अफलाकाङ्क्षिभिर्यज्ञो...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
- यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ ११ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य एकादशः(११) श्लोकः ।
पदच्छेदः
- अफलाकाङ्क्षिभिर्यज्ञः विधिदृष्टः यः इज्यते यष्टव्यम् एव इति मनः समाधाय सः सात्त्विकः ॥
अन्वयः
अफलाकाङ्क्षिभिः यष्टव्यम् एव इति मनः समाधाय विधिदृष्टः यः यज्ञः इज्यते सः सात्त्विकः ।
शब्दार्थः
- अफलाकाङ्क्षिभिः = फलम् अनपेक्षमाणैः
- यष्टव्यम् एव इति = यज्ञः कर्तव्यः इति
- समाधाय = मनः एकाग्रं कृत्वा
- विधिदृष्टः = शास्त्रविहितः
- इज्यते = क्रियते
- सात्त्विकः = सत्त्वसम्बन्धी ।
अर्थः
फलम् अनपेक्ष्य यज्ञः कर्तव्यः इति दृढं सल्प्य एकाग्रेण मनसा यथाशास्त्रं यः यज्ञः क्रियते सः सात्त्विकः इत्युच्यते ।