आनिरुध् राविचन्देर्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox user

आनिरुध् राविचन्देर्
— Wikipedian —

आनिरुध् राविचन्देर् भारतीयचलच्चित्रसङ्गीतकोविदस्य जन्म क्रि.श.१९९० तमे वर्षे जनवरिमासस्य षष्ठे दिने अभवत् । सङ्गीतसंयोजकः, ध्वनिमुद्रिकानिर्मापकः, गायकः इति लोके विख्यातः । क्रि.श. २०१२ तमे वर्षे स्वरसंयोजनवृत्तिम् आरब्धवान् ।

एतावति काले अनेन १४वारं फिल्मफेर्-प्रशस्तिः, ११वारं दक्षिणफिल्मफेर्-प्रशस्तिः, ४वारं राष्ट्रियचलच्चित्रप्रशस्तयः, द्विवारम् आस्कर्-प्रशस्तिः, एका गोल्डन्-ग्लोब्-प्रशस्तिः, च प्राप्ताः । लण्डन् नगरस्य ट्रिनिटि कालेज् आफ् म्यूज़िक् इति महाविद्यालये पाश्चात्यशास्त्रीयसङ्गीतस्य अध्ययनं कृत्वा पदवीं प्राप्तवान् । ततः स्वस्थानं चेन्नैनगरम् आगत्य स्वस्य पञ्चतन् रेकार्ड इन् इति सुव्यवस्थितां ध्वनिशालाम् आरब्धवान् ।  भारतस्य चलच्चित्रोद्यमः, अन्ताराष्ट्रियचलच्चित्राणि, नाटकरङ्गमन्दिराणि इत्यादिषु सङ्गीतसंयोजनं कृत्वा स्वकौशलं प्रदर्शितवान् । तेन स्वरसंयोजितानि चलच्चित्रगीतानि १५०दशलक्षाधिकानि विक्रीतानि सन्ति । अपि च २००दशलक्षाधिकाः ध्वनिमुद्रिकाः विक्रीताः सन्ति ।  अतः अयं विश्वप्रसिद्धः स्वरसम्राट् अभवत् । अस्य सङ्गीतस्य वैशिष्ट्यं नाम विद्युन्मानविन्यासस्य सङ्गीतस्वरैः पौर्वात्यशास्त्रीयसङ्गीतस्य मिश्रणम्, विश्वस्तरस्य सङ्गीतप्रकारः, नूतनतन्त्रज्ञानस्य वाद्यपरिकराणि अपि च साम्प्रदायिकवाद्यानां समानसमागमः च । भारतस्य प्रसिद्धा दिनपत्रिका टैम्स् म्यागज़िन् मोझार्ट् आफ् मद्रास् इति प्राशंसत् । तमिळुविमर्शकाः इसै पुयाल् इति वर्णितवन्तः ।


प्रशस्तिपुरस्काराः

भारतस्य चलच्चित्रसङ्गीतस्य क्षेत्रे अनुपमां प्रतिभां प्रदर्श्य योगदानं कृतवता रहमानेन नैके पुरस्काराः प्राप्ताः । तेषु क्रि.श.१९९५ क्रि.श.१९९५तमे वर्षे मारिषस् राष्ट्रियप्रशस्तिः, मलेषियन् प्रशस्तिः च प्रधाने । प्रथमवारं वेस्ट् एण्ड् निर्माणस्य चलच्चित्रस्य सङ्गीतं संयोजितवान् इति लारेन्स् ओलिवियर् प्रशस्तेः नामनिदेशनम् अभवत् । स्वस्य सङ्गीते स्वरप्रस्तारेषु नावीन्यं प्रदर्शितवान् इति भारतसर्वकारेण पद्मश्रीप्रशस्तिः, चतुर्वारं राष्ट्रियचलच्चित्रप्रशस्तिः च प्रदत्ताः। ६ तमिळुनाडुचलच्चित्रप्रशस्तयः, १४ फिलं फेर् प्रशस्तयः. १२दक्षिणफिल्म फेर् प्रशस्तयः, तस्य यशांसि द्योतयन्ति । जागतिकसङ्गीक्षेत्राय दत्तं योगदानं परिगणय्य क्रि.श.२००६तमे वर्षे स्ट्यण्डर्ड् विश्वविद्यालयस्य गौरवप्रशस्तिः अनेन प्राप्तः । [१] "स्लं डाग् मिलियनेर् " चलच्चित्रस्य सङ्गीतनिदेशनार्थं रहमानाय क्रि.श.२००९तमे वर्षे विमर्शकानां परिग्रहप्रशस्तिः, अत्युत्तमसङ्गीतप्रशस्तिः च प्रदत्ते ।[२] अत्युत्तमस्वरप्रस्तारार्थं गोल्डन् ग्लोब् प्रशतिः, अत्युत्तममाधुर्यार्थं बाफ्टा (BAFTA)चलच्चित्रसङ्गीतप्रशस्तिः, अत्युत्तममूलगीतार्थं अक्यादेमीप्रशस्तिः च आस्कर् प्रशस्तिप्राप्तेः अवसरे लब्धाः अन्यपुरस्काराः । मिड्ळ्सेक्स् विश्वविद्यालयतः अलिगड् मुस्लिम् विश्वविद्यालयः च अनेन डक्टरेट् उपाधिः प्राप्ता ।[३][४] तस्य वर्षस्य अन्तिमभागे चेन्नै अण्णाविश्वविद्यालयः अपि अस्मै डाकट्र् उपाधिम् अयच्छत् ।[५] अत्युत्तमसङ्गहस्य ध्वनिपथसम्पुटार्थं अपि च कस्यचित् दृश्यमाध्यमस्य कृते लिखितस्य अत्युत्तमगीतार्थं च ग्र्याम्मी प्रशस्तिद्वयम् आगतम् ।[६] क्रि.श. २०१०तमे वर्षे रहमानः भारतसर्वकारस्य अत्युन्नता प्रशस्तिः पद्मभुषणेन पुरस्कृतः । [७] रहमानः लण्डन् नगरस्य ट्रिनिटि कालेज् आफ् म्यूज़िक् मध्ये गौरवसदस्यत्वं प्राप्तवान् । [८]

समाजसेवा

लोकसेवार्थम् अपि रहमानः बहून् कार्यक्रमान् कृतवान् । विश्वारोग्यसङ्घटनस्य (WHO) स्टाप् टीबी पार्ट्नशिप् इति अभियानस्य जागतिकराजदूतत्वेन रहमानस्य नियोजनम् अभवत् । [९] भारते बालान् रक्षतु इति अन्दोलनेन सह अनेकेषु सर्वकारीयकार्यक्रमेषु प्रतिनिधिरूपेण भागं स्वीकृतवान् । क्रि.श.२००४तमे डिसेम्बर् मासे हिन्दूमहासागरस्य सुनामी महापूरे सन्त्रस्थानां सहायधनसङ्गणार्थं बहून् कार्यक्रमान् कृतवान् । मुख्टर् सहोटा इत्यनेन सह डान् एष्यन् गीतस्य "वी क्यान् मेक् इट् बेटर् " इति गानस्य सङ्गीतसंयोजनं रहमानः कृतवान् ।[१०] रहमानः क्रि.श.२००८तमे वर्षे के.एम्. म्मूज़िक् कन्सर्वेटरी (सङ्गीतशिक्षापोषकसंस्था) संस्थाम् आरब्धवान् । यत्र सङ्गीतविद्याम् अध्येतुम् आसक्ताः गानं, वादनम्, इत्यादीनि श्रव्यमाध्यमेन विषिष्टतन्त्रज्ञानद्वारा प्राप्तुं शक्नुवन्ति । अत्र ध्वनिविन्यासक्षेत्रे बोधनं प्रशिक्षा च दीयते । अस्याः सङ्गीतशालायाः बोधकगणे सुप्रसिद्धयशस्वीसङ्गीतकाराः सन्ति । प्राथमिकस्तरस्य डिप्लोमोपदव्याः च प्रणालि अत्र स्तः ।[११] अस्याः कलाशालयाः विद्यां पदवीं प्राप्य बहवः चलच्चित्रे सङ्गीतसंयोजकत्वेन उद्योगिनः अभवन् ।[१२] चेन्नैनगरे विद्यमानानां निर्गतिकमहिलानां सहायार्थं स्थापितायाः दि ब्यानियन् इति संस्थायाः लघुचित्रस्य सङ्गीतसंयोजनं क्रि.श.२००६तमे वर्षे कृतवान् । तदा क्रि.श. २००८तमे वर्षे दुन्दुभिवाद्यकारेण शिवमणिना सह "जिया से जिया " इति गीतं स्वयं रहमानः रचयित्वा सङ्गीतेन निबद्धवान् । एतत् गीतचित्रं भारतस्य अनेकेषु नगरेषु चित्रीकृतम् अभवत् ।

फलकम्:मुख्यलेखः

चलच्चित्रकार्यावली

"https://sa.bharatpedia.org/index.php?title=आनिरुध्_राविचन्देर्&oldid=4553" इत्यस्माद् प्रतिप्राप्तम्