आर् वेङ्कटरामन्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox Officeholder श्रीरामस्वामी वेङ्कटरामन् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-ta, फलकम्:Lang-en) भारतगणराज्यस्य अष्टमः राष्ट्रपतिः । भारतीयराजनीतिक्षेत्रस्य अस्थिरतायामेव श्रीरामस्वामी वेङ्कटरामन् इत्यस्य राष्ट्रपतिकालः व्यपगतः । एतावत् पर्यन्तं सः एकमात्रः राष्ट्रपतिः अस्ति, यः भारतीयगणराज्यस्य चतुर्भिः प्रधानमन्त्रिभिः सह कार्यम् अकरोत् । सः कुशलः लेखकः अपि आसीत् । तेन अनेकानि प्रख्यातपुस्तकानि लिखितानि । सः स्वतन्त्रसेनानित्वेन ताम्रपत्रम् अपि प्रापत् । भारतीयराजनीतिक्षेत्रस्य अस्थिरतायाः काले राष्ट्रपतिपदं व्यभूषयत् इति सः प्रख्यातः ।

जन्म, शिक्षणञ्च

१९१० तमस्य वर्षस्य 'दिसम्बर'-मासस्य चतुर्थे (४) दिनाङ्के तमिलनाडुराज्यस्य तञ्जावूरुमण्डलस्य पट्टुक्कोट्टै-ग्रामे श्रीवेङ्कटस्य जन्म अभवत् । तस्य पितुः नाम रामस्वामी अय्यर् आसीत् । सः तञ्जावूरु-नगरे वाक्कीलः आसीत् । तस्य परिवारः समृद्धः आसीत् । अतः श्रीवेङ्कटस्य शिक्षणे विशेषकष्टानि नासन् । तञ्जावूरु-नगरस्य प्रसिद्धविद्यालयात् स्वस्य प्राथमिकशिक्षणं समाप्य सः मद्रासविश्वविद्यालये स्नातकस्य अध्ययनं प्रारभत । पितुः इच्छानुसारं सः मद्रास लॉ महाविद्यालयात् एल्. एल्. बी. अपठत् । ततः १९३५ तमे वर्षे मद्रास उच्चन्यायालये वाक्कीलत्वेन कार्यं प्रारभत । १९५१ तमे वर्षे सः उच्चतमन्यायालये वाक्कीलत्वेन कार्यं कर्तुं योग्यः अभवत् ।

विवाहः, परिवारश्च

१९३८ तमे वर्षे श्रीवेङ्कटस्य विवाहः जानकी देवी नामिकया कन्यया सह अभवत् । तयोः दाम्पत्यजीवनं सुखकरमासीत् । तयोः एकः पुत्रः, तिस्रः पुत्र्यः आसन् । तस्य पुत्रः यदा सप्तदशवर्षीयः आसीत्, तदा सः मृतः । तस्य पुत्रीणां नामानि क्रमेण पद्मा, लक्ष्मी, विजया इति ।

वाक्कीलत्वेन श्रीवेङ्कटः

यदा श्रीवेङ्कटः वाक्कीलत्वेन कार्यं प्रारभत, तदा आभारते स्वतन्त्रतान्दोलनस्य वातावरणमासीत् । अहिंसा-हिंसामार्गाभ्यां आङ्ग्लानां विरोधः भवति स्म । अहिंसकाः सभा-आन्दोलन-सत्याग्रहादिभिः आङ्ग्लानां विरोधं कुर्वन्तः राष्ट्रस्वतन्त्रतायै कार्यं कुर्वन्तः आसन् । क्रान्तिकारिणः आङ्गाधिकारिणः मारयित्वा, अन्यरीत्या बलप्रयोगेन वा राष्ट्रस्वतन्त्रतायै कार्यं कुर्वन्तः आसन् ।

आरक्षकाणां दमनेन त्रस्तः मद्रास-प्रसिडेन्सि इत्यस्य कश्चित् युवकः कस्यचित् आङ्ग्लाधिकारिणः हत्याम् अकरोत् । हत्यायाः अभियोगस्य निर्णयः मृत्युदण्डः इति न्यायालयेन उद्घोषितम् । मद्रास-प्रसिडेन्सि इत्यस्य प्रख्यातः वाक्कीलः सी. राजगोपालाचारी तस्य युवकस्य मृत्युदण्डम् आजीवनकारागारे परिवर्तयितुं बहुप्रयत्नम् अकरोत् । परन्तु सः तथा कर्तुंम् असफलः अभवत् । ततः सः अभियोगः श्रीवेङ्कटस्य पार्श्वे गतः । श्रीवेङ्कटेन बहुसंशोधनानन्तरं न्यायालयेन कृतस्य अभियोगस्य निर्णयः अयोग्यः इति सिद्धं कृतम् । आङ्ग्लैः कृता मृत्युदण्डस्य घोषणा एकेन वाक्कीलेन आजीवनकारावासे परिवर्तिता इति प्रसिद्धिः चतसृषु दिग्षु प्रसरिता । श्रीवेङ्कटस्य कुशलतया प्रभाविताः सन्तः कोङ्ग्रेस-पक्षस्य नेतारः श्रीवेङ्कटं "राजनीतिक्षेत्राय योगदानं यच्छतु" इति परामर्शम् अयच्छन् । परन्तु "राजनीतिक्षेत्रे मम रुचिः नास्ति" इति उक्त्वा सः तेषां परामर्शं निराकरोत् ।

स्वतन्त्रतान्दोलने श्रीवेङ्कटः

१९४२ तमे वर्षे महात्मनाभारत छोडो’-आन्दोलनस्य घोषणा कृता । महात्मनः प्रभावेन श्रीवेङ्कटेन वाक्कीलस्य कार्यं त्यक्त्वा स्वतन्त्रतान्दोलनाय स्वस्य सम्पूर्णः समयः समर्पितः । विभिन्नेषु आङ्ग्लविरोधिसम्मेलनेषु सः आङ्ग्लविरोधीनि कार्याणि अकरोत् । श्रीवेङ्कटस्य विरोधेन त्रस्तः आङ्ग्लसर्वाकारः तं वर्षद्यं यावत् कारागारं प्रैषयत् । कारागारे सः स्वतन्त्रतभारताय बहुचिन्तनम् अकरोत् । १९४४ तमे वर्षे सः कारागारात् मुक्तः अभवत् । कारागारे चिन्तिताः विचाराः कथम् अनुसरणीयाः इति तस्य मनसः प्रप्रथमः प्रश्नः आसीत् । राजनीतिः एव देशस्वतन्त्रतायै मार्गः इति विचिन्त्य सः राजनीतिप्रवेशस्य निर्णयम् अकरोत् । १९४४ तमे वर्षे सः तमिलनाडु-कोङ्ग्रेससमित्याः श्रमशाखायाः सदस्यः अभवत् । श्रमविभागे कार्यरतः श्रीवेङ्कटः श्रमिकाणां समस्यानां सुचारुरीत्या समाधानं कुर्वन् श्रमजीविषु प्रसिद्धिं प्रापत् ।

आज़ाद हिन्द फौज इत्यस्य साहाय्यम्

१९४६ तमे वर्षे भारते ब्रिटिश्-शासनस्य समाप्तेः निश्चयः जातः आसीत् । भारतस्वतन्त्रतायै नेताजी सुभाष चन्द्र बोस इत्यनेन यस्य आजाद हिन्द फौज इत्यस्य रचना कृता आसीत्, तस्य दलस्य पराजयः अभवत् । तस्य दलस्य सैनिकाः राजद्रोहिणः इति सिङ्गापुर-देशस्य सर्वकारेण आक्षेपः कृतः आसीत् । परन्तु निष्पक्षन्यायस्य चेष्टायां ते भारतात् वाक्कीलान् आह्वयन् । भारतस्य जनानां रक्षणं भवतु इति विचिन्त्य भारतसर्वकारेण कस्यचित् वाक्कीलगणस्य रचना कृता । तस्मिन् वाक्कीलगणे श्रीवेङ्कटः अपि आसीत् । सिङ्गापुर-देशेऽपि सः स्वस्य तर्कैः भारतीयजनानां साहाय्यम् अकरोत् । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् इति घोषणा अभवत् । सिङ्गापुर-देशात् सफलो भूत्वा आगतः श्रीवेङ्कटः जनेषु योग्यवाक्कीलत्वेन प्रसिद्धः आसीत् । अतः १९४७ तमे वर्षे मद्रास-वाक्कील-सङ्घस्य अध्यक्षत्वेन चितः सः ।

राजनीतिक्षेत्रे योगदानम्

भारतस्य श्रमिकाणां जागृत्यै तेन 'लेबर् लॉ'-नामिकायाः प्रसिद्धमासिकपत्रिकायाः प्रारम्भः कृतः । १९५२ तमस्य वर्षस्य निर्वाचने श्रीवेङ्कटः लोकसभायाः सदस्यः अभवत् । लोकसभासदस्यत्वेन तस्य कार्याणि उल्लेखनीयानि सन्ति । यथा –

१) वस्त्रनिर्माणयन्त्रागाराणां राष्ट्रीकरणस्य नियमे सः यानि परिवर्तनानि अकरोत्, तानि श्रमिकेभ्यः, यन्त्रागारश्रेष्ठिभ्यश्च बहुश्रेयस्कराणि असिद्धयन् ।

२) ग्राम-नगरयोः नागरिकेभ्यः सम्पत्तिसम्बद्धाः नियमाः विसमाः आसन् । स्वतर्कैः श्रीवेङ्कटः नेहरू इत्येनं नियमानां विसमतायाः निराकरणम् अबोधयत् । ततः सर्वसम्मत्या सम्पत्तिसम्बद्धः अध्यादेशः लोकसभायां सिद्धः अभवत् ।

३) १९५३ तः १९६१ पर्यन्तं संयुक्तराष्ट्रमहासभायां भारतस्य प्रतिनिधित्वम् अपि श्रीवेङ्कटः अकरोत् । १९५७-६७ तमिळनाडुराज्यस्य उद्योग-श्रम-सहकारिता-विद्युत्-परिवहन-व्यवसाय-मन्त्रालयस्य दायित्वम् अवहत् श्रीवेङ्कटः । ततः १९८२ पर्यन्तं सः राज्यस्य, केन्द्रस्य च विभिन्नेषु सांविधानिकपदेषु कार्यम् अकरोत् । राजनैतिकक्षेत्रे तस्य प्रसंशा विपक्षेणापि मुहुर्मुहुः कृता ।

उपराष्ट्रपतित्वेन श्रीवेङ्कटः

१९८४ तमे वर्षे उपराष्ट्रपतेः हिदायतुल्लाह इत्यस्य कार्यकाले समाप्ते जाते सति तत्कालीनः प्रधामन्त्री इन्दिरा गान्धी उपराष्ट्रपतिप्रत्याशित्वेन श्रीवेङ्कटस्य नाम उपास्थापयत् । १९८४ तमस्य वर्षस्य 'अगस्त'-मासस्य द्वाविंशति(२२)तमे दिनाङ्के श्रीवेङ्कटः उपराष्ट्रपतिनिर्वाचने अजयत । तस्य मासस्य एकत्रिंशत्तमे दिनाङ्के श्रीवेङ्कटः उपराष्ट्रपतित्वेन दायित्वं स्व्यकरोत् । १९८६ तमे वर्षे श्रीवेङ्कटः फ्रांस-देशस्य यात्रायै गतः आसीत् । फ्रांस-देशे भारतस्य प्रधिनिधित्वं कुर्वन् फ्रांस-देशस्य राष्ट्रपतेः उपस्थितौ भारतस्य गौवरवर्धकं भाषणं कृतम् आसीत् तेन । सः अवदत्, “सृष्टेः प्रारम्भादेव ज्ञानपिपासुः मनुष्यः ज्ञात-अज्ञात-क्षेत्रयोः अन्वेषणं कुर्वन् अस्ति । अविरतज्ञानपिपासायाः कारणेनैव विश्वस्मिन् विकसिताः सर्वाः सभ्यताः समृद्धाः सन्ति । अस्माकं देशस्य प्राचीनपरम्परा आधुनिकज्ञानेन सह एकरूपतां साधयति इत्येव नवीनभारतस्य वैशिष्ट्यम् अस्ति” इति । उपराष्ट्रपतित्वेन तस्य प्रख्यातं भाषणम् आसीत् तत् ।

श्रीवेङ्कटस्य उपराष्ट्रपतित्वेन यदा मासद्वयं जातमासीत्, तदैव इन्दिरा गान्धी इत्यस्याः निर्ममहत्या अभवत् । इन्दिरा गान्धी यस्मिन् दिने सा मृता, तस्मिन् दिने सायं सार्धपञ्चवादने एव श्रीज्ञानी राजीव गान्धी इत्यनेन प्रधानमिन्त्रिशपथम् अकारयत् । ततः राष्ट्रपतित्वेन श्रीज्ञानी जैल सिंह इत्यस्य कार्यकाले समाप्ते सति तत्कालीनः प्रधानमन्त्री राजीव गान्धी श्रीवेङ्कटस्य नाम राष्ट्रपतिप्रत्याशित्वेन उपास्थापयत् । १९८७ तमस्य वर्षस्य 'जुलाई'-मासस्य षड्विंशतितमे दिनाङ्के राष्ट्रपतिनिर्वाचने भारतगणराज्यस्य अष्टमराष्ट्रपतित्वेन श्रीवेङ्कटः चितः । पञ्चविंशतितमे दिनाङ्के मध्याह्नकाले राष्ट्रपतिपदगौरवं रक्षितुं सर्वोच्चन्यायालस्य मुख्यन्यायाधीशः श्री आर. एस. पाठक श्रीवेङ्कटेन शपथम् अकारयत् ।

राष्ट्रपतित्वेन श्रीवेङ्कटः

राष्ट्रपतित्वेन प्रप्रथमभाषणं कुर्वन् श्रीवेङ्कटः अवदत्, “पञ्चत्रिंशत्वर्षं पुरा भारतस्य सर्वप्रथमः राष्ट्रपतिः श्रीराजेन्द्र प्रसाद यदा अस्मिन् सभाखण्डे राष्ट्रपतित्वेन शपथम् अकरोत्, तदा मम कल्पना अपि नासीत् यत्, अहमपि राष्ट्रपतित्वेन सम्मानं प्राप्स्यामि इति । अद्य देशजनाः यं सम्मानं मह्यम् अयच्छन्, तस्मै अनुगृहीतोऽस्म्यहम् । अहम् एतत्पदं न केवलं गौरव-प्रतिष्ठयोः प्रतीकत्वेन पश्यामि अपि तु मम कृते साहसपूर्णदायित्वेन एतत् कार्यं अस्ति” इति ।

अस्थिरराजनैतिकस्थित्याः कारणेन राष्ट्रपतित्वेन श्रीवेङ्कटस्य कार्यकालः साहसपूर्णनिर्णयैः परिपूर्णः आसीत् । एतावत् पर्यन्तं सः एकमात्रः राष्ट्रपतिः अस्ति, यः भारतगणराज्यस्य चतुर्भिः प्रधानमन्त्रिभिः सह कार्यम् अकरोत् । राजीव गान्धी इत्यस्य कार्यकाले श्रीवेङ्कटः राष्ट्रपतित्वेन शपथम् अकरोत् । १९८९ तमस्य वर्षस्य 'दिसम्बर'-मासस्य द्वितीये दिनाङ्के श्रीवेङ्कटः वी पी सिंह इत्यनेन प्रधानमन्त्रिशपथम् अकारयत् । परन्तु एकवर्षाभ्यान्तरे एव संसदसभ्यैः चन्द्रशेखर इत्ययं प्रधानमन्त्रित्वेन चितः । अतः १९९० तमस्य वर्षस्य 'नवम्बर'-मासस्य दशमे दिनाङ्के तेन प्रधानमन्त्रिशपथम् अकारयत् श्रीवेङ्कटः । प्रधानमन्त्रित्वेन चन्द्रशेखरस्य चत्वारः मासाः व्यतीताः आसन् । तदैव कोङ्ग्रेस-आई-पक्षः चन्द्रशेखरस्य असमर्थनम् औद्घोयत् । चन्द्रशेखरस्य प्रधानमन्त्रित्वेन पदत्यागानन्तरं निर्वाचनस्य घोषणा अभवत् । निर्वाचनप्रचारार्थं गतस्य पूर्वप्रधानमन्त्रिणः राजीव गान्धी इत्यस्य नृशंसहत्या अभवत् । राजीव गान्धी इत्यस्य हत्यानन्तरं निर्वाचने कोङ्ग्रेस-पक्षस्य विजये सति नरसिंह राव् प्रधानमन्त्री अभवत् । १९९१ तमस्य वर्षस्य 'जून'-मासस्य विंशतितमे दिनाङ्के श्रीवेङ्कटः नरसिंह राव् इत्यनेन प्रधानमन्त्रिशपथम् अकारयत् । १९९२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे दिनाङ्के श्रीवेङ्कटस्य राष्ट्रपतित्वेन कार्यकालः पूर्णः अभवत् । राष्ट्रपतित्वेन कार्यकालस्य समाप्तेः घण्टाद्यसमनन्तरम् एव राष्ट्रपतिभवनम् अत्यजत् श्रीवेङ्कटः । राष्ट्रपतिभवनात् मद्रास-महानगरम् अगच्छत् सः ।

मृत्युः

२००९ तमस्य वर्षस्य 'जनवरी'-मासस्य द्वादशे दिनाङ्के मूत्रसम्बद्धविकारस्य उपचारार्थं श्रीवेङ्कटः देहली-महानगरस्य 'आर्मी रिसर्च् एण्ड् रेफरल्'-रुग्णालयम् अगच्छत् । २००९ तमस्य वर्षस्य 'जनवरी'-मासस्य सप्तविंशतितमे दिनाङ्के मध्याह्नकाले अष्टनवति(९८)तमे वयसि श्रीवेङ्कटः शरीरम् अत्यजत् ।

फलकम्:भारतस्य राष्ट्रपतिक्रमः

सम्बद्धाः लेखाः

राष्ट्रपतिः

आजाद हिन्द फौज

सर्वोच्चन्यायालयः

राष्ट्रपतिभवनम्

उद्धरणम्

फलकम्:Reflist

फलकम्:भारतस्य राष्ट्रपतयः

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=आर्_वेङ्कटरामन्&oldid=256" इत्यस्माद् प्रतिप्राप्तम्