अभिसन्धाय तु फलं...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
- इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य द्वादशः(१२) श्लोकः ।
पदच्छेदः
- अभिसन्धाय तु फलं दम्भार्थम् अपि च एव यत् इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥
अन्वयः
भरतश्रेष्ठ ! फलं तु अभिसन्धाय दम्भार्थम् अपि च एव यत् इज्यते तं यज्ञं राजसं विद्धि ।
शब्दार्थः
- अभिसन्धाय = उद्दिश्य
- दम्भार्थम् = धर्मादिगुणवत्त्वेन आत्मनः ख्यापनार्थम्
- राजसम् = रजोगुणसम्बन्धिनम् ।
अर्थः
अर्जुन ! फलम् अपेक्ष्य धार्मिकतया आत्मानं ख्यापयितुं यः यज्ञः क्रियते सः राजसः इति जानीहि ।