अल्मोडामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement अल्मोडामण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अल्मोडा इति नगरम् । अल्मोडामण्डलं हस्तकला-भोजन-वन्यजीवनादिभ्यः प्रख्यातमस्ति ।

भौगोलिकम्

अल्मोडामण्डलस्य विस्तारः ३,६८७ च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य मध्यभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तराखण्डराज्यस्य द्वे मण्डले स्तः । ते क्रमेण बागेश्वर-चमोलीमण्डले । अस्य दक्षिणदिशि नैनितालमण्डलं, पूर्वदिशि चम्पावतमण्डलं, पश्चिमदिशि पौरीगढवालमण्डलम् अस्ति । अस्मिन् मण्डले ५०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा - कोची, सुयाल, रामगङ्गा, चौखुतिया

जनसङ्ख्या

अल्मोडामण्डलस्य जनसङ्ख्या(२०११) १७,४४,००० अस्ति । अत्र २,९१,०८१ पुरुषाः, ३,३१,४२५ स्त्रियः, ८०,०८२ बालकाः (४१,६७२ बालकाः, ३८,४१० बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६.१७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३३ अस्ति । अत्र साक्षरता ८०.४७% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८९.२०% स्त्री - ६०.५६% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- १ अल्मोडा २ भिकियासैण ३ चौखुटिया ४ द्वाराहाट ५ जैन्ती ६ रानीखेत ७ सोमेश्वर ८ सल्ट ९ भनोली ।

वीक्षणीयस्थलानि

कैञ्ची-गरमपानी-मानिलादेवीमन्दिर-कसारदेवीमन्दिर-कालीमठ-'अल्मोडा के किले'-सिमतोला-मोहनजाशीपार्क-कोसिमन्दिर-जूलादेवीमन्दिर-तरिखेत-चिलैनौला-चौखुटिया-बिसारमहादेवमनदिरेत्यादीनि स्थानानि वीक्षणीयानि सन्ति ।

कैञ्ची

अत्र हनुमतः भव्यमन्दिरमस्ति । ‘जून’-मासस्य पञ्चदशे दिनाङ्केऽत्र उत्सवः भवति । नवरात्रदिनेष्वत्र विशेषपूजा भवति । एतत् ऐतिहासिकं स्थलमपि अस्ति ।

मानिलादेवीमन्दिरम्

१४८८ तमे वर्षे कत्यूरीवंशीयस्य सारङ्गनामकराज्ञः लखनपुरे शासनमासीत् । सः दुर्गे स्वकुलदेव्याः मन्दिरं निर्मापितवान् । तत् मानिलादेवीमन्दिरम् इति नाम्ना प्रसिद्धमस्ति ।

अल्मोडा के किले

अल्मोडा-नगरस्य पूर्वदिशि खगमरा-नामकः दुर्गः अस्ति । कत्यूरीवंशीयराज्ञः शासनकाले निर्मित एषः दुर्गः वीक्षणीयः अस्ति ।

नन्दादेवीमन्दिरम्

नन्दादेवी पार्वत्याः स्वरूपमस्ति । गढवालवंशस्य कुलदेवी एषा । भाद्रपदमासेऽत्र उत्सवः भवति । मन्दिरस्य शान्तवातावरणं मुख्याकर्षणमस्ति ।

फलकम्:Geographic location

बाह्यानुबन्धः

http://almora.nic.in/

http://www.euttaranchal.com/uttaranchal/almora.php

http://dcalm.uk.gov.in/

http://villagemap.in/uttarakhand/almora.html

फलकम्:उत्तराखण्डस्य मण्डलानि फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=अल्मोडामण्डलम्&oldid=8015" इत्यस्माद् प्रतिप्राप्तम्