आत्मारामः (वैज्ञानिकः)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox scientist डॉ. आत्मारामः (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) वैज्ञानिकी-औद्योगिकी-अनुसन्धानपरिषदः महानिदेशकपदं १९६६ तमस्य वर्षस्य अगस्त-मासस्य एकविंशे (२१/८/१९६६) दिनाङ्के व्यभूषयत्। महानिदेशकः सन् सः भारतसर्वकारस्य शिक्षामन्त्रालयस्य वैज्ञानिकसचिवोऽपि आसीत्। डॉ. आत्मारामः कोलकाता-महानगरस्य काच-सिरेमिक-अनुसन्धासंस्थानस्य निदेशकत्वेन दायित्वम् अवहत्।

जन्म, परिवारश्च

१९०८ तमस्य वर्षस्य अक्तूबर-मासस्य द्वादशे (१२/१०/१९०८) [१] दिनाङ्के उत्तरप्रदेशराज्यस्य बिजनौरमण्डलस्य पिलाना-ग्रामे आत्मारामस्य जन्म अभवत्। तस्य पिता भगवानदास बन्सल लेखपालः (Accountant) आसीत्। भगवानदासस्य निर्धनतायाः विषये दुर्गाप्रसादः अलिखत्, "लेखपालस्य (Accountant) गृहे प्राप्तजन्मा आत्मारामः, स्वबाल्ये निर्धनतायाः वातावरणे विकसितः। तस्य पिता भगवानदासः स्ववृत्तिं प्रामाणिकतया करोति स्म" इति। भगवानदासः पिलाना-प्राथमिकशालायाः शिक्षकः आसीत्। तस्य परिश्रमेण ग्रामे बृहद्भवनस्य निर्माणम् अभवत्। अतः भगवानदासः समग्रे ग्रामे, ग्रामं परितः च "शिक्षणपिता" इति प्रसिद्धः। ततः भगवानदासः ग्रामे कञ्चन आपणं चालयति स्म। आत्मारामस्य मातुः निधनम् अल्पवयसि अभवत्। तयोः त्रयः पुत्राः आसन्। आत्मारामः भगवानदासस्य द्वितीयः पुत्रः आसीत्। आत्मारामस्य अग्रजायाः नाम जयादेवी आसीत्। आत्मारामस्य पत्न्याः नाम सीतादेवी आसीत्।

प्राथमिकशिक्षणम्

आत्मारामस्य प्राथमिकशिक्षणं पिलाना-ग्रामस्य सर्वकारीयशालायाम् अभवत्। प्राथमिकशालायाम् आत्मारामस्य द्वे मित्रे आस्ताम्। हरस्वरूपः (अग्रेऽपि सः आत्मारामस्य सहपाठी अभवत्।), शिवदयाल-पाठकश्च। १९२२ तमे वर्षे चन्दपुरस्य शालायाः त्रयोदशवर्षीयः आत्मारामः मातृभाषापरीक्षां विशेषयोग्यतया (distinction) सह उदतरत्। परन्तु अग्रे पठितुम् आत्मारामस्य पार्श्वे अवसरः नासीत्। यतो हि त्रयोदशवर्षीयः बालकः सामान्यप्रशिक्षणपाठ्यक्रमस्य कृते अल्पवयस्कः आसीत्। तस्मै अभ्यासक्रमाय न्यूनातिन्यूनम् अष्टादशवर्षात्मिकं वयः अनिवार्यम् आसीत्। अतः भगवानदासः आत्मारामं माध्यमिकशिक्षणाय बिजनौर-नगरं प्रैषयत्।

माध्यमिकशिक्षणम्

माध्यमिकशिक्षणाय बिजनौर-नगरं प्राप्तः आत्मारामः जयादेव्याः गृहे निवसति स्म। जयादेवी आत्मारामस्य अग्रजा आसीत्। जयादेवी विधवा आसीत्, तथा च तस्याः सन्ततिः अपि नासीत्। अतः आत्मारामं भगवानदासः तत्र प्रैषयत् इत्यपि अपरं कारणम्। आत्मारामस्य भाग्योदयस्य आरम्भः बिजनौर-नगरं प्राप्य प्रप्रथमे दिने एव अभवत्। यस्मिन् दिने सः स्वाग्रजायाः गृहं प्राप्नोत्, तस्मिन् दिने एव गृहे कश्चन जनः उपस्थितः आसीत्। सः जनः अवदत्, समीपे कुत्रचित् कश्चन शिक्षकः अस्ति, यः स्वशालायां वर्षद्वयाभ्यान्तरे छात्रान् माध्यमिकपरीक्षायै प्रशिक्षितान् करोति इति।

तस्य जनस्य कथनानुसारं पितापुत्रौ तस्य शिक्षकस्य सम्पर्कं कर्तुं निर्गतवन्तौ। बिजनौर-नगरस्य बहिः एका धर्मशाला आसीत्। तस्याः धर्मशालायाः समीपे कश्चन भग्नावशेषः (खंडहर, ruins) आसीत्। तत्र शालायाः अवशेषः अपि न दरीदृश्यते स्म। अनेकान् स्थानीयजनान् तौ शालायाः, शिक्षकस्य च विषये अपृच्छताम्। परन्तु न कोऽपि तस्याः शालायाः विषये उत तस्य शिक्षकस्य विषये जानाति स्म। निराशौ तौ यदा प्रतिगन्तुम् उद्युक्तौ, तदा तौ एकं जनम् अपश्यताम्। सः जनः एकस्मिन् जीर्णकुटङ्के (roof) स्थितः आसीत्। सः जनः एव शिक्षकः आसीत्। तौ द्वौ तेन सह अमिलताम्। भगवानदासः तम् अकथयत्, मम पुत्रः माध्यमिकपरीक्षायाम् उत्तीर्णः अस्ति। कश्चन जनः आवाम् अकथयत् यत्, भवान् उच्चतरमाध्यमिककक्षायै छात्रान् पाठयतीति। शिक्षकः प्रत्युदतरत्, एतावता एकोऽपि छात्रः तां परीक्षाम् उत्तरितुं क्षमः नाभूत्। परन्तु यदि भवान् चिन्तयति यत्, भवतः पुत्रः मेधावी अस्ति, तर्हि भवान् प्रयासं कर्तुं शक्नोति। शिक्षकस्य उत्तरेण भगवानदासः स्तब्धः अभवत्। कञ्चित् समयं यावत् न कोऽपि किमपि अवदत्। ततः सः शिक्षकः अवदत्, शाला सप्तवादने आरभ्यते। अहं द्वे रूप्यके पारिश्रमिकं नेष्यामि। यदि भवतः पुत्रः आगन्तुम् इच्छति, तर्हि तेन 'King Reader' इत्याख्यं पुस्तकं नीत्वा प्रातःकाले आगन्तव्यम्। तेन सह सः श्वेतकर्गदस्य टिप्पणीपुस्तकम् अपि आनयेत् इति।

शिक्षकस्य वचनं श्रुतवन्तौ पितापुत्रौ गृहमागत्यापि शालाप्रवेशस्य विषये कामपि चर्चां नाकुरुताम्। परन्तु रात्रौ शय्यायां पितापुत्रौ शिक्षकस्य कथनविषये परस्परं परामृशताम्। ततः भगवानदासः आत्मारामम् अपृच्छत्, "शिक्षकः यत्किमपि उक्तवान्, तस्य विषये तव कः परामर्शः ?" इति। आत्मारामः उदतरत्, अहं कदाचित् वर्षद्वये उत्तीर्णः न भविष्यामि, किन्तु वर्षत्रये उत्तीर्णो भविष्यामि चेदपि मम द्वे वर्षे रक्षिते भविष्यतः इति। यतो हि तस्मिन् काले उच्चतरमाध्यमिकस्तरस्य परीक्षायै पञ्चवर्षाणि अपक्ष्यन्ते स्म। द्वितीये दिने यथासमयम् आत्मारामः द्वे रूप्यके, पुस्तकं, टिप्पणीपुस्तिकां च नीत्वा शालाम् अगच्छत्।

कानिचन दिनानि शालायां अतीतानि आत्मारामस्य। एकस्मिन् दिने यदा भाषाचयनस्य प्रिक्रिया आरब्धा, तदा आत्मारामः हिन्दीभाषाम् अचिनोत्। अपरौ द्वौ छात्रौ ऊर्दूभाषाम् अचिन्वताम्। एकस्यां कक्षायां छात्राणां चयनवैभिन्न्येन पाठनप्रक्रिया क्लिष्टा भविष्यतीति विचिन्त्य शिक्षकः आत्मारामम् ऊर्दूभाषायां किमपि लेखितुम् आदिशत्। यतो हि आत्मारामः प्राथमिककक्षायाम् ऊर्दूभाषाम् अधीतवान् आसीत्। आत्मारामः किञ्चित् लिखित्वा यदा शिक्षकं प्रादर्शयत्, तदा शिक्षकः आत्मारामम् ऊर्दूभाषां चेतुम् अवदत्। यतः आत्मारामेण ऊर्दूभाषया यल्लिखितम् आसीत्, तद् अति सुष्ठु आसीत्। परन्तु आत्मारामः संस्कृतं पठितुम् इच्छति स्म। अतः सः समीपस्थं संस्कृतपण्डितं पाठयितुं न्यवेदयत्। परन्तु सः पण्डितः आत्मारम् अवदत्, "स्वल्पे काले संस्कृतस्य व्याकरणं पठितुं न शक्यते। संस्कृतभाषायाः व्याकरणं क्लिष्टं भवती"ति। ततः आत्मारामः पर्शियन्-भाषाम्, ऊर्दूभाषां च पठितुं विवशः अभवत्।

आत्मारामस्य शालायां केलवं चत्वारः छात्राः आसन्। स्वयम् आत्मारामः, शिवदलायसिंहः, आनन्दस्वरूपः, मसूद अहमद् च। एकवर्षं यावत् आत्मारामः तस्यां शालायाम् ऊर्दूभाषाम् अपठत्। मध्यावकाशोत्तरं यदा आत्मारामः शालां प्रत्यगच्छत्, तदा तेन ज्ञातं यत्, अन्ये त्रयः छात्राः उच्चतरमाध्यमिकशालायां प्रवेशं प्रापन् इति। अतः शिक्षकस्य शालायां केलवम् आत्मारामः एकाकी छात्रः अवशिष्टः। एकस्य छात्रस्य कृते अधिकं समयं व्ययीकर्तुं शिक्षकः अक्षमः आसीत्। अतः सः आत्मारामम् उच्चतरमाध्यमिकशालां प्रेवेष्टुं परामर्शयत्। परन्तु आत्मारामः तथा कर्तुं निराकरोत्। अपरत्र शिक्षकः अपि पाठयितुम् असमर्थः आसीत्। परन्तु आत्मारामस्य निश्चयं दृष्ट्वा सः अवदत्, "आत्माराम ! तव कृते अहं प्रातः षड् वादने, सायं चतुर्वादने च समयं दातुं शक्नोमि" इति। तदा आत्मारामः एकाकी आसीत्, अतः हिन्दीभाषायाः अध्यापने शिक्षकः अपि तत्परः आसीत्। परन्तु सः हिन्दीभाषां पाठयितुम् अधिकपारिश्रमिकस्य याचनाम् अकरोत्। शिक्षकस्य प्रस्तावम् आत्मारामः सहर्षम् अङ्ग्यकरोत्। तेन स्वगृहव्ययात् शिक्षकाय पारिश्रमिकस्य व्यवस्था कृता। ततः सः प्रतिदिनं द्वे होरे हिन्दीभाषां पठति स्म। यतः आत्मारामः दिनस्य प्रथमे प्रहरे एव शालां गच्छति स्म। अतः शीतकाले मार्गं द्रष्टुं कन्दिलं (lantern) नीत्वा गच्छति स्म। हिन्दीभाषायाः अध्ययने केचन मासाः एव व्यतीताः। ततः शालायां अन्ये त्रयः छात्राः प्रविष्टवन्तः। ते सर्वे यवनाः आसन्। तेषां सर्वेषां भाषा ऊर्दू उत पर्शियन् आसीत्। परन्तु दृढनिश्चयी आत्मारामः स्वभाषां द्वितीयवारं न पर्यवर्तयत्। ततः आत्मारामः, तस्य हुसैन इत्याख्यः सहपाठी च वाराणसीं परीक्षां दातुं गतवन्तौ। हुसैन इत्येषः पर्शियन्-भाषायाम् अनुत्तीर्णः अभवत्। तस्यां परीक्षायां द्वितीयश्रेण्या आत्मारामः उत्तीर्णः अभवत्।

एवं १९२४ तमे वर्षे बनारसहिन्दुविश्वविद्यालयात् आत्मारामः मैट्रिक्युलेशन्-परीक्षायाम् उत्तीर्णः अभवत्। पञ्चदशवर्षीयः आत्मारामः स्वस्य जीवनस्य त्रीणि वर्षाणि अरक्षत्। यस्यां शालायाम् आत्मारामः पठति स्म, तस्याः शालायाः शिक्षकं यदा कश्चन हिन्दीसमाचारपत्रं पठित्वा अवदत्, "पिलाना-ग्रामस्य कश्चन बालकः मैट्रिक्युलेशन-परीक्षायाम् उत्तीर्णः अभवदि"ति, तदा सः शिक्षकः अत्युत्साही अभवत्। भग्नावशेषे पाठ्यमानः सः शिक्षकः नगरे चर्चायाः विषयः आसीत्। तस्य प्रसिद्धिः अवर्धत। समाचारपत्रेषु, भित्तिपत्रेषु (poster) च सर्वत्र आत्मारामस्य सफलतायाः वार्ताः आसन्।

आत्मारामः स्वसफलतायाः समाचारं यदा प्रापत्, तदा सः बिजनौर-नगरे आसीत्। स्वपितुः आशीर्वादं स्वीकर्तुम् आत्मारामः ब्राह्ममुहूर्ते उत्थाय पिलना-ग्रामं प्रति पद्भ्यां यात्राम् आरभत। ६ माइल् दूरे स्थितं पिलाना-ग्रामं मध्याह्नकाले प्राप्य आत्मारामः स्वसफलतायाः सूचनां स्वपित्रे अयच्छत्। भगवानदासः पुत्रस्य सफलतायाम् आनन्दितः आसीत्। सः पौनःपुन्येन आत्मारामस्य पृष्ठे हस्तं स्थापयित्वा तस्मिन् स्निह्यति स्म। स्वोच्चमाध्यमिकस्तरीयाभ्यासस्य साफल्यानन्तरम् आत्मारामः उच्चशिक्षणाय चिन्तनम् आरभत।

उच्चशिक्षणम्

आत्मारामस्य सफलतायाः अनन्तरं यदा तस्य उच्चिशिक्षणस्य चर्चा आरब्धा, तदा भगवानदासः बनारसहिन्दुविश्वविद्यालयस्य नाम प्रास्तौत्। यतो हि बनारसविश्वविद्यालस्य ख्यातिः विश्वे विस्तृता। परन्तु आत्मारामस्य सम्मुखं धन-साधनानाम् अभावः आसीत्। अतः आत्मारामः पितुः प्रस्तावस्य विषये किमपि नावदत्। तस्मिन् काले बनारसविश्वविद्यालये पठनस्य व्ययः न्यूनातिन्यूनं त्रिंशत् उत पञ्चत्रिंशत् आसीत्। भगवानदासः अपि सत्यतायाः अवबोधने सति चिन्तितः अभवत्।

स्वपुत्रस्य बनारसविश्वविद्यालये प्रवेशं कारयितुं धनसङ्ग्रहस्य निर्णयं कुर्वन् भगवानदासः ग्रामेशम् (सरपंच) उपागच्छत्। तस्मात् पुरा कदापि भगवानदासः धनयाचनायै न गतवान् आसीत्। परन्तु तस्य प्रप्रथमः याचनावसरः एव दुःखदः असिध्यत्। ग्रामेशः भगवानदासम् अवदत्, "अरे भगवानदास ! त्वं बालवद् किमर्थं भाषसे ? कदापि त्वया श्रुतम् अस्ति यत्, अश्वाय पादत्राणस्य निर्माणं जातम् ? चरणः तु मण्डुकस्यापि वर्धते" इति। एतादृशैः उपालम्भपूर्णवचनैः अपमानितः भगवानदासः गृहम् अगच्छत्। तस्मिन् काले सः खेदं, दुःखं चान्वभवत्। परन्तु तम् उपालम्भं सः प्रतिस्पन्दत्वेन स्व्यकरोत्। यदा सः गृहं प्रविष्य समनन्तरमेव स्वपुत्रेण सह समीपस्थेन केनचन बालकेन सह मेलितुम् अगच्छत्। सः बालकः भगवानदासस्य गृहात् पञ्च माईल् दूरे निवसति स्म। उभौ पितापुत्रौ तस्य गृहम् गतवन्तौ।

सः बालकः बनारसविश्वविद्यालये पठन् आसीत्। आत्मारामस्य साहाय्यं कर्तुम् उद्युक्तः सः छात्रावासस्य प्रकोष्ठे निवसितुम् आत्मारामाय अवसरम् अयच्छत्। ततः सः तस्य विश्वविद्यालयस्य इण्टर-अभ्यासं प्रारभत। तस्मिन् वर्षे सः विश्वविद्यालस्य छात्रावासे निवस्य एव अध्ययनम् अकरोत्। छात्रावासे सुविधानाम् अभावे सति आत्मारामः स्वयमेव भोजनं पचति स्म। विद्युदादीनाम् अभावेनापि तस्य अध्ययनम् अति कष्टपूर्णम् आसीत्। तस्मिन् काले अधिकाः छात्राः विज्ञानं मुख्यविषयत्वेन न चिन्वन्ति स्म। विज्ञानविषयस्य प्राध्यापकानां, शिक्षकानां च आवश्यकता आसीत्, परन्तु तेषाम् अभावः अपि आसीत्।

आत्मारामः स्वयं भाषायाः छात्रः आसीत्। परन्तु उच्चशिक्षणाय मुख्यविषयस्य चयने सः किङ्कर्तव्याकर्तव्यमूढः आसीत्। तस्य मित्रस्य परामर्शेण आत्मारामेण विज्ञानविषयः मुख्यविषयत्वेन स्वीकृतः। तस्य परामर्शकमित्रेषु नायकचन्द्रः, रामचन्द्रः च मुख्यौ। ततः आत्मारामस्य विज्ञानाध्ययनम् आरब्धम्। एतावता आत्मारामेण कदापि विज्ञानस्य अध्यनयनं न कृतम् आसीत्। अपरञ्च स्वपाकः, आङ्ग्लभाषायाः अभावः इत्यादयः अनेकाः समस्याः अपि आसन्। मेट्रिक्-मध्ये प्रथमे वर्षे आत्मारामः अनुत्तीर्णः अभवत्। रसायन-भौतिकी-विज्ञानयोः शिक्षकाः उच्चस्तरीयाङ्ग्लभाषया पाठयन्ति स्म। गणितविषये अपि तथैव आसीत्। तस्मिन् वर्षे आत्मारामः रसायनशास्त्रे १२%, भौतिकशास्त्रे १०%, गणितविषये १८% च अलभत। स्वपरिणामं दृष्ट्वा आत्मारामस्य भानम् अभवत् यत्, विज्ञानाध्ययनं पयोहिमः नास्ति, यः सहजतया प्राप्यते। विज्ञानं पठितुम् अधिकः प्रयासः, परिश्रमश्च अपेक्ष्यते इति। तस्मिन् काले विद्यार्थिनः मध्यसत्रे स्वविषयं परिवर्तयितुं शक्नुवन्ति स्म। अतः तेन विषयपरिवर्तनस्य विकल्पः अपि आकलितः। सः पुनः पर्शियन्-भाषां पठितुम् अपि अकाङ्क्षत।

अत्यधिकचिन्तनानन्तरम् अन्ततो गत्वा आत्मारामेण विषयपरिवर्तनस्य आवेदनपत्रं पूरितम्। तत्पत्रं नीत्वा सः रसायनशास्त्राध्यक्षस्य कार्यालयं प्रैषयत्। आत्मारामः येन केन प्रकारेण विषयपरिवर्तनम् इच्छति स्म। अतः तेन स्वावदेनपत्रेण सह स्वप्राप्ताङ्कपत्रम् अपि योजितम् आसीत्। तस्य आशयः आसीत् यत्, यदि अहम् अल्पगुणप्राप्तेः कारणं प्रदर्शयिष्यामि, तर्हि शीघ्रं, निर्विघ्नं च विषयपरिवर्तनस्य अनुमोदनं प्राप्स्यामि इति। परन्तु परिणामः भिन्नः एवाभवत्। आत्मारामस्य विषयपरिवर्तनस्य आवेदनं दृष्ट्वा समनन्तरं रसायनविभागाध्यक्षः एम् बी राणे-महोदयः आत्मारामम् आह्वयत्। आत्मारामः यदा विभागाध्यक्षस्य प्रकोष्टं प्रविष्टवान्, तदा राणे-महोदयः प्रश्नम् अपृच्छत्, "रसायन-भौतिकशास्त्रयोः अपेक्षया गणितशास्त्रे अधिकाङ्कप्राप्तेः पृष्ठभुवि किं कारणम् अस्ति ?" इति। विभागाध्यक्षेण आङ्ग्लभाषया प्रश्नः कृतः आसीत्, परन्तु आत्मारामः हिन्दीभाषया प्रत्युदतरत्। आत्मारामः अवदत्, कदाचित् अहं विज्ञानसम्बद्धान् विषयान् ज्ञातुं न शक्तवान् इति। प्रो. राणे-महोदयः आश्चर्यचकितः आसीत् यत्, कश्चन विद्यार्थी गणितविषये योग्यरीत्या पठितुं शक्नोति, स एव छात्रः विज्ञानविषयेषु अनुत्तीर्णः कथं भवितुम् अर्हति ? इति। क्षणं विचिन्त्य सः स्वसहकर्मिणं प्रो. फूलदेव सहाय वर्मा-महोदयम् आह्वयत्। प्रो. राणे-महोदयः फूलदेव-महोदयेन सह काञ्चित् मन्त्रणाम् अकरोत्। ततः सः आत्मारामं फूलदेव-महोदयेन सह गन्तुम् आदिष्टवान्।

फूलदेव-महोदयस्य पृष्ठे पृष्टे चलन् आत्मारामः अचिन्तयत्, एषः प्राध्यापकः मह्यं विज्ञानविषयं परिवर्तयितुम् अनुमतिं दास्यति इति। एवं चिन्तयन् फूलदेव-महोदयस्य प्रकोष्टं प्रविष्टः आत्मारामः तूष्णीं स्थितः। परन्तु आत्मारामस्य चिन्तनानुसारं किमपि नाभवत्। प्रो. फूलदेवः आत्मारामम् अवदत्, त्वं नियमिततया व्याख्याने उपस्थितः न आसीः, अपि च तव पार्श्वे आश्यकपुस्तकानि न सन्ति इति। यतो हि आत्मारामः आगामिवर्षे पठितवतां छात्राणां पुस्तकानि स्वीकृत्य अध्ययनं करोति स्म। फूलदेव-महोदयः स्वोत्पीठिकायां स्थापितं रसायनशास्त्रस्य किञ्चित् पुस्तकम् आत्मारामं प्रादर्शयत्। फूलदेव-महोदयस्य विश्लेषणेन आत्मारामः अवगतवान् यत्, मम विषयपरिवर्तनस्य याचिका निरस्ता अभवदिति। फूलदेव-महोदयस्य सहिष्णुतया अपि सः परिचितः अभवत्। अतः सः फूलदेव-महोदयात् तत्पुस्तकम् अयाचत। अनुक्षणं फूलदेव-महोदयः तत्पुस्तकम् आत्मारामस्य हस्ते अस्थापयत्। सः अवदत्, एतत् पुस्तकं पठित्वा मां कथय इति।

कानिचन दिनानि पुस्तकं पठित्वा आत्मारामः फूलदेव-महोदयस्य समीपं गतः। यः बालकः विज्ञानविषयं प्रति अरुचिं नीत्वा प्रकोष्ठात् निर्गतः आसीत्, सः यदा पुनः प्रकोष्टं प्रविष्टः, तदा न केवलं तस्य अभिरुचौ वृद्धिः अभवत्, अपि तु तस्य बालकस्य आत्मविश्वासः अपि अवर्धत। आत्मारामस्य प्रयासैः सोऽपि अति प्रसन्नः अभवत्। ततः फूलदेव-महोदयस्य संसर्गेण आत्मारामस्य विज्ञानविषयात् भीतिः व्यपगता। आत्मारामेण पूर्णबलेन विज्ञानस्य अध्ययनं प्रारब्धम्। तस्मिन् वर्षे विषेशयोग्यतया सह आत्मारामः रसायनशास्त्रे उत्तीर्णः अभवत्। सर्वेऽपि आत्मारामस्य परिणामेन विस्मिताः आसन्।

आत्मारामः कुत्रचित् स्वविज्ञानाध्ययनस्य अनुभवम् अलिखत्, "यदा कदापि विज्ञानप्राध्यापकाः 'Gram of Water' इति वदन्ति स्म, तदा मम मनसि 'पानी के चने' इति बोधः समुद्भवति स्म। अतः प्रायोगिके अपि अहं किमपि विशेषं कर्तुं न शक्नोमि स्म। यतः अहं 'चणकम्' अन्विष्यामि स्म। प्रायोगिके किमपि अकृतः अहं प्रो. तिवारी-महोदयात् बहुधा भर्त्सनां प्राप्नवम्। ततः एकस्मिन् दिने यदा प्रो. प्रतुल घोष-महोदयः ऊष्माभारस्य विषये अध्यापयन् आसीत्, तदा मया ज्ञातं यत्, 'Gram' इति परिमाणविशेषसंज्ञा अस्ति। ततः अहं स्वमूढतायाः उपरि अट्टहास्यम् अकरवम्" इति।

१९२६ तमे वर्षे आत्मारामः इण्टर-परीक्षायाम् उत्तीर्णो भूत्वा तस्मिन्नेव वर्षे बी एस सी-अभ्यासम् आरभत [२]। बी एस सी-अभ्यासं सः कानपुर-महानगरस्य डि ए वी-महाविद्यालयात् अकरोत्। तस्य महाविद्यालयस्य आचार्यः लाला दिवान चन्द इत्येषः आसीत्। तस्मिन् विद्यालये पठितुम् आत्मारामः द्वे छात्रवृत्ती अलभत। द्वयोः छात्रवृत्योः धनम् आहत्य पञ्चविंशतिरूप्यकाणि भवति स्म। बी एस् सी-मध्ये प्रप्रथमवर्षस्य परीक्षायाम् आत्मारामः सारल्येन उत्तीर्णः अभवत्। यतः सः विशेषवर्गे (Tuition) अपि पठितुं गच्छति स्म। प्रथमवर्षस्य सफलतायाः अनन्तरम् आत्मारामः द्वितीये वर्षे विशेषवर्गम् अत्यजत्। यतो हि सः अचिन्तयत्, विज्ञानाध्ययनं परिश्रमप्रतीकं वर्तते। अतः अहम् अपरे वर्षे विशेषवर्गम् अगत्वा स्वपरिश्रमेण अध्ययनं करिष्ये इति। ततः सः विषयमग्नः सन् चिरकालं पठति स्म। अनेकेषां होराणां दीर्घाध्ययनेन सः गभीरतया अस्वस्थः अभवत्। १९२८ तमे वर्षे बी एस् सी-अभ्यासक्रमस्य अन्तिमसत्रे सः द्वितीयश्रेण्या उत्तीर्णः अभवत्। आत्मारामः स्वपरिणामेन यावान् उदासी आसीत्, तावानेव महाविद्यालयस्य प्राचार्यः लाला दिवान चन्द-महोदयः आसीत्।

प्रथमे सत्रे योग्याङ्कान् प्राप्तः आत्मारामः एम् एस् सि-अभ्यासक्रमाय अत्युत्साही आसीत्। परन्तु द्वितीयसत्रस्य परिणामेन आत्मारामस्य भविष्यम् अस्थिरम् अभवत्। यद्यपि तस्य पर्याप्ताङ्काः नासन्, तथापि सः एम एस सि-अभ्यासं कर्तुं सज्जः अभवत्। आत्मारामः यदा कानपुर-नगरात् इलाहाबाद-नगरं गच्छति स्म, तदा रेल-स्थानके तस्य सम्पर्कः जमनलाल शर्मा-महोदयेन सह अभवत्। सः एम एस् सी-पदव्यै पठितुम् इलाहाबाद-विश्वविद्यालयं गच्छन् आसीत्। आत्मारामः तेन सह तस्य प्रकोष्ठे स्वस्यूतादि अस्थापयत्।

इलाहाबाद-विश्वविद्यालये प्रवेशः

बिजनौर-नगरात् निर्गतः आत्मारामः डि ए वी-महाविद्यालस्य प्राचार्यस्य लाला दिवान चन्द इत्येतस्य महोदयस्य आश्वासनं प्राप्य निर्गतः आसीत्। चन्द-महोदयस्य डॉ. मेघनादेन, डॉ. नीलरत्नेन च सह व्यक्तिगतसम्बन्धः आसीत्। अतः सः तौ इलाहाबाद-विश्वविद्यालयस्य प्राध्यापकौ प्रति आत्मारामस्य कृते अनुशंसापत्रं (recommendation) प्रैषयत्। यतो हि बी एस् सी-पदव्याः अन्तिमे सत्रे आत्मारामस्य प्राप्ताङ्काः पर्याप्ताः नासन्। परन्तु इलाहाबाद-विश्वविद्यालयस्य शुल्कग्रहणकार्यलयात् यदा आत्मारामः अजानत् यत्, तस्य नाम प्रवेशार्हछात्रेषु नास्ति, तदा आत्मारामः निराशः अभवत्।

यतो हि इलाहाबाद-विश्वविद्यालये आत्मारामः प्रवेशं नालभत, अतः सः इलाहाबाद-विश्वविद्यालयस्य प्राध्यापकस्य नीलरत्न-महोदस्य कक्षायाः बहिः स्थित्वा व्याख्यानम् अशृणोत्। नीलरत्न-महोदस्य व्याख्यानेन आत्मारामः अत्यन्तप्रभावितः आसीत्। तेन स्वजीवने एतावान् प्रतिभाशाली, वाक्पटुः, विद्यावान् प्राध्यापकः न दृष्टः आसीत्। तस्मिन् काले तेन अनुभूतं यत्, तस्य जीवनस्य अतिमहत्त्वपूर्णः अवसरः व्यपगतः इति। दुःखितमनसा सः इलाहाबाद-नगरात् प्रति गन्तुम् उद्युक्तः। परन्तु नीलरत्न-महोदायात् प्रभावितः आत्मारामः तेन सह मेलितुम् इच्छति स्म। अतः द्वितीये दिने रविवासरे आत्मारामः बेलि-मार्गस्थितं श्रीनीलरत्नस्य गृहम् अगच्छत्।

प्रातःकाले श्रीनीलरत्नस्य गृहं प्राप्य आत्मारामः द्वारशब्दम् (knock) अकरोत्। श्रीनीलरत्नस्य अनुजः द्वारम् उदघाटयत्। तदा आत्मारामः सम्मुखे स्थितं धौतवस्त्रधारिणं श्रीनीलरत्नम् अपश्यत्। ततः श्रीनीलरत्नः आत्मारामं समीपे स्थानं स्वीकर्तुम् अकथयत्। श्रीनीलरत्नः अवदत्, भोः ! अहं न जाने त्वं कः ? इति। इलाहाबाद-नगरस्य त्यागात् प्रागहं भवतः दर्शनं कृत्वा कृतज्ञतां पाठयितुम् इच्छामि स्म। अतः अत्र उपस्थितोऽस्म्यहम् इति आत्मारामः पत्युदतरत्। श्रीनीलरत्नः किमपि वदेत् तस्मात् प्रागेव आत्मारामः विनम्रतायुक्तेन स्वरेण अवदत्, भवतः ह्यस्तनं व्याख्यानं मह्यम् अतीव अरोचत इति।

आत्मारामः मां प्रभावितं कर्तुम् अनुशंसां कुर्वन् अस्ति इति विचिन्त्य श्रीनीलरत्नः आत्मारामम् अकथयत्, मम व्याख्याने तुभ्यं किम् अत्यधिकम् अरोचत ? इति कथय। प्राध्यपकस्य प्रश्नस्य उत्तरं यच्छन् आत्मारामः सम्पूर्णस्य व्याख्यानस्य सारं, मुख्यांशान् च विस्तारेण अवदत्। आत्मारामेण प्रभावितः श्रीनीलरत्नः अपृच्छत्, त्वं तु कक्षायां नासीत्, तर्हि त्वया मम व्याख्यानं कथं श्रुतम् ? इति। अहं प्रकोष्टस्य समीपे या सोपानशृङ्खला अस्ति, तत्र स्थित्वा अशृणवम् इति आत्मारामः अकथयत्। आत्मारामस्य उत्तरं श्रुत्वा स्तब्धः श्रीनीलरत्नः किञ्चित् गहनचिन्तने मग्नः अभवत्। त्वं श्वः गमनात् प्राक् प्रयोगशालाम् आगत्य मया सह मिलतु इत्युक्तवा सः स्वानुजम् आत्मारामाय अल्पाहारं दातुम् आदिष्टवान्।

रविवासरे जातस्य सम्पर्कस्यानन्तरम् आत्मारामः अचिन्तयत्, अनेन सम्पर्केण किमपि शुभं भविष्यतीति। यतः श्रीनीलरत्नः स्वगृहम् आगतेभ्यः सर्वेभ्यः तु मधुरं न यच्छेत्। ततः द्वितीयदिने सोमवासरे आत्मारामः प्रयोगशालां गत्वा श्रीनीलरत्नेन सह अमिलत्। तस्मिन् काले प्रयोगशालायां के पि चेटर्जी-महोदयः उपस्थितः आसीत्। सः इलाहाबाद-विश्वविद्यालये केतुबाबू इति प्रसिद्धः आसीत्। आत्मारामस्य विषये श्रीनीलरत्नः चेटर्जी-महोदयेन सह सम्भाषणम् अकरोत्। ततः चेटर्जी-महोदयः आत्मारामं शुभसमाचारम् अश्रावयत्, तव प्रवेशः निश्चितः अभवत् इति। तस्य महोदयस्य वचनं श्रुत्वा आत्मारामस्य आनन्दः सीमातीतः अभवत्। श्रीनीलरत्नमहोदयः आत्मारामाय किञ्चन पत्रं दत्त्वा कुलसचिवाय (registrar) दातुम् अकथयत्। ईश्वरं प्रति कृतज्ञतां पाठयन् आत्मारामः एतस्य प्रसङ्गस्य सन्दर्भे गोस्वामितुलसीदासस्य चौपाई उदलिखत्,

अर्थात्, तुलसी कथयति, यदि कोऽपि ईश्वरस्य साहाय्ययोग्यः अस्ति, तथा च ईश्वरः स्वयं साहाय्यार्थम् आगन्तुं शक्नोति, तर्हि ईश्वरः तं जनं सहायकस्य पार्श्वे प्रेषयति इति।

इलाहाबाद-विश्वविद्यालये प्रवेशं प्राप्य आत्मारामः हिन्दुछात्रालये निवसति स्म। तत्रापि आत्मारामः स्वपाकी आसीत्। स्वार्थिकशक्तिं वर्धयितुं सः बालकेभ्यः विशेषवर्गान् यच्छति स्म। १९३१ तमे वर्षे इलाहाबाद-विश्वविद्यालात् प्रथमश्रेण्या उत्तीर्णः आत्मारामः विश्वविद्यालये प्रप्रथमः आसीत्। आत्मारामस्य सफलतायाः समग्रे विश्वविद्यालये श्रीनीलरत्नस्य प्रशंसा भवति स्म। यतो हि तस्मिन् स्थिता विद्यार्थिनिरीक्षणक्षमता एव आत्मारामस्य विश्वविद्यालये प्रवेशं निश्चितम् अकरोत्। आत्मरामस्य विस्मयकारिणीं सिद्धिं दृष्ट्वा श्रीनीलरत्नः स्वयमपि गर्वितः आसीत्।

आत्मारामः स्वजीवन्यां छात्रावासे घटितं कञ्चन प्रसङ्गं न्यरूपयत्, "अहं हिन्दुछात्रालये निवसामि स्म। अहं स्वपाकी आसम्। एम एस् सी-मध्ये अन्तिमे वर्षे आसम् च। एकदा सायङ्काले प्रो. नीलरत्नः छात्रालयम् आगत्य मम प्रकोष्ठं प्रविष्टः। सः समयः अविस्मरणीयः, अविशिष्टश्च आसीत्। यतः उत्तमः, प्रसिद्धः वैज्ञानिकः प्रो. नीलरत्न धर-महोदयः कस्यचित् सामान्यबालकस्य प्रकोष्ठे आसीत्। अहं पचने व्यस्तः आसम्। प्रकोष्ठं प्रविष्य सः प्रेम्णा, अनुरागेण च अवदत्, इतःपरं त्वं स्वभोजनं न पक्ष्यसि इति। एवं वदन् सः सम्पूर्णे प्रकोष्ठे इतस्ततः अपश्यत्। ततः सहसा सः स्वकोषात् द्वयोः मासयोः भोजनालयस्य व्ययं मे दातुम् उद्युक्तः। एतादृशस्य महतः जनस्य कथनं निराकर्तुं मयि सामर्थ्यं नासीत्। अतः अहं सहर्षं तद्धनं स्व्यकरवम्। ततः श्रीनीलरत्नः प्रकोष्ठं, तत्र स्थितानि पुस्तकानि च अपश्यत्। तेन मम टिप्पणीपुस्तिका अपि पठिता। ततः सः आनन्दितः सन् छात्रालयात् निर्गतः। अहं तस्य अनितरसाधारणया सहानुभूत्या अभिभूतः अभवम्। तस्य प्रसङ्गस्यानन्तरम् अद्य पञ्च दशकानि व्यतीतानि, तथापि सः प्रसङ्गः सुस्पष्टतया, प्रत्यक्षतया च मे मनसि उत्कीर्णितः अस्ति" इति।

ततः रसायनविदः डॉ. श्रीनीलरत्नस्य साहाय्येन आत्मारामः अनुसन्धानछात्रावृत्तिं प्राप्नोत्। तस्मिन् अनुसन्धाने आत्मारामः चित्र-रसायनक्रियाणाम् अध्ययनम् अकरोत्। तस्य अनुसन्धासस्य परिसमाप्तौ आत्मारामः १९३६ तमे वर्षे विद्यावाचस्पतिः (Ph.d) अभवत्। प्रकाशरासायनिकप्रतिक्रियायाः सिद्धान्तस्य साफल्यात् आत्मारामः विद्यावाचस्पतिपदवीम् अलभत।

आत्मारामस्य विषये डॉ. नीलरत्न-महोदयः अलिखत्, "डी एस् सी-अध्ययनकाले आत्मारामः १०० रूप्यकाणि मासिकछात्रवृत्तिं प्राप्नोति स्म। तेषु रूप्यकेषु आत्मारामः केवलं सप्तरूप्यकाणि व्ययीकरोति स्म। शेषधनं सः स्वगृहं प्रेषयति स्म" इति।

विवाहः

तस्मिन् काले विवाहः किशोरावस्थायाम् एव भवति स्म। तथा आत्मारामस्यापि अभविष्यत्, परन्तु वरदक्षिणायाः विरोधी, आर्यसमाजानुयायी च भगवानदासः वारद्वयं विवाहप्रस्तावं निराकरोत्। यतो हि कन्यापक्षः वरदक्षिणां दातुं कटिबद्धः आसीत्। यदा आत्मारामः दशवर्षीयः आसीत्, तदा पिलाना-ग्रामस्य कश्चन जनः स्वपुत्र्यस्य कृते आत्मारामाय विवाहप्रस्तावं प्रैषयत्। ततः आत्मारामः यदा एम एस सी–मध्ये पठन् आसीत्, तदा कस्याश्चित् कन्यायाः विवाहप्रस्तावः आसीत्। ततः आत्मारामस्य कृते यदा तृतीयः विवाहप्रस्तावः सम्प्राप्तः, तदा तस्य विवाहः अभवत्।

आत्मारामस्य भगिनी देहल्यां निवसति स्म। एकदा काचित् कन्या मेट्रिक-परीक्षायै कानिचन दिनानि स्थातुं तस्याः गृहे निवसति स्म। तस्याः कन्यायाः माता स्वपुत्र्याः विवाहाय उत्सुका आसीत्। अतः सखिसम्मेलने सा स्वपुत्र्याः विवाहयोग्यतायाः विषयम् उपास्थापयत्। तस्मिन् काले प्रतिवेशिनी आत्मारामस्य भगिनीम् अवदत्, "एतस्याः कन्यायाः तव भ्रातुः आत्मारामस्य च विवाहं कारयतु" इति। आत्मारामः समये प्राप्ते स्वभगिन्याः गृहं गच्छति स्म। अतः प्रतिवेशिनः अपि आत्मारामस्य विषये जानन्ति स्म। परन्तु आत्मारामस्य भगिनी अवदत्, आत्मारामः विवाहाय सज्जः नास्ति इति। परन्तु ग्रीष्मकालीने अवकाशे एतादृशं विषयम् उपस्थापयितुं शक्नोम्यहम्। कन्यायाः माता अपि अवदत्, अहम् अपि ग्रीष्मकाले भवत्याः पितुः गृहम् आगत्य विवाहनिवेदनं कर्तुं तत्परा अस्मि इति। ततः ग्रीष्मकाले भगिनी, कन्यामाता च ग्रामं गत्वा भगवानदासेन सह मिलित्वा विवाहप्रस्तावम् उपास्थापयत्। परन्तु यदा भगवानदासः आत्मारामं विवाहविषये अकथयत्, तदा आत्मारामः निराकरोत्। तस्य तर्कः आसीत् यत्, मम पार्श्वे सद्यः वृत्तिः नास्ति। अहं यत् पठामि, तस्य कृते प्रतिमासं शतं रूप्यकाणि छात्रवृत्तिं प्राप्नोमि। तस्योपरि वैवाहिकव्ययं सोढुं न शक्नोम्यहम् इति।

ततः समये व्यतीते कन्यायाः भ्राता पुनः विवाहप्रस्तावं साक्षात् आत्मारामस्य सम्मुखम् उपास्थापयत्। आत्मारामः अवदत्, अहम् इतोऽपि पठन् अस्मि। मम पार्श्वे योग्यं गृहं नास्ति तथा च आजीविका अपि नास्ति। कन्यायाः भ्राता वाक्कीलः आसीत्। सः अवदत्, चिन्ता नास्ति। अधुना केवलं विवाहनिश्चितिं कुर्मः, ततः आजीवकायां सत्यां विवाहं करिष्यामः इति। तस्य तर्कस्य सम्मुखम् आत्मारामस्य पार्श्वे किमपि वक्तुं नासीत्। अतः सः अङ्ग्यकरोत्।

तस्मिन् काले विवाहात् प्राक् वरकन्ये परस्परं न पश्यतः स्म। परन्तु आत्मारामः आधुनिकविचारैः सम्पन्नः आसीत्। अतः तेन कन्यया सह चर्चायै प्रस्तावः कृतः। परन्तु कन्यापक्षात् सः प्रस्तावः निरस्तः अभवत्। आत्मारामः तेषां निर्णयस्य सम्माननं कृत्वा किमपि नावदत्। ततः आत्मारामः अजमेर-महाविद्यालये आजीविकाम् अलभत। परन्तु सा वृत्तिः मासचतुष्मिका एव आसीत्। तथापि कन्यापक्षस्य पौनःपुन्येन आग्रहे सति आत्मारामः १९३४ तमस्य वर्षस्य दिसम्बर-मासस्य षड्विंशे (२६/१२/१९३४) दिनाङ्के सीतीदेव्या सह विवाहबन्धनेन बद्धः [३]

भारतीयौद्योगिक्यनुसन्धानपरिषद्

१९३६ तमे वर्षे डॉ. आत्मारामः भारतीयौद्योगिकानुसन्धानसंस्थानम् अगच्छत्। तत्र तस्य परिचयः डॉ. मेघनादेन, डॉ. शान्तिस्वरूपेण च सह अभवत्। तादृशैः अनेकैः मूर्धन्यवैज्ञानिकैः सह कार्यं कृत्वा डॉ. आत्मारामस्य जीवनेऽपि अनेकानि प्रोत्साहकानि परिवर्तनानि अभूवन्। १९३७ तमे वर्षे डॉ. मेघनादः सुभाष-आख्यं क्रान्तिकारिणं स्वसमितौ कार्यं कर्तुम् आह्वयत्। परन्तु सुभाषमहोदयेन उक्तम्, अधुना अहं केवलं स्वतन्त्रतायै चिन्तयामि। अतः अहम् एतादृशेषु कार्येषु सक्रियः भवितुं न शक्नोमि इति। ततः डॉ. मेघनादः आत्मारामं स्वप्रकोष्ठम् आवह्वयत्। डॉ. मेघनादः अति क्रुद्धः आसीत्। आत्मारामः यदा तस्य प्रकोष्ठं प्रविष्टः, तदा डॉ. मेघनादः क्रोधावेशेन अवदत्, अस्माकं देशस्य विद्यावन्तः जनाः "चरखा", "खद्दर" इत्येते अतिरिच्य किमपि न चिन्तयन्ति इति।

डॉ. बी एन् अडारकार-महोदयेन 'If War Comes' इत्याख्यं पुस्तकं लिखितम् आसीत्। तस्य पुस्तकस्य प्रस्तावना डॉ. मेघनादेन लिखिता। सा प्रस्तावना अति महत्त्वपूर्णा आसीत्। आत्मारामः अपि तत् पुस्तकं पठन् आसीत्, अतः यदा डॉ. मेघनादः आत्मारामेण सह चर्चयन् आसीत्, तदा आत्मारामः तस्मै परामर्शम् अयच्छत्। आत्मारामः अवदत्, महोदय ! भवता सः (सुभाष बाबु) प्रष्टव्यः आसीत् यत्, 'If Freedom Comes' इति। उक्तपरामर्शस्य पृष्ठे आत्मारामस्य आशयः आसीत् यत्, खादि-इत्यादिकम् अपि आवश्यकम् अस्ति। आत्मारामः स्वयमपि खादि-वस्त्रधारी आसीत्। आत्मारामस्य वचनं श्रुत्वा डॉ. मेघनादस्य क्रोधः शान्तः अभवत्। ततः द्वयोः दिनयोः मध्ये डॉ. मेघनादः आत्मारेण सह सुभाषमहोदयेन सह मेलितुम् अगच्छत्। तस्मिन् दिने डॉ. मेघनादः सुभाषमहोदयम् अपृच्छत्, यदि श्वः स्वतन्त्रतायाः उद्घोषणा भविष्यति, तर्हि भवान् किं करिष्यति ? इति। डॉ. मेघनादस्य प्रश्नं श्रुत्वा सुभाषमहोदयः प्रफुल्लितः अभवत्। ततः डॉ. मेघनादः तस्य सम्मुखम् अनेकान् प्रश्नान् अस्थापयत्। सः अपृच्छत्, यदि श्वः स्वतन्त्रतायाः घोषणा भवति, तर्हि

१. कति वस्त्राणि आवश्यकानि भविष्यन्ति ?

२. कियती भोज्यसामग्री अपेक्षिष्यते ?

३. कति गृहाणि अपेक्षिष्यन्ते ? इति।

ततः डॉ. मेघनादः ‘मम साहाय्यं करोतु’ इति पुनः सुभाषमहोदयं न्यवेदयत्। सुभाषमहोदयः प्रत्यपृच्छत्, तर्हि किं करणीयं भविष्यति ? इति। डॉ. मेघनादः उदतरत्, कॉङ्ग्रेस-पक्षः स्वतन्त्रतायाः प्राक् राज्यनीतेः परिकल्पनां चिन्तयेत् इति। डॉ. मेघनादस्य परामर्शेण सुभाषमहोदयः अत्यन्तं प्रभावितः अभवत्। सः राष्ट्रिययोजनासमितेः स्थापनायै सम्मतः अभवत्। परन्तु डॉ. मेघनादस्य कल्पनायाः प्रत्यक्षता १९४५ तमे वर्षे अभवत्। तस्मिन् वर्षे इलाहाबाद-कारागारात् मुक्तः पण्डितः राष्ट्रिययोजनासमितिविषये चर्चां कर्तुं डॉ. मेघनादम् आह्वयत्। डॉ. मेघनादः आत्मारामेण सह पण्डितेन सह मेलितुम् अगच्छत्। भारतस्वातन्त्र्यात् पूर्वं कॉङ्ग्रेस-दलः राष्ट्रिययोजनासमितेः दायित्वं डॉ मेघनादाय अयच्छत्। तेषां गोष्ठ्याः पूर्वमेव आत्मारामः 'सेन्ट्रल् ग्लास् एड् सिरामिक रिसर्च् इन्स्टिट्यूट्' इत्यस्याः संस्थायाः अधिकारित्वेन नियुक्तः आसीत्। तस्मिन् काले आत्मारामस्य पण्डितेन सह प्रप्रथमवारं सम्पर्कः अभवत्।

सेन्ट्रल् ग्लास् एण्ड् सिरामिक् रिसर्च् इन्सिट्युट्

भारतीयौद्योगिक्यनुसन्धानपरिषदः शासी-सभायाः अध्यक्षः डॉ. शान्तिस्वरूपः आसीत्। सः कोलकाता—महागरे काचस्य एवं मृत्तिकायाः अनुसंधानकेन्द्रं स्थापयितुम् इच्छति स्म। अतः डॉ. शान्तिस्वरूपः तस्य केन्द्रस्य दायित्वं डॉ. आत्मारामाय अच्छत्। १९४४ तमे वर्षे केन्द्रियकाच-एवं-सिरामिक-अनुसन्धानकेन्द्रस्य स्थापनायै निर्णयः अभवत्। तस्य केन्द्रियकाच-एवं-सिरामिक-अनुसन्धानकेन्द्रस्य स्थापनायाः दायित्वं डॉ. आत्मारामस्य आसीत्। तस्मिन् काले द्वितीयं विश्वयुद्धं जायमानम् आसीत्। अतः तदा युद्धोपयोगिनां वस्तूनां संशोधनं बाहुल्येन भवति स्म। डॉ. आत्मारामेणापि अनेकेषां अग्निशामकपदार्थानां संशोधनं कृतम्।

१९४४ तमात् वर्षात् केन्द्रियकाच-एवं-सिरामिक-अनुसन्धानकेन्द्रस्य स्थापनायै आरब्धपरिश्रमा डॉ. आत्मारामः १९४५ तमे वर्षे तस्य अनुसन्धानकेन्द्रस्य अधिकारित्वेन नियुक्तः अभवत्। अनुसन्धानकेन्द्रस्य निर्माणादिकार्यं तस्मिन् वर्षे पूर्णे सति १९४५ तमस्य वर्षस्य दिसम्बर-मासस्य चतुर्विंशे (२४/१२/१९४५) दिनाङ्के केन्द्रियकाच-एवं-सिरामिक-अनुसन्धानकेन्द्रस्य स्थापना अभवत्। ‘आर्देशिर दलाल’ इत्याख्यः व्यापारी तस्य संस्थानस्य प्रप्रथमः निदेशकः अभवत्। ततः १९५२ तमात् वर्षात् १९६६ तमवर्षपर्यन्तं डॉ. आत्मारामः तस्य संस्थानस्य निदेशकत्वेन दायित्वम् अवहत्।

काचोद्योगे योगदानम्

काच-पदार्थक्षेत्रे संशोधनस्य विचारं डॉ आत्मारामः यूरोप-देशे अकरोत्। आत्मारामः यूरोप-देशस्य यात्रायै गतः आसीत्, तदा कस्यचिद् अक्षिणि काचः अपतत्। आत्मारामः अत्यन्तं व्याकूलः अभवत्। काचः तस्य अक्षिणः निष्कासनानन्तरं सः अपृच्छत्, एतत् किमस्ति ? इति। तदारभ्य काचः तस्य संशोधनविषयः अभवत्।

डॉ. आत्मारामः एस-सी, एफ जी टी (ऑनरेरी), एफ आई सी, एफ एन आई इत्यादिभिः सम्मानितः प्राप्तान्ताराष्ट्रियख्यातिः वैज्ञानिकः। काचोद्योगे तस्य अनेकानि महत्त्वपूर्णानि संशोधनानि सन्ति। काचस्य अनेकेषां प्रकाराणां निर्माणे तस्य महद्योगदानं वर्तते। काचस्य रङ्गयुक्तस्य, फेनिल-युक्तस्य, सिलेनियम-मुक्तस्य रक्तकाचस्य च आविष्कारः डॉ आत्मारामस्य मुख्ययोगदानेषु अन्तर्भवति।

१९६१ तमस्य वर्षस्य जनवरी-मासे भारतीयविज्ञानपरिषदः अष्टचत्वारिंशत्तमे (४८) अधिवेशने डॉ. आत्मारामः हिन्दीभाषया एकं शोधलेखम् अपठत्। 'भारत में ऑप्टीकल काच का उत्पादन' इति तस्य शोधलेखस्य विषयः आसीत्। तत्र सः अवदत्, काचेन निर्मितेन दूरदर्शकेनैव विश्वेन ज्ञातं यत्, पृथ्वी सूर्यं परितः परिक्रामति, न तु सूर्यः पृथ्वीं परितः। काचः अनेकेषां महत्त्वपूर्णयन्त्राणां मुख्याङ्गभूतः वर्तते। सूक्ष्मतमात् दीर्घतमं द्रष्टुं काचः मुख्यसाधनत्वेन परिगण्यते। आधुनिकसैनिकाः लक्ष्यं साधयितुं काचस्य उपयोगं कुर्वन्ति। पूर्वं एतादृशः महत्त्वपूर्णः काचः सम्पूर्णे जम्बूद्वीपे केवलं जपान्-देशे एव निर्मीयते स्म। तस्य काचस्य प्रप्रथमनिर्माणस्य श्रेयः जर्मनी-देशाय गच्छति इति।

डॉ. आत्मारामस्य मार्गदर्शने भारते काचोद्योगः विकसितः। स्वल्पे काले केन्द्रिय-काच-एवं-सिरामिक-अनुसन्धानकेन्द्रम् अखिलभारतस्य काचस्य आवश्यकतायाः आपूर्त्यै क्षमम् अभवत्। काचस्य संरचनायाः, ताम्रवर्णीयस्य काचस्य च निर्माणाय अपि डॉ. आत्मारामस्य योगदानं महत्तरं मन्यते। डॉ. आत्मारामस्य व्यवस्थितं, सफलं च कार्यं दृष्ट्वा विश्वस्य अनेके देशाः तं 'फैलो' इत्यनेन अघोषयन्। 'सोसाइटी ऑफ् ग्लास् टैक्नोलॉजी' इत्याख्या ब्रिटेन्-देशस्य काचोद्योगस्य संस्था १९६६ तमे वर्षे डॉ. आत्मारामं 'फैलो' इति घोषयित्वा तस्य सम्माननम् अकरोत्। ततः सः भारतीयराष्ट्रियविज्ञानसंस्थानस्य, 'इन्स्टिट्यूशन् ऑफ् केमिस्ट्स् इण्डिया' इत्येतयोः संस्थयोः सदस्यः अभवत्।

स्वतन्त्रे भारते १९४८ तमे वर्षे काचायोगस्य (इन्टरनेशनल् कमीशन् ऑन् ग्लास्), अन्ताराष्ट्रियमृत्तिका-अकादमी-स्थायाः (इन्टरनेशनल् एकेडेमी ऑफ् सिरेमिक्स्) च सदस्यः डॉ. आत्मारामः अभवत्। सः अन्ताराष्ट्रियसङ्घद्वारा सञ्चालिते उच्चतापस्य रासायनिकायोगे भारतस्य प्रतिनिधित्वम् आचरत्। १९६२-६६ वर्षेषु भारतीयविज्ञानपरिषदः महामन्त्रित्वेन कार्यभारम् अङ्ग्यकरोत्। १९६६ तमे वर्षे भारतीयविज्ञानकॉङ्ग्रेस-वाराणस्याः अधिवेशाध्यक्षपदं व्यभूषयत्। १९६६ तः १९७१ पर्यन्तं भारतीयवैज्ञानिकौद्योगिकानुसन्धानपरिषदः महानिदेशपदे आरूढः।

१९६७ तमे वर्षे भारतीयविज्ञानपरिषदः पञ्चपञ्चाशत्तमे (५५) अधिवेशने वाराणस्यां अध्यक्षपदारूढः डॉ आत्मारामः हिन्दीभाषया अनेकान् महत्त्वपूर्णान् विषयान् उपास्थापयत्।

१. विज्ञाने बौद्धिकैकाधिपत्यस्य किमपि स्थानं नास्ति। यदि कुत्रचित् अस्ति, तर्हि यथाशीघ्रं तद् अपाकरणीयम्।

२. प्रयोगशालायां स्वतन्त्रतायाः अर्थः अन्यान् प्रति स्वकर्तव्यस्य अभावः इति न सिद्ध्यति।

३. भारतम् औद्योगिकक्रान्तेः द्वारे स्थितम् अस्ति। अस्माकम् औद्योगकविकासः तदैव सम्भविष्यति, यदा अस्माकं प्रयोगशालासु कृतानि अनुसंशोधनानि कार्यशालापर्यन्तं (factories) गमिष्यन्ति।

४. आधुनिक्यः समस्याः न केवलं राजनीतिज्ञानां दायित्वम् अस्ति, अपि तु सर्वेषां देशवासिनां दायित्वम् अस्ति। वैज्ञानिकाः केवलं परामर्शदातारः न भवेयुः, अपि तु देशविकासप्रक्रियायां पूर्णरीत्या सक्रियाः भवेयुः।

हिन्द्यां विज्ञानलेखनम्

हिन्दीसमर्थकेषु अग्रगण्यविज्ञानिकेषु डॉ. आत्मारामः अन्यतमः। अतः सः हिन्दीभाषया वैज्ञानिकसाहित्यम् असृजत्। डॉ. आत्मारामेण हिन्दीभाषया लिखिताः शताधिकाः शोधलेखाः भारतस्य कृते महत्त्वपूर्णाः। तेषु लेखेषु भौतिकरसायनं, प्रकाशरसायनं, काचः, सिरेमिक् इत्येतेषां विषयाणां संशोधनात्मकम् अध्ययनम् अन्तर्भवति। विंशतिः पद्धतयः डॉ आत्मारामेण संशोधिताः, यासां 'पेटेन्ट' अपि अभवत्। हिन्दीभाषया डॉ आत्मारामेण यानि पुस्तकानि लिखितानि, तेषु 'रसायनशास्त्र की कहानी' इत्येतत् पुस्तकं सर्वाधिकप्रसिद्धम् अस्ति।

पुरस्कारः

१. शान्तिस्वरूप भटनागर-पुरस्कारः – १९५९

२. पद्मश्रीः – १९५९

३. Plaque of honour ऑल् इण्डिया ग्लास् मेन्युफेक्चर् फेडरेशन् – १९६४

४. डॉक्टरेट् (ओनरेरि) लेनिन् सेल्विट् टेकनोलॉजि इन्स्टिट्यूट्, लेनिन्गराद – १९५९

५. उत्तरप्रदेशवैज्ञानिकानुसन्धानसमितिपदकम्

६. के जी नायक-स्वर्णपदकं, बडौदा-विश्वविद्यालयः

७. अणुव्रतपुरस्कारः, तुलसी फाण्डेशन्

मृत्युः

१९८३ तमस्य वर्षस्य फरवरी-मासस्य षष्ठे (६/२/१९८३) [३] दिनाङ्के मध्याह्ने सार्धैकवादने देहली-नगरस्य रुग्णालये डॉ. आत्मारामः दिवङ्गतः। सः अस्थमा-रोगेण पीडितः आसीत्। यतो हि अस्थमा-रोगः शीतकाले अत्युग्रः भवति, अतः जनवरी-मासादेव सः अस्वस्थः आसीत्। ततः फरवरी-मासे अन्तिमाघातेन सः पञ्चतत्त्वे विलीनः।

व्यक्तित्वम्

आत्मारामः आर्यसमाजी आसीत्। बाल्यकालेऽपि आत्मारामः उत्पाती उत उत्छृङ्खलबालकः नासीत्। सः स्वभावेन एव शान्तः आसीत्। आत्मारामः आत्मावलोकने निमग्नः भवति स्म। भारतस्य मुख्यवैज्ञानिकेषु अन्यतमः सः सरलजीवनं यापयति स्म। आत्मारामस्य ईश्वरे अनन्या श्रद्धा आसीत्। सर्वेषु मित्रेषु आत्मारामः नेतृवत् आसीत्। सः सत्याचरणं, धर्माचरणं, प्रामाणिकतां च प्रति अन्यमित्राणि प्रेरयति स्म। सः 'खादि'-वस्त्रं धरते स्म।

एकदा आत्मारामः कस्यचित् कार्यशालायाः निरीक्षणाय अगच्छत्। यदा सः कार्यशालायाः प्राङ्गणं प्राप्तः, तदा कार्यशालायाः अधिकारिणः डॉ आत्मारामं ज्ञात्वा तस्य सहकर्मिणः पुष्पमालिकया स्वागतम् अकुर्वन्। परन्तु यदा तैः सत्यं ज्ञातं, तदा ते लज्जिताः सन्तः क्षमयाचनाम् अकुर्वन्। परन्तु डॉ आत्मारामस्य मनसि किञ्चिदपि अपमाननस्य भावः नासीत्।

डॉ. आत्मारामः कस्यचित् साक्षात्कारस्य कृते अगच्छत्। आङ्ग्लसाम्राज्ये साक्षात्कारकाले 'सूट्-पेन्ट्-टाई'वस्त्रं धृत्वा एव गन्तव्यम् इति आचारः आसीत्। तस्मिन् काले तेन 'टाई' इत्याख्यं वस्त्रं कथं ध्रियते ? इति शिक्षितम्। परन्तु आङ्ग्ल-परिपाट्या बद्धः भविष्यामि इति मत्वा तेन ततः परं कदापि तद्वस्त्रं न धृतम्। हिन्दीभाषाप्रियः, स्वदेशिप्रियः सः यावज्जीवं विज्ञानस्य, भारतस्य च सेवाम् अकरोत्।

सम्बद्धाः लेखाः

उद्धरणम्

फलकम्:Reflist

बाह्यसम्पर्कन्तुः

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=आत्मारामः_(वैज्ञानिकः)&oldid=9611" इत्यस्माद् प्रतिप्राप्तम्