आदित्यानामहं विष्णुः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचीर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य एकविंशतितमः(२१) श्लोकः ।

पदच्छेदः

आदित्यानाम् अहं विष्णुः ज्योतिषां रविः अंशुमान् मरीचीः मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥ २१ ॥

अन्वयः

अहम् आदित्यानां विष्णुः, ज्योतिषाम् अंशुमान् रविः, मरुतां मरीचिः अस्मि, नक्षत्राणाम् अहं शशी ।

शब्दार्थः

आदित्यानाम् = सूर्याणाम्
विष्णुः = विष्णुः
ज्योतिषाम् = प्रकाशयितॄणाम्
अंशुमान् = रश्मिमान्
रविः = सूर्यः
मरुताम् = मरुद्देवतानाम्
मरीचिः = मरीचिनामकः
अहम् अस्मि = अहं भवामि
नक्षत्राणाम् = नक्षत्राणाम्
शशी = चन्द्रः ।

अर्थः

अहं द्वादशादित्यानां मध्ये विष्णुनामकः आदित्यः अस्मि । प्रकाशयितॄणां मध्ये रश्मिमान् सूर्यः अस्मि। मरुद्देवतानां मध्ये मरीचिः अस्मि । नक्षत्राणां मध्ये चन्द्रः अस्मि।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः