आर्याछन्दः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

लक्षणम्

यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि ।
अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ।।

अर्थात्- यस्याः प्रथमे तृतीये च पादे द्वादशमात्राः भवन्ति, द्वितीये पादे अष्टादश, चतुर्थे पादे च पञ्चदश मात्राः भवन्ति सा आर्या उच्यते।

उदाहरणम्

अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ।।

अर्थः

मूढः जनः सुखेन बोधयितुं शक्यः भवति, विद्वान् तु अनायासेनैव अनुकूलयितुं शक्यः भवति। किन्तु स्वल्पेन एव ज्ञानेन गर्वितमानसं जनं ब्रह्मापि प्रसादयितुम् न शक्नोति।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=आर्याछन्दः&oldid=1630" इत्यस्माद् प्रतिप्राप्तम्