आत्मौपम्येन सर्वत्र...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ३२ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य द्वात्रिंशत्तमः(३२) श्लोकः ।

पदच्छेदः

आत्मौपम्येन सर्वत्र समं पश्यति योः अर्जुन सुखं वा यदि वा दुःखं सः योगी परमः मतः ॥

अन्वयः

अर्जुन ! (तस्मात्) सुखं (भवतु) यदि वा (तस्मात्) दुःखं (तथापि) यः आत्मौपम्येन सर्वत्र समं पश्यति सः परमः योगी मतः ।

शब्दार्थः

अर्जुन = हे अर्जुन !

यः = यः पुरुषः

आत्मौपम्येन = स्वसादृशेन
सर्वत्र = सर्वेषु प्राणिषु
सुखं वा = (तस्मात्) आनन्दो वा भवतु
यदि वा = अथवा
दुःखम् = खेदः (तथापि)
समम् = समानम्
पश्यति = दृष्टिं पातयति
सः = सः पुरुषः
योगी = युक्तः
परमः = उत्तमः
मतः = अभिमतः ।

अर्थः

यदि कस्माच्चित् सुखं जायेत कस्माच्चित् दुःखं वा तथापि सर्वेऽपि एते मम समानाः इति मत्वा सर्वेषु अपि प्राणिषु यः समानताबुद्धिं धारयति सः उत्तमः योगी इति मम मतिः ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=आत्मौपम्येन_सर्वत्र...&oldid=3543" इत्यस्माद् प्रतिप्राप्तम्