आवृतं ज्ञानमेतेन...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

(फलकम्:IPA audio link)

गीतोपदेशः
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य नवत्रिंशत्तमः (३९) श्लोकः ।

पदच्छेदः

आवृतं ज्ञानम् एतेन ज्ञानिनः नित्यवैरिणा कामरूपेण कौन्तेय दुष्पूरेण अनलेन च ॥ ३९ ॥

अन्वयः

कौन्तेय ! ज्ञानिनः नित्यवैरिणा कामरूपेण दुष्पूरेण अनलेन च एतेन ज्ञानम् आवृतम् ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
कौन्तेय कुन्तीसुत
ज्ञानिनः विदुषः
नित्यवैरिणा नित्यशत्रुणा
कामरूपेण इच्छारूपेण
दुष्पूरेण पूरयितुमशक्येन
अनलेन अग्निना
एतेन अनेन
ज्ञानम् ज्ञानम्
आवृतम् आच्छादितम् ।

व्याकरणम्

सन्धिः

  1. ज्ञानिनो नित्यवैरिणा = ज्ञानिनः + नित्यवैरिणा – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  2. दूष्पूरेणानलेन = दुष्पूरेण + अनलेन - सवर्णदीर्घसन्धिः

समासः

  1. नित्यवैरिणा = नित्यं वैरी, तेन – सुप्समासः
  2. कामरूपेण = कामेन रूपाणि यस्य सः, तेन - बहुव्रीहिः

तद्धितान्तः

  1. ज्ञानी = ज्ञान + इनि (मतुबर्थे) ज्ञानम् अस्य अस्मिन् वा अस्ति ।
  2. वैरी = वैर + इनि (मतुबर्थे) वैरम् अस्य अस्मिन् वा अस्ति ।

अर्थः

हे अर्जुन ! अयं कामः ज्ञानिनां सर्वदा वैरी । विषयैः पूरयितुम् अशक्यः अयम् अग्निः इव भाति । तादृशः कामः ज्ञानम् आवृत्य वर्तते ।

शाङ्करभाष्यम्

किं पुनस्तदिदंशब्दवाच्यं यत् कामेनावृतमित्युच्यते-आवृतमिति । आवृतमेतेन ज्ञानं ज्ञानिनो नित्यवैरिणा। ज्ञानी हि जानात्यनेनाहमनर्थे प्रयुक्तः पूर्वमेवेति।दुःखी च भवति नित्यमेव, अतोऽसौ ज्ञानिनो नित्यवैरी नतु मूर्खस्य । स हि कामं तृष्णाकाले मित्रमिव पशयंस्तत्कार्ये दुःखे प्राप्ते जानाति तृष्णायाहं दुःखित्वमापादितइति न पूर्वमेव । अतो असौ ज्ञानिन एव नित्यवैरी। किंरूपेण, कामरूपेण काम इच्छैव रूपमस्येति कामरूपस्तेन दिष्पूरेण दुःखेन पूरणमस्येति दुष्पूरस्तेनानलेन नास्यालं पर्याप्तिर्विद्यत इत्यनलस्तेन ।।39।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=आवृतं_ज्ञानमेतेन...&oldid=2" इत्यस्माद् प्रतिप्राप्तम्