आनन्दीबेन पटेल

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox officeholder आनन्दीबेन पटेल (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-gu, फलकम्:Lang-en) गुजरातराज्यस्य पञ्चदशः मुख्यमन्त्री । एषा गुजरातराज्यस्य प्रप्रथमा महिलामुख्यमन्त्री अस्ति[१] । उत्तरोत्तरं चतुर्वारं गुजरातविधानसभायाः निर्वाचने भारतीयजनतापक्षस्य विजये आनन्द्याः योगदानम् अपि महत्वपूर्णम् आसीत् । २०१४ तमस्य वर्षस्य ‘मई’-मासस्य एकविंशतितमे (२१/५/२०१४) दिनाङ्के नरेन्द्र मोदी इत्यस्य गुजरातराज्यस्य मुख्यमन्त्रित्वेन पदत्यागानन्तरम् आनन्दीबेन गुजरातराज्यस्य मुख्यमन्त्रित्वेन पदारूढा अभवत्[२]

जन्म, परिवारश्च

१९४१ तमस्य वर्षस्य 'नवम्बर'-मासस्य एकविंशतितमे (२१/११/१९४१) दिनाङ्के गुजरातराज्यस्य महेसाणामण्डलस्य विजापुर-उपमण्डलस्य खरोद-ग्रामे आनन्द्याः जन्म अभवत् । तस्याः पितुः नाम जेठाभाई आसीत् । तस्याः पिता जेठाभाई गान्धीवादी शिक्षकः, नेता च आसीत् ।

तस्याः पत्युः नाम मफतलाल पटेल अस्ति । तयोः द्वे अपत्ये स्तः । तयोः नाम क्रमेण अनार, सञ्जय च । तस्याः जामाता जयेशभाई प्रख्यातः समाजसेवकः अस्ति ।

शिक्षणं, विवाहश्च

तस्याः पिता जेठाभाई गान्धीवादी नेता आसीत् । अतः सः समाजस्य कुप्रथायाः विरोधी आसीत् । तस्मिन् काले जनाः स्वबालाः पठनाय विद्यालयं न प्रेषयन्ति स्म । परन्तु जेठाभाई स्वपुत्रीं नियततया विद्यालयं प्रेषयति स्म । यस्मिन् विद्यालये आनन्दीबेन पठन्ती आसीत्, तस्मिन् विद्यालये सप्तशतविद्यार्थिषु आनन्दीबेन एकाकिनी विद्यार्थिनी आसीत् । तत्र सप्तमकक्षां यावत् प्राथमिकशिक्षणं समाप्य विसनगरस्य समीपं नूतन नामके विद्यालये सा अष्टमकक्षायां प्रवेशं प्रापत् । आनन्दीबेन पठनेन सह क्रीडा-व्यायाम-योगविषयेषु अपि कुशाग्रा आसीत् । अतः माध्यमिकशिक्षणकाले सा “वीर-बाला”[३] इति पुरस्कारमपि प्रापत् ।

१९६० तमे वर्षे ‘एम् जि पञ्चाल विज्ञान’ नामके महाविद्यालये विज्ञानविषयं पठितुं प्रवेशं स्व्यकरोत् । महाविद्यालयस्य प्रथमवर्षस्य कक्षायां सर्वेषु विद्यार्थिषु सा एकाकिनी एव विद्यार्थिनी आसीत् । ततः सा विसनगरस्य एकस्मिन् महावद्यालये बी एस् सी इत्यस्य अन्तिमवर्षस्य अभ्यासं पूर्णम् अकरोत् ।

१९६२ तमस्य वर्षस्य ‘मई’-मासस्य षड्विंशतितमे (२६/५/१९६२) दिनाङ्के अष्टाविंशतितमे वयसि आनन्द्याः विवाहः सरसपुर आर्ट्स् एण्ड् कॉमर्स् महाविद्यालयस्य प्राध्यापकेन मफतलाल इत्यनेन सह अभवत् । वर्षत्रयं यावत् महेसाणा-पत्तने स्थित्वा १९६५ तमे वर्षे तौ सहपरिवारं कर्णावती-महानगरम् अगच्छताम् ।

विवाहानन्तरम् अपि सा अध्ययनं नास्थगयत् । कर्णावती-महानगरे सा अनुस्नातकस्य अभ्यासं प्रारभत । ततः तया शिक्षाशास्त्रिणः (B.Ed), शिक्षाचार्यस्य (M.Ed) च पदवी प्राप्ता । शिक्षाचार्यपदव्या सह तया सुवर्णपदकम् अपि प्राप्तम् ।

आजीविका

आनन्दीबेन इत्यनया प्रप्रथमा वृत्तिः (job) महिलाविकासगृह इत्याख्यायां संस्थायाम् आरब्धा । सा संस्था विधवामहिलानां सशक्तीकरणस्य कार्यं करोति स्म । ततः १९७० तमे वर्षे मोहिनीबा कन्या विद्यालये शिक्षकात्वेन तया कार्यं प्रारब्धम् । तस्मिन् विद्यालये सा विद्यार्थिनः विज्ञान-गणित-समाजशास्त्रादिविषयान् पाठयति स्म । ततः तस्मिन् विद्यालये पाठयन्ती सा स्वप्रतिभया प्रधानाचार्यस्य पदं व्यभूषयत्[३] । सततं त्रिंशत् वर्षाणि सा तस्य विद्यालयस्य विद्यार्थिनां मार्गदर्शनम् अकरोत् । त्रिंशद्वर्षाणि मोहिनीबा कन्या विद्यालयस्य प्रधानाचार्यस्य कार्यम् अकरोत् । ततः तया स्वैच्छिकनिवृत्तिः स्वीकृता ।

राजनीतिप्रवेशः

आनन्दीबेन यदा मोहिनीबा कन्या-विद्यालये प्रधानाचार्या आसीत्, तदा १९८७ तमे वर्षे सा शैक्षणप्रवासार्थं नर्मदानद्याः समीपम् एकं स्थलं गतवती आसीत् । तस्मिन् शैक्षणिकप्रवासे एका घटना घटिता । ततः तस्याः राजनैतिकप्रवासः आरब्धः । तस्याः घटनायाः उल्लेखः अधः कृतः ।

१९८७ तमे वर्षे यदा मोहिनीबा कन्या विद्यालयस्य विद्यार्थिनः नीत्वा कर्णावती-महानगरात् नर्मदायाः समीपम् एकं स्थलं सा शैक्षणिकप्रवासार्थम् अगच्छत्, तदा एका विद्यार्थिनी नर्मदायाः प्रवाहे अपतत् । नद्यां प्रवाहः अतिवेगवान् आसीत् । विद्यार्थिन्याः प्राणं रक्षितुं आनन्दीबेन अपि विद्यार्थिन्याः पृष्ठे नद्याम् अकूर्दत् । तया तस्याः विद्यार्थिन्याः प्राणः अपि रक्षितः । तस्याः घटनायाः अनन्तरं राज्यसर्वकारेण आनन्दीबेन इत्यस्याः वीरता-पुरस्कारेण सम्मानः अपि कृतः ।

तस्मिन् काले आनन्दीबेन इत्यस्याः पिता जेठाभाई भारतीयजनतापक्षस्य सक्रियनेता आसीत् । सः तस्याः परिचयं नरेन्द्र मोदी, शङ्करसिंह वाघेला इत्येताभ्यां सह अकारयत् । तौ आनन्दीबेन इत्येनां न्यवेदयेताम् यत्, “भवत्याः पुरुषार्थस्य, पराक्रमस्य अस्माकं पक्षे आवश्यकता अस्ति । भवती पक्षे महिलानां सशक्तीकरणे स्वयोगदानं ददाति चेत्, महती कृपा भविष्यति” इति । ततः सा भारतीयजनतापक्षस्य गुजरातप्रदेशस्य महिलाविभागस्य अध्यक्षत्वेन दायित्वं स्वयकरोत् ।

राजनीतिप्रवेशस्य सप्तवर्षानन्तरं १९९४ तमे वर्षे सा प्रप्रथमवारं गुजरातराज्यात् राज्यसभायाः संसद्सदस्यत्वेन चिता । ततः १९९८ तमे वर्षे गुजरातविधानसभायाः निर्वाचने माण्डलप्रदेशस्य जनसामान्यैः सा विधायकत्वेन चिता । तस्मिन् वर्षे केशुभाई पटेल रचिते मन्त्रिमण्डले सा शिक्षणमन्त्रिपदं व्यभूषयत् । राजनैतिककार्ये तया पक्षस्य अपेक्षया देशस्य कृते अधिकं ध्यानं प्रदत्तम् । यतो हि नरेन्द्र मोदी सदृशः देशभक्तनेता तस्याः मार्गदर्शकः आसीत् । २००१ तमे वर्षे केशुभाई पटेल इत्यस्य पदभ्रष्टतायाः काले आनन्दीबेन नरेन्द्र मोदी इत्यस्य विचारैः सम्मता आसीत् । अतः सा स्वसमर्थनं तस्मै अयच्छत् । मोदी इत्यस्य सर्वकारे अपि आनन्दीबेन शिक्षणमन्त्रित्वेन दायित्वम् अवहत् । ततः नरेन्द्र मोदी तस्यै नगरविकास-राजस्व(revenue)मन्त्रित्वेन कार्यभारम् अयच्छत् । राज्यसर्वकारस्य अतिमहत्त्वपूर्णसमितीनाम् अध्यक्षत्वेन अपि सा कार्यम् अकरोत् ।

व्यक्तित्वम्

अनुशासनप्रिया आनन्दीबेन कठोरप्रशासिका अस्ति । समयपालनं, स्वच्छता, कर्मठता तस्याः व्यवाहरेणैव ज्ञायते । अतः सा सहकार्यकर्तृभ्यः अपि तादृशीम् अपेक्षां धरते । सा मितव्ययिनी, मितभाषिणी व्यक्तिः अस्ति । विना कारणं हसनं, वचनं तस्यै न रोचते । कार्यकर्तृभिः सह चर्चाकाले सा गभीरतया विषयोपस्थापनं करोति । अतः आनन्दीबेन कार्यकर्तॄणां मित्रं नास्ति इति तस्याः आलोचना अपि भवति । परन्तु सा वदति यत्, “मम मुखे हास्यं दृष्ट्वा कार्यकर्ता कार्यं न करोति, अपि तु मम कथने तस्य, देशस्य च हितम् अस्ति इति दृष्ट्वा सः कार्यरतः भवति" इति ।

तस्याः स्वभावस्य विषये नरेन्द्र मोदी अवदत् –

फलकम्:Cquote

आनन्दीबेन इत्यस्याः स्वभावविषये तस्याः पुत्री अनार पटेल वदति यत्, “मम माता यदा राजनीतिक्षेत्रे सक्रिया नासीत्, तदा सा स्वभ्रातृजस्य बाल्यविवाहम् अस्थगयत् । पुरा पटेल-समाजे बाल्यविवाहस्य कुप्रथा आसीत् । अतः मम मातुलः देवचन्दभाई तस्य पुत्रस्य बालविवाहस्य आयोजनम् अकरोत् । परन्तु “बालविवाहं मा कारयतु” इति मम माता तम् अबोधयत् । तथापि मम मातुलः तस्याः कथनं नाशृणोत् । अन्ततो गत्वा मम माता आरक्षकाणां साहाय्येन विवाहस्य दिने एव विवाहम् अस्थगयत् । पटेल-समाजस्य जनानाम् उपरि तस्याः निर्णयस्य अधिकः प्रभावः अभवत् । ते अपि बालविवाहस्य विरोधं प्रारभन्त । शनैः शनैः सा प्रथा पटेल-समाजात् अपाभवत्” इति ।

अनार पटेल अग्रे अवदत्, “मम मातुः उपरि मम मातामहस्य अधिकः प्रभावः अस्ति । सः गान्धीवादी आसीत् । यस्मिन् ग्रामे सः निवसति स्म, तस्य ग्रामस्य 'पञ्चायत' अनेकवारं तस्मै ग्रामनिर्वासनस्य (exiled from village) दण्डं प्रादात् । यतो हि सः अस्पर्शतायाः, जातिवादस्य च विरोधी आसीत् । तस्याः गुणाः एव मम मातरि सन्ति” इति ।

स्वमातुः स्वभावस्य विषये वदन्ती अनार पटेल अवदत्, “मम माता यावन्ती अनुशासनप्रिया अस्ति, तावन्ती सरला अपि अस्ति । तस्यै पक्षिणः अतीव रोचते । वृक्षाणां, सस्यानां च संरक्षणे तस्याः अधिका रुचिः अस्ति । सा अधुना यस्मिन् सर्वकारगृहे निवसन्ती अस्ति, तस्य गृहस्य उद्याने तया 'ऑर्गेनिक्' फलानि, शाकानि वपितानि सन्ति । मम गृहे, मम भ्रातुः गृहे च यानि फलसस्यानि, शाकसस्यानि च सन्ति, तानि तया एव प्रेषितानि सन्ति” इति ।

मुख्यमन्त्रित्वेन आनन्दीबेन

२०१४ तमस्य वर्षस्य ‘मई’-मासस्य एकविंशतितमे (२१/५/२०१४) दिनाङ्के गुजरातराज्यस्य राज्यपालः कमला बेनिवाल आनन्दीबेन इत्यनया मुख्यमन्त्रिपदस्य शपथम् अकारयत् [४] । २०१६ तमस्य वर्षस्य अगस्त-मासस्य प्रथमे दिनाङ्के (०१/०८/२०१६) फेसबुकमाध्यमेन <ref> https://www.youtube.com/watch?v=N87a86I8bBs <ref> त्यागपपत्राय निवेदनं कृतवती ।

सम्बद्धाः लेखाः

नरेन्द्र मोदी

नर्मदानदी

मुख्यमन्त्री

फलकम्:गुजरातराज्यस्य मुख्यमन्त्रिणः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

सन्दर्भाः

<references>

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=आनन्दीबेन_पटेल&oldid=3352" इत्यस्माद् प्रतिप्राप्तम्