आग्नेयभाषाः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox language family आग्नेयभाषाः (आस्ट्रो-एशियाटिक वा मोन्-ख्मेर् इति अपि ज्ञायते) आग्नेयजम्बुद्वीपे मुख्यभूमौ दक्षिणजम्बुद्वीपे च विशाला भाषाकुटुम्बः । एताः भाषाः सम्पूर्णे थाईलैण्डदेशे, भारते, बाङ्गलादेशे, नेपालदेशे, चीनदेशस्य दक्षिणभागे च विकीर्णाः सन्ति । आग्नेयभाषायाः वक्तारः प्रायः ११.७ कोटिः (११७ मिलियन्) सन्ति ।[१] एतेषु भाषासु केवलम् वियतनामी, ख्मेर्, मोन् च भाषासु दीर्घकालिकः अभिलेखितः इतिहासः अस्ति । केवलम् द्वयोः एव आधुनिक राष्ट्रभाषारूपेण आधिकारिकपदवी अस्ति - चम्पादेशे (वियतनामदेशे) वियतनामीभाषा, कम्बोडियादेशे ख्मेरभाषा । मोन् म्यानमारदेशे थाईलैण्डदेशे च मान्यताप्राप्ता देशीयाभाषा अस्ति । म्यानमारदेशे वाभाषा वाराज्यस्य वास्तविक-आधिकारिकभाषा अस्ति । सान्तालीभाषा भारतस्य २२ अनुसूचितभाषासु अन्यतमा । शेषभाषाः अल्पसङ्ख्यकसमूहेन भाष्यन्ते, एतेषां आधिकारिकपदवी नास्ति च ।

सम्बद्धाः लेखाः

सन्दर्भाः

"https://sa.bharatpedia.org/index.php?title=आग्नेयभाषाः&oldid=849" इत्यस्माद् प्रतिप्राप्तम्