अभिनन्दनः वर्धमानः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Use dmy dates फलकम्:Infobox military person

अभिनन्दनः वर्धमानः भारतीयवायुसेनायाः विङ्ग् कमाण्डर्। सः वैमानिकाक्रमणतः रक्षणवेलायां पाकिस्ताने पतितः दिनद्वयं यावत् पाकिस्तानस्य अधीने आसीत्। [१][२][३] भारतसर्वकारेण वीरचक्रप्रशस्त्या सम्मानितः ।

बाल्यम्, उद्योगः च

मिग् विमानम्

अभिनन्दनस्य जन्म काञ्चिपुरतः १९ किमी दूरे विद्यमाने तिरुपमनूर् इति ग्रामे अभवत्। तस्य पिता वायुसेनायाः अधिकारी माता च वैद्या। अभिनन्दनस्य पत्नी अपि वायुसेनायाम् अस्ति। न्याशनल् डिफेन्स् अकाडेमी द्वारा पदवीं समाप्य अभिनन्दनः २००४ तमे वर्षे वायुसेनां प्रविष्टवान्। आदौ सः Su-30 MKI विमानस्य चालकः आसीत्। तदनन्तरं मिग् विमाने चालकः अभवत्।[४] [५][६]


बन्धनम्

भारतेन पुल्वामा आक्रमणं विरुद्ध्य उग्रशिबिराणामुपरि वैमानिकं क्षिप्राक्रमणम् कृतम्। ततः पाकिस्तानेन फेब्रवरी २७ तमे दिनाङ्के F-16 विमानयानसाहाय्येन भारतस्योपरि आक्रमणस्य प्रयासः कृतः। अभिन्दनः मिग् विमानेन पाकिस्तानीयविमानम् अमारयत्। तदैव पाकिस्तानसीमानं प्रविष्टः अभिनन्दनः प्याराच्यूट् साहाय्येन पाकिस्तानभूमौ अपतत्। तत्र तस्य बन्धनं प्रवृत्तम्।[७][८][९][१०][११]

विमोचनम्

वाघासीमा

जिनीवासन्धिमनुसृत्य अभिनन्दनः भारतं प्रतिप्रेषणीयः इति भारतीयसर्वकारेण उक्तम्। फेब्रवरी २८ तमे दिनाङ्के पाकिस्तानस्य प्रधानमन्त्री अभिनन्दनः भारतं श्वः प्रेष्यते इति उदघोषयत्। तदनुसारं मार्च् १ दिनाङ्के रात्रौ ९.०० वादनसमये अभिनन्दनः वाघा सीमनि भारतं प्रति दत्तः।[१२][१३][१४][१५]

विडियोचित्राणि

पाकिस्ताने बन्धनसमये अभिनन्दनस्य कतिचन वीडियोचित्राणि कृत्वा पाकिस्तानेन प्रकाशितानि। कस्मिंश्चित् चित्रे तस्य रक्तसिक्तं मुखम् आसीत्। अन्यत्र चित्रे सः चायं पिबन् आसीत्। परन्तु अभिनन्दनेन चित्रेषु तस्य नाम, वायुसेनायाः स्थानम्. धर्मः एव उक्तः। अन्यत् किमपि सः न अवोचत्।[१६]

श्मश्रूः

अभिनन्दनस्य श्मश्रूः

अभिनन्दनस्य श्मश्रूः चापाकारेण कपोलार्धभागं व्याप्ता। अभिनन्दनस्य बन्धनान्तरं एतस्य श्मश्रूशैली भारते प्रसिद्धा वर्तते।[१७]

उल्लेखाः

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=अभिनन्दनः_वर्धमानः&oldid=4982" इत्यस्माद् प्रतिप्राप्तम्