भाषा, नेपाळीभाषा, मलैभाषा, मलयाळंभाषा, इत्यादिषु १८भाषासु गीतानि गीतवती ।[९] क्रि.श.२००६तमे वर्षे आशा भोंसले अहं सामान्यतः १२०००गीतानि गीतवती इति स्वयम् अवदत् ।[१०] नैकानि अन्यमूलानि अपि एतत् वचनम् एव प्रमाणीकुर्वन्ति ।[९][११] प्रपञ्चस्य उन्नताभिलेखप्रमाणितम् अन्ताराष्ट्रियसंस्था वर्ड्स् रेकार्ड् अक्यादमी । क्रि.श.२००९तमवर्षः सेप्टेम्बर् मासे आशा भोंसले एव प्रपञ्चे एव अत्यधिकगीतानां गायिका (गानमुद्रणम्) इति उदघोषयत् ।[१२]

जीवनेतिहासः

आशा भोंसले मुम्बैप्रान्तस्य नाम अद्यतनस्य महाराष्ट्रराज्यस्य साङ्ग्लीनगरात् बहिः गोर् इति लघुग्रामः अजायत । एषा दीननाथ मङ्गेश्कर् इति सङ्गीतविदुषः पुत्री । एषः रङ्गभूमेः कलावित् । तत्र शास्त्रीयगायकत्वेन सेवां कृतवान् । अस्य कुटुम्बः पूर्वं पुण्यपत्तने (पुणेनगरे) आसीत् । कालक्रमेण कोल्हापुरं गत्वा क्रमेण मुम्बै आगतः । एषा अस्याः सहोदरी लता मङ्गेष्कर् च कुटुम्बनिर्वहणे पितुः सहाय्यं कर्तुं चलच्चित्रार्थं नटनं गीतगनं कर्तुं आरब्धवत्यौ । आशायाः प्रथमचलच्चित्रं यत्र अस्याः गानम् (चला चला नव् बला) अस्ति तत् माझा बल् (क्रि.श.१९४२) इति मराठी चलच्चित्रम् । अस्य गीतस्य रचयिता दत्त दव्जेकर् कृतवान् । सावन् आयाः इति चलच्चित्रे सावन् आया इति गीतगानेन अस्याः हिन्दिभाषाचलच्चित्रं प्रवेशः अभवत् ।[१३] एषा आशा स्वस्य १६तमे वयसि ३१वर्षस्य गणपत् राव् भोसले इत्यनेन सह प्रधाव्य तेन परिणीता अभवत् । गणपदरावः तु अस्याः सहोदर्याः लतायाः वैयक्तिककार्यदर्शी आसीत् । अतः विवाहः विफलः आभवत् । श्वशुरगृहे अस्याः नितराम् अवमानिता अभवत् । विवाहस्य कतिपयवर्षानन्तरं भोंसले आशा क्रि.श.१९६०तमे वर्षे शङ्काभावेन गणपतिरावेन गृहात् बहिष्कृता ।[१४] तस्मिन् काले तस्याः उदरे तयोः तृतीयपुत्रः उदरे पुत्रु हस्तयोः आसन् । सा स्वस्याः कुटुम्बनिर्वहणार्थं चलच्चित्रार्थं नेपथ्यगानम् अनुवर्तितवती । तस्मिन् समये गीता दत्, शंषाद् बेगम् लता मङ्गेष्कर् इत्यादयः बृहत्परियोजनायाः चलच्चित्रार्थं गायन्ति स्म । तदा एतैः त्यक्तगीतानि आशा भोंसले स्वीकरोति स्म । अपि च ब्याण्ड् गर्ल्स्, व्याम्प्स् गोष्टिषु गायति स्म अथवा द्वितीयस्तरस्य चलच्चित्रस्य कृते अपि गायाति स्म । क्रि.श.१९५०तमे काले अन्यनेपथ्यगायकानाम् अपेक्षया अधिकगीतानि गीतावती । अस्याः आरम्भिकगीतानां स्वरसंयोजनम् ए.आर्.खुरेशी, सज्जद् हुसेन्, गुलाम् महम्मद इत्यादयः कृतवन्तः । एतेषु अधिकानि गीतानि यशसि विफलानि प्राप्नुवन् ।[१३] सजद् हुस्सेन् इत्यनेन स्वरसंयोजितस्य दिलिपकुमारेण नटितस्य सङ्ग्दिल् (क्रि.श.१९५२तमे वर्षे) चलच्चित्रार्थम् आशा गानं गीतवती यत् जनप्रशंसाम् आप्नोत् । अस्य परिणामरूपेण क्रि.श.१९५२तमे वर्षे बिमल् राय् भोंसले इत्यस्य निदेशनस्य परिणीता इति चलच्चित्रत्रे गातुम् अवकाशं प्राप्तवती । तदनन्तरं बूट् पालिष् (क्रि.श.१९५४) चलच्चित्रार्थं मोहम्मद रफी महोदयेन सह नन्ने मुन्ने बच्चे गीतवती । एतत् गीतम् अस्याः अनुपमां कीर्तिं आनयत् । क्रि.श.१९५६तमे वर्षे ओ. पि. नैयरः सङ्गीतनिदेशितस्य सि.ऐ.डि. चलच्चित्रस्य नेपथ्यगानस्य अवकाशं प्राप्तवती । अस्याः वृत्तिजीवने एषः सदवसरः महत्तरं परिवर्तनम् आनयत् । क्रि.श. १९५७तमे वर्षे बि.आर्.चोपड महोदयस्य नया दौर् इति चलच्चित्रार्थं साहिर् लुधियान्वी इत्यनेन रचितं माङ्ग् के साथ तुम्हारा इति गीतं स्वीयस्वरसंयोजनेन रफी महोदयेन सह गीतवती । एषा आशा स्वस्य वृत्तिजीवने कृता प्रथमा महोपलब्धिः । अनेन सह साथी हात् बदाना, उदेन् जब् झल्वें तेरी, इत्यादीनि गीतानि तस्यः प्रसिद्धिं आनयन् । जनप्रियाभिनेत्रीणां कृते इदं प्रथमतया गीतानि गीतवती । चलच्चित्रस्य निर्मापकः बि.आर्.चोपडा महोदयः दौर् चित्रस्य यशः स्मरन् अग्रिमचलच्चित्रस्य गीतगानार्थम् अवकाशं प्रकल्पितवान् । अग्रे आशा भोंसले तस्य वक्त् , गुम्राह् , हम्राज़् , आद्मि और् इन्सान् , डूण्ड् इत्यादीनां चलच्चित्राणां गीतानि गीत्वा प्रसिद्धिम् आपन्ना । आषायाः नायरस्य च संश्रयः अनेकेषां मधुरगानानां लोकार्पणस्य हेतुः अभवत् । कालक्रमेण अस्मिन् वर्णरञ्जितक्षेत्रे स्वपादौ प्रत्यस्थापयत् । किन्तु कालान्तरेण क्रि.श. १९७०तमे वर्षे वृत्तिक्षेत्रे उभावपि परस्परं विमुखौ अभवताम् । क्रि.श.१९६६तमे वर्षे आर्.डि.बर्मन् इत्यस्य सङ्गीतनिदेशनस्य प्रथमयशस्वि "तीसरी मञ्झिल् " चलच्चित्रे आशायाः कार्यं जनप्रियम् अभवत् । अस्य सहभागित्वेन क्रि.श.१९७०तमदशके अनेकानि जनप्रियगीतानि चलच्चित्रक्षेत्राय अर्पितानि । [१५] कालक्रमेण हेलन् इत्यस्याः नृत्याङ्गनायाः नर्तनार्थं आशा चलच्चित्रगीतानि विविधानां स्वरसंयोजकानां मार्गदर्शने गीतवती । एतेयोः संसर्गितायाः कानिचन गीतानि "पिया तू..(कारावान् चित्रस्य)", ओ हसीना झुल्फोवाली..(तीसरी मंझिल्), "ये मेरा दिल् (डान्) " इत्यादीनि । क्रि.श. १९८०तमे वर्षे उन्मादगायिका(पाप् क्रूनर्) इति स्थिरं गुरुत्वं प्राप्तवती ख्यातया अभिनेत्र्या नटितस्य 'उम्रावो जान् 'इति चलच्चित्रस्य "दिल् चीज़् क्या है", "इन् आकों कि मस्ती के", "ये क्या जग है दोस्तो " "जुस्त् जु जिस्कि थी" इत्यादीनि गीतानि अस्य प्रसिद्धिम् अवरधयत् । गझल् गानं तस्य राष्ट्रियपुरस्कारम् आनयत् । क्रि.श. १९९५तमे वर्षे ६२वर्षवयसः आशा भोंसले रङ्गीला इति चलच्चित्रे उर्मिळा माटोण्डकर् इत्यस्याः कृते नेपथ्यगानं कृतवाती । तत्र "तनहा तन्हा ", "रङ्ग् रङ्ग् रङ्गीलरे " इत्यादीनां विशेषलक्षणयुक्तानां गीतानां गायनेन अस्य कीर्तिशिखरम् इतोऽपि अवर्धत । क्रि.श.२००५तमे वर्षे स्वस्य ७५वर्षे वयसि अस्यः कण्ठमधुर्येण आगतानि "चन्द्रमुखी " इति तमिळुभाषायाः चलच्चित्रस्य गीतानि, खातस्य अभिनेतुः सल्मान् खानस्य "लक्कि " चलच्चित्रस्य गीतानि अत्यधिकतया विक्रीतानि ।

गानस्य सङ्गीतनिदेशकाः

  • ओ.पि.नय्यर् - अशायाः ओङ्कार प्रसाद नायर् (नय्यर्) इत्यनेन सङ्गीतनिदेशकेन सह साहचर्यं तु बालिवुड् (भारतस्य हिन्दिभाषाचलच्चित्रजगतः इदं नाम) जगति प्रसिद्धः । अयं कश्चित् महान् स्वसंयोजकः आशायाः प्रतिभां संलक्ष्य अवकाशं प्रकल्पितवान् । क्रि.श.१९५२तमे वर्षे चम् चमा चम् गानस्य ध्वनिमुद्रणावसरे ओ.पि.नय्यरः प्रथवमारम् आशायाः सन्दृष्टवान् ।[१६] क्रि.श.१९५४तमे वर्षे प्रथमावकाशम् आशा नय्यरस्य "माङ्गु" इति चलच्चित्रे प्राप्तवती । तदनन्तरं क्रि.श.१९५६तमे वर्षे पुनः अस्य "सि.ऐ.डि. " चित्रस्य गीतानि गीत्वा वृत्तिजीवने नवं परावर्त्नं प्राप्तवती । अस्य "नया दौर् " इत्यस्मिन् चलच्चित्रानन्तरम् एतयोः युग्मं बहुविश्रुतम् अभवत् । क्रि.श.१९५९तमवर्षे ओ.पि.नय्यरेण सह सभावं वृत्तिपरतया च आत्मानं क्षेत्रे अनुस्थापितवती ।
  • खय्याम् - आशायाः प्रतिभाम् अभिज्ञातवन् अन्येकः अयं सङ्गीतनिदेशकः खय्याम् । सः क्रि.श.१९४८तमे वर्षे स्वस्य "बिवि " इति चलच्चित्रे अवकाशं कल्पितवान् । क्रि.श.१९५०तमदशके तस्य "दर्द ", "फिर् सुबह होगी ", "उम्रावो जान् " चलच्चित्रेषु अवकाशं दत्त्वा अस्याः प्रतिभां सम्मानितवान् ।
  • रविः- चलच्चित्रगानानां स्वरसंयोजकः रविः, आशा मम अतिप्रियगिकासु अन्यतमा इति वदति स्म । क्रि.श.१९५०तमे वर्षे अस्य "वचन्" इति सर्वप्रथमे चलच्चित्रे आशा गीतवती । "चन्दमाम दूर् के" चलच्चित्रस्य मधुरगीतम् एकेन एव दिनेन भारतस्य युवमातॄणां प्रियम् अभवत् । "घराना", "गृहस्ती", "काजल्", "फूल् औप् पत्थर्" इत्यादिषु चलच्चित्रेषु भजनानि गातुं रविः अवकाशं दत्तवान् । तदानीन्तने काले अन्ये ख्याताः स्वरसंयोजकाः एतां निम्नस्तरस्य गीतानि गातु आह्वयन्ति स्म । आशा भोंस्ले रविः च अनेकानि गीतध्वनिमुद्रणानि कृतवन्तौ । तेषु प्रसिद्धेन गायकेन किशोरकुरारेण सह गीतं "कथ् माने बिल्ली " "तोरा मन् दर्पण्" अतिप्रसिद्धनि अभवन् । अनेन सह कृतनानि चलच्चित्राणि एवं भवति । वख्त, चौदवी का चान्द्, गुम्राह्, बहु बेटी, चैना टौन्, आद्मी और् इन्सान्, डूण्ड्. अम्राज्, काजल् इत्यदीनि ।[१३]
  • सचिन् देव बर्मन् - अयं बालिवुड् जगतः प्रख्यातेषु स्वरसंयोजकेषु अन्यतमः । एतस्य प्रिया गायिका लता मङ्गेश्कर् किन्तु तया सह केनचित् कारणेन विरसः उप्तन्नः ।[१७] तस्मिन् काले एस्.डि.बर्मन् महोदयः गीतानि गातुं आशाम् आहूतवान् । अनयोः युग्मम् अनेकानि मधुरगीतानि लोकाय आर्पयत् । यथा.. काला पानि, काला बाज़ान्, इन्सान् जाग् उठा, लाजवन्ति, सुजाता, तीन् देवियाँ, इत्यादीनि चलच्चित्राणि । क्रि.श.१९६२ वर्षे किशोर् कुमारेण, महम्मद रफिना, सहा गीतानि चलच्चित्रगानानि प्रसिद्धानि अभवन् । क्रि.श.१९६२तमे वर्षे बिमल् राय् इत्यस्य बान्दनि चित्रस्य "अब् के बरस्.. " गीतम् एताम् आशां नेपथ्यागायिकाम् अकरोत् । क्रि.श.१९६७तमे वर्षे तनुजा इत्यभिनेत्र्याः अभिनयस्य ज्युवेल् थीफ् चित्रस्य "रात् अकेली है" गानं जनान् उन्मत्तान् अकरोत् ।
  • राहुल् देव् बर्मन् - अर्.डि.बर्मन् इत्येव खातः (ए.के.ए.पञ्चम) क्रि.श.१९६६तमे काले प्रसिद्धः चलच्चित्रसङ्गीतज्ञः । पुत्रद्वयस्य मातुः आशायाः सन्दर्शनम् अनेन सह अभवत् । एतयोः युग्मेन "तीसरी मंज़िल् " इति यशस्वि चलच्चित्रम् अभवत् । क्याबरे, राक्, डिस्को, गझल्, भारतीयशास्त्रीयसङ्गीतम् इत्यादीनि गीतानि कृतवन्तौ । क्रि.श.१९७०तमे वर्षे एतेयोः पाश्चिमात्यशैल्याः गीतानि क्रान्तिमेव अकुर्वन् । क्रि.श.१९७१तमे वर्षे हेलन् अभिनीतस्य कारवान् "पिया तू अब् तो आजा ", हरे राम हरे कृष्णा चित्रस्य "दम् मारो दम् ", क्रि.श.१९७२तमे वर्षे लोकार्पितस्य अप्ना देश् इति चित्रस्य " दुनिया में.. क्रि.श.१९७३तमे वर्षे लोकार्पितस्य यादों की बारात् इति चित्रस्य " चुरा लिया है..इत्यादीनि गीतासि प्रचण्डं याशः प्राप्नुवन् । क्रि.श.१९८०तमे दशके पञ्चमस्य आशायाः च सहयोगेन कानिचन चलच्चित्रसङ्गीतानि प्रसिद्धानि अभवन् । तानि यथा इज़ाज़त् चित्रस्य "मेराकुच् सामान्," "खालि हात् शाम् आयी है", "खत्रा खत्रा", सागर् चित्रस्य ओ "मारिया" ख्यातानि अभवन् । तत्रापि अस्याः " मेरा कुच् सामान् " गानस्य राष्ट्रियपुरस्कारः अपि प्राप्तवती । वृत्तिसम्बन्धः प्रीत्या परिवर्तितः बूत्वा तम् अनुरागेण बब्स् इति आव्ययन्ती क्रि.श. १९८०तमे वर्षे तमेव पतिरूपेण प्राप्तवती । आर्.डि.बर्मन् महोदयः कानिचन बङ्गाळिगीतानि अपि गायितवान् ।
  • इळयराजः - दक्षिणभारतीयचलच्चित्रस्वरसंयोजकेषु अग्रगण्यः इळयराजः क्रि.श. १९८०तमे वर्षे स्वस्य गीतानि गातुम् आशां प्रार्थयत् । इदं प्रथमतया तमिळुभाषायाः "मून्द्रं पिरायि " इति चलच्चित्रे गीतवती । अस्य चित्रस्य हिन्दीभाषान्तरे अपि एषा गीतानि गीतवती । क्रि.श. १९९०तमवर्षपर्यन्तम् एतयोः युग्मं यशस्विकार्यणि अकरोत् । क्रि.श.१९८७तमे वर्षे लोकार्पितस्य "एङ्ग ऊरु पाटुक्कारन् "इति चित्रस्य शेन्बगामे इति गीतम्, क्रि.श. २०००तमे वर्षे लोकार्पिते कमलहासन् अभिनयस्य इळयराजस्य सङ्गीते "हे राम्" इति चित्रस्य शीर्षिकागीतम्, " जन्मों कि ज्वाला " इति हिन्दीचलच्चित्रे गझल् गायकेनहरिहरन् महोदयेन सह गीतं गानं च प्रसिधानि अभवन् ।
  • ए.आर्.रेहमान् - एषः क्रि.श. १९९४तमे वर्षे स्वस्य स्वरसंयोजनस्य रङ्गीला चलच्चित्रे गातुम् आशायै अवकाशं दत्तवान् । अस्य प्रसिद्धानि गीतानि यथा.. " रङ्गीला रे ", "तन्हा तन्हा "इत्यादीनि । अस्य एव स्वरसंयोजनस्य "तक्षक् " चलच्चित्र्स्य "मुझे रङ्ग् दे ", "लगान्" इति चलच्चित्रस्य उदितनारायणेन सह गीतं "राधा कैसे न जले ", "ताल " चित्रस्य " कही आग् लगे ", "दौड् " चलच्चित्रस्य के.जे.येसुदासेन सह गीतं "ओ भंवरे " क्रि.श.१९९९तमे वर्षे लोकार्पितस्य " इरुवर् " इति तमिळुभाषा चित्रस्य "वेनिल्ला वेनिल्ला " गीतं, क्रि.श.२००४तमे वर्षे आगतस्य " मीनक्षी " तमिळुभाषाचित्रस्य " दु्वान् दुवान् " गीतं च सुप्रसिद्धानि अभवन् ।[१३]
  • जयदेवः - एस्.डि.बर्मन् इति सङ्गीतज्ञस्य सहायकः अयं जयदेवः स्वतन्त्रः भूत्वा स्वरसंयोजनम् आरब्धवान् । तदा एषः आशायै अपि गातुम् आहूतवान् । क्रि.श.१९६१तमे वर्षे "हम् दोनो ", क्रि.श.१९६२तमे वर्षे "मुजे जीने दो ", क्रि.श.१९७१तमे वर्षे "दो बून्द पानी " इत्यादिषु जयदेवस्य चलच्चित्रेषु गीतानि गीतवती । क्रि.श.१९७१तमे वर्षे एतत् युग्मं नकेवलं चलच्चित्रगीतानि अपि च भक्तिगीतानि गझल् गीतानि अपि अकरोत् । जीवनस्य सङ्कटकाले सहयमाचरितवान् जयदेवः इति तस्य विषये आशायः महादरः आसीत् । तस्य मरणानन्तरं तेन कृतार्धकार्यं सम्पूरयन्ती "सुराञ्जली " इति गीतगुच्छं लोकार्पितवती ।
  • शङ्कर् जै किशन् - अयं बालिवुड् स्वरसंयोजकः अल्पकालम् अनया आशया सह कर्यम् अकरोत् । क्रि.श.१९६८तमे वर्षे अस्य सङ्गीतसंयोजने "शिकार् " इति चलच्चित्रार्थम् आशा गीतानि गीतवती । अस्मिन् " परदे में रहने दो" इति गीरार्थं द्वितीयवारं फिल्मफेर् पुरस्कारं प्राप्तवती । अन्दाज़् इति चलच्चित्रे ज़िन्दगि एक सफर है सुहाना इति गीतं विशिष्टशैल्या गीतवती प्रसिद्धं चाभवत् । क्रि.श.१९७०तमे वर्षे राजकपूरस्य निर्माणस्य अभिनयस्य च मेरा नाम जोकर् इति चलच्चित्रे गनस्य अवकाशः प्राप्तः ।
  • अनु मलिक् - क्रि.श.१९८४तमे वर्षे सोनि महिवाल् इति अस्य प्रथमचलच्चित्रे एव आशा अवकाशं प्राप्तवती । अस्य स्वरसंयोजकस्य संयोजनेन फिल् हाल् इति चलच्चित्रस्य शीर्षिकागीतं, बाज़िगर् चित्र्स्य किताबे बहुत सी... गीतं, या दिन् इति चित्रे जब् दिल् मिले गीतम् च अनया गीतानि सार्वकालिकमधुराणि अभवन् । क्रि.श. १९५०- ६०तमवर्षाणां मध्ये अनुमलिकस्य पितुः संयोजने अपि गीतवती ।[१८]

व्यक्तिगतजीवनम्

भोंसले आशायाः गृहं मुम्बै महानगरस्य दक्षिणभगए पेद्दर् इति मार्गे प्रभातकुञ्ज् इति गृहस्तोमे अस्ति । तस्याः त्रीणि अपत्यानि पञ्च पौत्राः सन्ति । ज्येष्ठः पुत्रः हेमन्त भोंसले विमानस्य चालकत्वेन कार्यं कृतवान् । सङ्गीतनिदेशकः अपि भूत्वा कानिचनदिनानि कार्यं कृतवन् । अस्य अनुजा आशायाः पुत्री वर्षा इति नमान्विता दि सण्डे अब्सर्वर्, रेडीप् इति पत्रिकयोः लेखिका रूपेण कार्यं कृतवती । आशायाः कनीयः पुत्रः आनन्द भोंसले चलच्चित्रस्य निर्देशनं शिक्षितवान् । मातुः कार्यदर्शित्वेन सहाय्यम् आचरति । पौत्रः चैतन्यः सङ्गीतक्षेत्रे एव परिश्रमं कुर्वन् अस्ति । इयं पाकनिपुणा अपि अस्ति । भर्तुः भोजनार्थं स्वयं पचति । बालिवुड् प्रमुखाः तस्याः कडायि घोस्ट् अपि च बिर्यानि सर्वदा इच्छन्ति । गोवा शैल्याः पाया करि, सूपः च बालिवुड् ख्यातस्य कपूर् कुटुम्बे जनप्रियपाकः आसीत् । कदाचित् एषा... यदि अहं सङ्गीतस्वरसाम्राज्ञी न अभविष्यत् तदा पाकज्ञा भवामि स्म इति कस्मिंश्चित् दूरदर्शनसन्दर्शने अवदत् । आशा यशस्विनी होटेल् उद्यमिनी अपि अस्ति । अस्याः नाम्नि एव दुबै कुवैत् च देशयोः भोजनालयाः सन्ति ।

[१९] पेशस्विनी श्वेतशाटिकाः आशायै अधिकं रोचते । वज्राभरणानि अपि अस्याः अतीव प्रियाणी । एषा अनुकरणकलावती अपि अस्ति । नूर् जहाँ, लतामङ्गेश्कर् गुलाम् अलि इत्यादीनां कण्ठस्य नुकरणमपि करोति । सद्यः काले गानं होटेल् उद्यमः अपि च आत्मकथनलेखने मग्ना अस्ति । [२०]

प्रशस्तिपुरस्काराः

  • फिलं फेर् प्रशस्तयः - आश भोंसले १८वारम् अत्युत्तमगायिका इति फिल्म् फेर् पुरस्कारार्थं नामनिदेशनं सप्तवारं पुरस्कारं च प्राप्तवती ।[२१] एषा स्वस्य प्रथमां प्रशस्तिं क्रि.श.१९६७तमे वर्षे प्राप्तवती । क्रि.श.१९७९तमे वर्षे स्वस्य सहोदर्या लतया स्पर्धितवती । अपि च लतायाः नाम न निदिष्टं भवेत् इति सूचितवती । क्रि.श.१९९७तमे वर्षे "रङ्गीला " चलच्चित्रस्य गानार्थं विशेषा प्रशास्तिः प्राप्ता । क्रि.श.२००१तमे वर्षे आजीवोपलब्धेः कृते फिल्मफेर् प्रशस्तिं प्राप्तवती ।
  • फिल्म् फेर् प्रशस्तिभूषितानि गीतानि चित्राणि च ।

प्राप्तिवर्षः गानम् चलच्चित्रम्

  • क्रि.श.१९६७: "गरीबों कि सुनो " (दस् लाख्)
  • क्रि.श.१९६९: "परदे में रहने दो " (शिकार्)
  • क्रि.श.१९७२: "पिया तू अब् तो आजा" (कारवान्)
  • क्रि.श.१९७३: "दम् मारो दम्" (हरे राम हरे कृष्णा)
  • क्रि.श.१९७४: "होने लगी है रात्" (नैना)
  • क्रि.श.१९७५: "चैन् से हम को कभी " (प्राण जाये पर् वचन् न जाये )
  • क्रि.श.१९७९: "ये मेरा दिल् " (डान्)
  • अन्यप्रशस्तयः ।
  • क्रि.श.१९८७: नैण्टिगेल् आफ् एषिया प्रशस्तिः । यु.के स्थितया इण्डो पाक् असोसियेषन् संस्थया ।[२१]
  • क्रि.श.१९८९: लता मङ्गेश्कर् प्रशस्तिः । (मध्यप्रदेशस्यसर्वकारेण[२१]
  • क्रि.श.१९९७: स्क्रीन् विडियोकान् प्रशस्तिः ।('जानं समाझा करो ' गीतगुच्छार्थम् ।)[२१]
  • क्रि.श.१९९७: एम्.टी.वी. प्रशस्तिः। (जानं समाझा करो " गीतगुच्छार्थम् ।).[२१]
  • क्रि.श.१९९७: चानल् वि.प्रशस्तिः (जानं समाझा करो " गीतगुच्छार्थम् ।).[२१]
  • क्रि.श.१९९७: दयावति मोदि प्रशस्तिः[२२]
  • क्रि.श.१९९९: लता मङ्गेश्कर् प्रशस्तिः ।(महाराष्ट्रस्यसर्वकारेण
  • क्रि.श.२०००: सिङ्गर् अफ् दि मिलेनियम् (दुबै)
  • क्रि.श.२०००: झी गोल्ड् बालिवुड् अवार्ड्(तक्षक् चित्रस्यमुझे रङ्ग् दे गीतार्थम्)
  • क्रि.श.२००१: एम्.टी.वी. प्रशस्तिः।( कम्बक्त् इष्क् चित्रार्थम्)
  • क्रि.श.२००२: बिबिसि आजीवनोपलब्धिः (यु के प्रधानमन्त्री टोनि ब्लेर् इत्यस्मात् स्वाकृतम् ।).
  • क्रि.श.२००२: अत्युत्तमा नेपथ्यगायिका इति झी सिने पुरस्कारः (लगान् चित्रस्य राधा कैसे न जले गानार्थम्)
  • क्रि.श.२००२: झी सिनि विशेषपुरस्कारः ।
  • क्रि.श.२००२: स्क्रीन् विडियोकान् प्रशस्तिः (लगान् चित्रस्य राधा कैसे न जले गानार्थम्)
  • क्रि.श.२००२: स्यान्सूय् मूवी प्रशस्तिः (लगान् चित्रस्य राधा कैसे न जले गानार्थम्)
  • क्रि.श.२००३: भारतीयचलच्चित्रक्षेत्राय दत्तयोगदार्थं स्वरालयः येसुदासप्रशस्तिः[२१]
  • क्रि.श.२००३: फेडरेशन् आफ् इण्दियन् चेम्बर् आफ् कामर्स् एण्ड् इण्डस्ट्री तः लिविंग् लेज़ेण्ड् प्रशस्तिः[२३]
  • क्रि.श.२००५: एम्.टी.वी इम्मीस् , आज् जाने कि जिद् न करोगानार्थम् अत्युत्तमगायिकाप्रशस्तिः ।[२४]
  • क्रि.श.२००५: सङ्गीतस्य अत्यन्तं सम्पन्नजनः।[२५]
  • सम्माननानि ।
  • १९९७तमे वर्षे उस्ताद् अलि अब्कर् खान् इत्यनेन सह " लिगेसि " इति गीतगुच्छे गानार्थम् आशायः ग्र्यामी प्रशास्तिं प्राप्तवती । भारतदेशस्य प्रथमा गायिका अभवत् या एतां प्रशस्तिभाजनम् ।
  • महाराष्ट्रराज्यस्य सप्तदशमी राज्यप्रशस्तिः प्राप्ता ।
  • भारतीयचलच्चित्रजगते प्रदत्तम् अनुपमं योदानं परिगणय्य क्रि.श. २०००तमे वर्षे दादा साहेब फल्के प्रशस्तिः आशायै दता ।[२१]
  • अमरावती जलगांव विश्वविद्यालययोः डक्टरेट् उपधिना भूषिता आशा भोंसले ।
  • कलायाम् अत्यधिकोपलब्ध्यर्थे "दि फ्रीडी मर्क्युरी प्रशस्तिः " प्रदत्ता ।
  • बर्मिङ्ग् ह्याम् फिल्म् फेस्टिवल् क्रि.श. २००२तमे वर्षे अस्याः विशेषा गानगोष्ठी अभवत् ।
  • भारतस्य सर्वकारेण पद्मविभूषणप्रशस्तिः प्रदत्ता ।[१]
  • गतेषु ५०वर्षेषु से एन् एन् वाहिन्याः श्रेष्ठेषु २०गायकेषु अन्यतमा । [२][३] [४]
चलच्चित्रस्य राष्ट्रियप्रशस्तयः ।
  • क्रि.श.१९८१: दिल् चीज़् क्या है (उम्रावो जान् )
  • क्रि.श.१९८६: मेरा कुच् सामान् (इज़ाझत् )
  • गौरवपुरस्कारः
  • क्रि.श.१९९८ - विशेषा प्रशस्तिः(रङ्गीला)
  • क्रि.श.२००८ - फिलं फेर् आजीवोपलब्धिपुरस्कारः ।

उल्लेखाः

फलकम्:Reflist

विशेषाध्ययनम्

बाह्यानुबन्धाः

फलकम्:भारतस्य नेपथ्यगायकाः फलकम्:Authority control

  1. एन्टी उत्तरभारतस्य साम्प्रदायानुग्णम् जनाः एताम् आशाजी इति व्यवहरन्ति ।
  2. २.० २.१ फलकम्:Cite book
  3. फलकम्:Cite web
  4. फलकम्:Cite book
  5. फलकम्:Cite web
  6. फलकम्:Cite web
  7. फलकम्:Cite web
  8. विश्वसङ्गीतम् : ल्याटिन् नार्त् अमेरिका, केरेबियन् भाराम्, एषिया फेसिपिक्, सिमन् ब्राटन् मार्क्स् एलिङ्ग्ट्न्, रिचर्ड् ट्रिलो रचनम् । क्रि.श.२०००
  9. ९.० ९.१ दि इण्टर् न्याषनल् व्यूस् व्हूस् व्हु क्रि.श. २००४, युरोपा प्रकाशनम्, रौट् लेज़् ।
  10. (फलकम्:Cite web
  11. फलकम्:Cite web
  12. फलकम्:Cite web
  13. १३.० १३.१ १३.२ १३.३ फलकम्:Cite web
  14. फलकम्:Cite web
  15. फलकम्:Cite web
  16. फलकम्:Cite web
  17. फलकम्:Cite book
  18. फलकम्:Cite web
  19. फलकम्:Cite web
  20. फलकम्:Cite web
  21. २१.० २१.१ २१.२ २१.३ २१.४ २१.५ २१.६ २१.७ भोंसले प्रशस्तयः Asha-Bhosle.com. अक्टोबर् क्रि.श.२००७तमे दिने पुनःसम्पादितम् ।
  22. [५].portal.unesco.org.
  23. भयानि विराल् । [६]. redhotcurry.com.
  24. २००५ जिताः
  25. इतिहासः :मोस्ट् स्पेशलिस्ट् पीपल् इन् म्यूज़िक्
"https://sa.bharatpedia.org/index.php?title=आशा_भोंसले&oldid=10066" इत्यस्माद् प्रतिप्राप्तम्