आगमः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

सगुणोपासनस्य निर्गुणोपासनस्य च क्रमं यत् शास्त्रं बोधयति तच्च शास्त्रम् आगमः इति कथ्यते । आ समन्ताद्गमयति ।

आसमन्ताद्गमयति धर्माधर्मौ प्रंपदम् । आगमस्तेन कथित इति वेदविदो विदुः ।

तन्त्रसारे एवं कथितमस्ति - :आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः । न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः ।
तत्त्वं मन्त्रार्थं च इदं शास्त्रं बोधयति इत्यनेन तन्त्रम् इत्यपि निर्दिश्यते इदं शास्त्रम् ।

भेदाः

उपासनाविधानं, साधनामार्गः, आचारविचाराः, उपास्यदेवताः इत्यादयः भिद्यन्ते इत्यतः विविधाः आगमाः उपलभ्यन्ते ।

शैवागमः

अस्मिन् परशिवः एव उपास्यदेवता । अस्मिन् चत्वारः सम्प्रदायाः विद्यन्ते । ते -

  1. शैवसम्प्रदायः
  2. सोमसम्प्रदायः
  3. लाकुळसम्प्रदायः
  4. पाशुपतसम्प्रदायः

अयं वरुणपद्धतिः, महेन्द्रपद्धतिः, ईशानशिवगुरुदेवपद्धतिः, सोमशम्भुपद्धतिः इत्यादिभिः अष्टादश पद्धतिभिः युक्ता अस्ति । अयं परमेश्वरस्य सद्योजात-वामदेव-अघोर-तत्पुरुष-ईशानादिभिः पञ्चमुखैः उपदिष्टमस्ति । कामिकादि वातुळान्त अष्टाविंशतिसंहितारूपः अस्ति । एतेषु १० संहिताः सदाशिवेन दशशिः बोधिताः । अयं शैवागमः इति प्रसिद्धः अस्ति । अन्ये अष्टादश संहिताः अष्टादशरुद्राय उपदिष्टम् इत्यतः रौद्रागमः इति प्रसिद्धः अस्ति । रौद्रागमस्य प्रमुखसंहितायाः वातुळागमस्य उत्तरभागः वीरशैवसम्प्रदायस्य अनुष्ठानस्य आधारभूतः अस्ति ।

कामिकं योगजं चिन्त्यं कारणं त्वजितं तथा।

दीप्तं सूक्ष्मं सहस्रं च अंशुमान् सुप्रभेदकम्।

विजयं चैव निश्वासं स्वायम्भुवमथानलम्।

वीरं च रौरवं चैव मकुटं विमलं तथा।

चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा।

सिद्धं सन्तानसर्वोक्तं पारमेश्वरमेव च।

किरणं वातुळं चैव अष्टाविंशति संख्यया।।

1 कामिकागमः

2 योगजागमः

3 चिन्त्यागमः

4 कारणागमः

5 अजितागमः

6 दीप्तागमः

7 सूक्ष्मागमः

8 सहस्रागमः

9 अंशुमदागमः

10 सुप्रभेदागमः

रौद्रागमः

11 विजयागमः

12 निश्वासागमः

13 स्वायम्भुवागमः

14 अनलागमः

15 वीरागमः

16 रौरवागमः

17 मकुटगमः

18 विमलागमः

19 चन्द्रज्ञानागमः

20 बिम्बागमः

21 प्रोद्गीतागमः

22 ललितागमः

23 सिद्धागमः

24 सन्तानागमः

25 सर्वोक्तागमः

26 पारमेश्वरागमः

27 किरणागमः

28 वातुळागमः

शाक्तागमः

अस्मिन् परशिवस्य शक्तिः एव उपास्यदेवता । शक्तेः एव प्राधान्यम् इत्यतः देव्यागमः इत्यपि उच्यते । शाक्तग्रन्थाः शाक्ततन्त्राणि इत्यपि निर्दिश्यन्ते । श्रीविद्योपासनादि समस्तमन्त्रशास्त्राणां शाक्ततन्त्रमेव आधारभूतम् ।

वैष्णवागमः

अस्मिन् भेदद्वयम् - १ पाञ्चरात्रागमः २ वैखानसागमः चेति ।

पाञ्चरात्रागमः

भगवता पञ्च देवताः उद्दिश्य पञ्चसु रात्रिषु अयम् आगमः बोधितः इत्यतः पाञ्चरात्रागमः इति प्रसिद्धः जातः । अनन्तः, गरुडः, विष्वक्सेनः, ब्रह्म, इन्द्रश्च भगवता बोधिताः । अत्र विष्णुः एव आराध्यदेवः । इदं भगवच्छास्त्रम् इत्यपि कथ्यते । अस्मिन् दिव्यसिद्धान्तः, आगमसिद्धान्तः, तन्त्रसिद्धान्तः, तन्त्रान्तरसिद्धान्त च इति चत्वारः भेदाः वर्तन्ते । अयम् आगमः ज्ञान-योग-क्रिया-चर्यापादैः युक्तः अस्ति । श्रीमदानन्दतीर्थाचार्यः पाद्मसंहितां सङ्गृह्य माध्वसम्प्रदाययुतेषु देवालयेषु पूजार्थम् आनुकूल्यं यथा स्यात् तथा योजितवान् अस्ति । पाञ्चरात्रागमस्य सः भागः तन्त्रसारागमः इति प्रसिद्धः अस्ति ।

वैखानसागमः

लोकोद्धाराय परमात्मनः अंशात् अवतारं प्राप्तवता श्रीविखनसमहर्षिणा भृगु-अत्रि -मरीचि-कश्यपाः उपदिष्टाः । अयम् आगमः संहितारूपेण तेन उपदिष्टम् । अस्मिन् चत्वारः भागाः सन्ति -

संहिता - मरीचिमहर्षिणा प्रोक्ताः जय-आनन्द-संज्ञान-वीर-विजयादयः अष्ट आगमाः संहिता इति निर्दिश्यन्ते ।
अधिकरणम् - भृगुमहर्षिणा प्रोक्ताः खिल-खिलाधिकार-पुराधिकार-वासाधिकार-अर्चाधिकारादयः दश भागाः अधिकरणम् इति निर्दिश्यन्ते ।
तन्त्रम् - अत्रिमहर्षिणा प्रोक्ताः पूर्वतन्त्र-विष्णुतन्त्र-उत्तरतन्त्र-महातन्त्रनामकाः चत्वारः भागाः तन्त्रम् इति निर्दिश्यन्ते ।
काण्डम् - कश्यपमहर्षिणा प्रोक्ताः सत्यकाण्ड-धर्मकाण्ड-ज्ञानकाण्डनामकाः त्रयः भागाः काण्डम् इति निर्दिश्यन्ते ।

जैनागमः

द्वादशाङ्गात्मकस्य जैनागमस्य स्वरूपम् एवं वर्तते - सर्वज्ञैः तीर्थङ्करैः समवसरणसभायां गणधरादीन् श्रेष्ठान् उद्दिश्य कृतं बोधनम् एव जैनागमः, जैनसिद्धान्तः, द्वादशाङ्गश्रुतः इत्यादिभिः नामभिः निर्दिश्यते । अयं जैनागमः सर्वज्ञैः तीर्थङ्करैः अनादिकालतः अनन्तकालपर्यन्तम् उपदिश्यमानमेव भवति इत्यतः अयं सादिः अनादिः इत्यपि कथ्यते । जैनागमः द्विविधं वर्तते - अङ्गबाह्यम् अङ्गप्रविष्टम् इति ।
अङ्गप्रविष्टम् द्वादशभिः अङ्गैः युक्तं वर्तते । ते - आचाराङ्ग, सूत्रकृताङ्ग, स्थानाङ्ग, समवायाङ्ग, व्याख्याप्रज्ञप्ति, ज्ञातृकथा, उपासकाध्ययन, अनुत्तरोपपादिक, अन्तकृद्दशाङ्ग, प्रश्नव्याकरण, विपाकसूत्र, दृष्टिवाददशाङ्गेति च । उपासकाध्ययनाङ्गे देवप्रतिष्ठा, पूजाक्रमः श्रावकाचारः, यत्याचारः च प्रतिपादिताः सन्ति । जैनागमे त्रयः आराध्यदेवताः - देवः, गुरुः, शास्त्रञ्च

देवः

अर्हन्ताः सिद्धाः च । अर्हन्तेषु भूतभविष्यद्वर्तमानस्य ७२ तीर्थङ्कराः, पञ्चविदेहेषु वर्तमानाः सीमन्धर-युगमन्धरादि २० तीर्थङ्कराः च अन्तर्भवन्ति ।

गुरवः

चतुरशीतिलक्षगुणसम्पन्नाः गणधर आचार्यपरमेष्ठीवर्याः, द्वादशाङ्गपाठकाः उपाध्यायपरमेष्ठिवर्याः, ज्ञानध्यानतपोरक्ताः सर्वसाधुपरमेष्ठिवर्याः च ।

शास्त्रम्

जिनमुखोद्भूत-स्याद्वादनयगर्भित-द्वादशाङ्गरूपा जिनभारतिप्रतिष्ठा पूजाक्रमाः च अधः लिखितेषु ग्रन्थेषु बोधिताः सन्ति -

  1. अकलङ्कस्वामिरचिता अकलङ्कसंहिता
  2. नेमिचन्द्रविरचितं प्रतिष्ठातिलकम्
  3. आशाधरिसूरिविरचितं प्रतिष्ठातिलकम्
  4. वसुनन्द्याचार्यविरचिता संहिता
  5. ब्रह्मसूरिविरचिता संहिता
  6. भगवज्जिनसेनाचार्यविरचितम् आदिपुराणम्

फलकम्:वैदिकविज्ञानम्

"https://sa.bharatpedia.org/index.php?title=आगमः&oldid=9228" इत्यस्माद् प्रतिप्राप्तम्